
धूम्रलोचनवधः (Dhūmralocana-vadhaḥ)
Devi's Grace
第86章中,女神安住山中,舒姆婆派使者“烟目者”杜姆拉洛恰那前来强行带走女神。他以傲慢与威胁相逼,女神却安然拒绝。女神发出神圣的“吽(Hūṃ)”音或以神息之力,立刻将杜姆拉洛恰那焚成灰烬。舒姆婆震怒,随即派遣旃陀与牟陀率大军前往擒拿女神。
Verse 1
इति श्रीमार्कण्डेयपुराणेऽथ सावर्णिके मन्वन्तरे देविमाहात्म्ये पञ्चाशोत्तमोध्यायः । षडशीतितमोऽध्यायः- ८६ । ऋषिरुवाच इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः । समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥
(过渡。)仙人说道:“听罢女神之言,那使者满怀愤慨,前去将其详尽禀告于代底耶之王。”
Verse 2
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः । सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥
听到使者之言,阿修罗王随即震怒,便对代底耶中的首领——杜姆罗洛遮那说道。
Verse 3
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः । तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम् ॥
“杜姆罗洛遮那啊,速速——率你本军围护左右——以强力将那恶女带来,使她因被揪发拖拽而受苦。”
Verse 4
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः । स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥
若另有人起身护卫她,便应被诛杀——无论是天神、夜叉,或乾闼婆。
Verse 5
ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः । वृतः पष्ट्या सहस्राणामसुराणां द्रुतं ययौ ॥
圣仙说道:奉他之命,檀那婆·烟目(Dhūmralocana)迅速出发,疾行而去,周围簇拥着成千上万队阿修罗。
Verse 7
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् । जगादोच्चैः प्रयाहिति मूलं शुम्भनिशुम्भयोः ॥ न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति । ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥
见女神安住于喜马拉雅,他高声喊道:“去到舒姆婆与尼舒姆婆面前!若你今日不甘愿前往我主处,我便以强力擒你,扯着你的发丝拖走,使你因被拽发而痛苦。”
Verse 8
श्रीदेव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः । बलान्नयासि मामेवं ततः किं ते करोम्यहम् ॥
吉祥女神说道:“你奉代底耶之主差遣而来,强盛且为强力所环绕。若你要如此以强夺我——那我又当如何对待你呢?”
Verse 9
ऋषिरुवाच इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः । हुंकारेणैव तं भस्म सा चकाराम्बिका ततः ॥
圣仙说道:被如此言辞所触,那阿修罗烟目猛然扑向她;随即安比迦仅以一声“吽”(hūṃkāra),便将他化为灰烬。
Verse 10
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका । ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥
于是,安毗迦女神向暴怒的阿修罗大军降下锐利箭雨,并以长矛与战斧一并击杀。
Verse 11
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् । पपातासुरसेनायां सिंहः देव्याः स्ववाहनः ॥
随后,狮子——即女神德维的坐骑——怒摇鬃毛,发出极其可怖的咆哮,纵身扑向阿修罗军阵。
Verse 12
कांश्चित् करप्रहारेण दैत्यानास्येन चापरान् । आक्रम्य चाधरेणान्यान् स जग्हान महासुरान् ॥
有些底提耶被它以爪击毙;有些被它以口噬杀;还有一些被它践踏,并以其下颚撕咬而亡。
Verse 13
केषाञ्चित् पाटयामास नखैः कोष्ठानि केशरी । तथा तलप्रिहारेण शिरांसि कृतवान् पृथक् ॥
狮子以利爪撕裂一些人的胸膛;又以爪击将另一些人的头颅从身躯上分离。
Verse 14
विच्छिन्नबाहुशिरसः सृतास्तेन तथापरे । पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥
另有一些人臂与首被斩断,便从它面前逃窜;而那鬃毛震动的狮子又从另一些人的胸膛中饮其鲜血。
Verse 15
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना । तेन केसरिणा देव्याः वाहनेंनातिकोपिना ॥
顷刻之间,那支军队尽被那位大心之狮——女神之乘骑——以极盛怒火所歼灭。
Verse 16
श्रुत्वा तमसुरं देव्याः निहतं धूम्रलोचनम् । बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ॥
听闻阿修罗“烟目”(Dhūmralocana)已被女神所诛,且全军又为女神之狮所灭,于是——
Verse 17
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः । आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥
代底耶之主商婆(Śumbha)怒火中烧——双唇颤动——遂命令两位大阿修罗:旃陀(Caṇḍa)与蒙陀(Muṇḍa)。
Verse 18
हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ । तत्र गच्छत गत्वा च सा समानीयतां लघु ॥
“旃陀啊!蒙陀啊!率众多兵众前往彼处;既至,速将她带到此地来。”
Verse 19
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि । तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥
“若你们在战斗中尚有疑惧,便揪其发而拖拽,缚而系之;随后令诸阿修罗以一切兵器将她杀戮。”
Verse 20
तस्यां हतायां दुष्टायां सिंहें च विनिपातिते । शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥
“待那恶女被诛、狮子被击倒之后,速速归来——捆缚并擒拿那位安比迦(Ambikā)。”
The chapter foregrounds the contrast between coercive power (asuric abduction and intimidation) and divine sovereignty (the Devī’s effortless, non-instrumental destruction of evil), presenting shakti as a principle that subordinates brute force and fear-based rule.
It marks a decisive escalation: Śumbha’s attempt at forcible capture fails immediately with Dhūmralocana’s death, the asura army is routed by the Devī’s lion, and Śumbha responds by sending higher-ranking agents (Caṇḍa and Muṇḍa), intensifying the campaign.
It establishes a hallmark Devī Māhātmya motif—victory through the Devī’s intrinsic power (huṃkāra as a shaktic act) and the martial agency of her vāhana—while narratively preparing the Caṇḍa–Muṇḍa episode central to later manifestations and epithets of the Goddess.