
बलरामतीर्थयात्रा-प्रारम्भः (Balarāma-tīrthayātrā-prārambhaḥ)
Vasu's Story
本章叙述婆罗罗摩开始前往诸圣地(tīrtha)的朝圣之旅,内心在责任与忧惘之间徘徊。于勒瓦塔的林苑中,他因酒醉而漫游,怒意与虔敬之情交织显现。最终,他诛杀行为失礼的苏多(Suta),以昭示护持达摩、仪轨与对神圣的敬畏。
Verse 1
इति श्रीमार्कण्डेयपुराणे इन्द्रविक्रियानाम पञ्चमोऽध्यायः । षष्ठोऽध्यायः । पक्षिण ऊचुः— रामः पार्थे परां प्रीतिं ज्ञात्वा कृष्णस्य लाङ्गली । चिन्तयामास बहुधा किं कृतं सुकृतं भवेत् ॥
群鸟说道:持犁者婆罗罗摩(Balarāma),既已明了黑天对阿周那的至上深情,便多方思惟:“究竟曾作何业行,方能生起如此功德(sukṛta)?”
Verse 2
कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् । पाण्डवान् वा समाश्रित्य कथं दुर्योधनं नृपम् ॥
“确然,若无黑天,我决不近于都利约陀那。又若我已投依般度族,怎还能去接近都利约陀那王?”
Verse 3
जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् । तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम् ॥
“我将使那位国王——既为女婿亦为弟子——被诛杀。因此,我既不往帕尔塔(阿周那)处去,也不往都利约陀那王处去。”
Verse 4
तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना । कुरूणां पाण्डवानां च यावदन्ताय कल्पते ॥
“直到适合促成俱卢与般度族纷争终结的时刻到来,我将前往诸圣渡处(tīrtha)沐浴净身,以自身之力涤除自我。”
Verse 5
इत्यामन्त्र्य हृषीकेशं पार्थ-दुर्योधनावपि । जगाम द्वारकां शौरिः स्वसैन्युपरिवारितः ॥
就这样辞别了赫利希凯沙(Hṛṣīkeśa),也辞别了帕尔塔(Pārtha)与杜尔约陀那(Duryodhana),绍利(Śauri)在自家军队簇拥之下启程前往德瓦罗迦(Dvārakā)。
Verse 6
गत्वा द्वारवतीं रामो हृष्टपुष्टजनाकुलाम् । श्वो गन्तव्येषु तीर्थेषु पपौ पानं हलायुधः ॥
抵达德瓦罗伐蒂(Dvāravatī)——那里人群欢悦、衣食丰足——罗摩·持犁者(Halāyudha,即婆罗罗摩 Balarāma)饮下令人沉醉之酒,因为次日他们将启程前往诸圣渡处(tīrtha)。
Verse 7
पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् । हस्ते गृहीत्वा समदां रेवतीमप्सरोपमाम् ॥
饮罢之后,他前往繁盛的赖伐多(Raivata)园林,牵着蕾瓦蒂(Revati)的手——她微醺(或兴致高昂),容姿宛如天女(apsaras)。
Verse 8
स्त्रीकदम्बकमध्यस्थो ययौ मत्तः पदास्खलन् । ददर्श च वनं वीरो रमणीयमनुत्तमम् ॥
他立于众多女子之间,那醉者仍踉跄前行、步履不稳;而那位英雄望见一片林野,极其悦目,其美无与伦比。
Verse 9
सर्वर्तुफलपुष्पाढ्यं शाखामृगगणाकुलम् । पुण्यं पद्मवनोपेतं सपल्वलमहावनम् ॥
一片宏大的森林——神圣而吉祥——四时花果繁盛,树栖群兽成队其间,又有莲花丛生之处,并伴以沼泽泥潭与水洼。
Verse 10
स शृण्वन् प्रीतिजननान् बहून् मदकलान् शुभान् । श्रोतरम्यान् सुमधुरान् शब्दान् खगमुखेरितान् ॥
他聆听到许多吉祥之音——令人欢悦,因其妙韵而微微醉人——悦耳而极其甘美,皆出自群鸟之口。
Verse 11
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् । अपश्यत् पादपांस्तत्र विहगैरनुनादितान् ॥
在那里,他看见树木四时结实累累,四时繁花灿然,并回响着群鸟的鸣唤。
Verse 12
आम्रानाम्रातकान् भव्यान् नारिकेलान् सतिन्दुकान् । आविल्वकांस्तथा जीरान् दाडिमान् बीजपूरकान् ॥
有芒果与阿摩罗多迦果,皆为上等佳品;又有椰子与丁杜迦果;亦有毗罗婆迦与吉罗;并有石榴与香橼(bījapūraka)。
Verse 13
पनसाञ् लाकुचान् मोचान् नीपांश्चातिमनोहरान् । पारावतांश्च कङ्कोलान् नलिनानाम्लवेतसान् ॥
“(其中有)菠萝蜜树、拉库迦树、香蕉丛,以及极其妩媚的尼帕(迦檀婆)树;又有帕罗婆多树、甘拘罗(香辛)树、莲花,并有酸味的韦多萨(酸韦多萨之类植物)。”
Verse 14
भल्लातकानामलकांस्तिन्दुकांश्च महाफलान् । इङ्गुदान् करमर्दांश्च हरीतक-विभीतकान् ॥
其中有婆罗多迦(bhallātaka)之坚果、阿摩勒迦(āmalaka,印度醋栗)之果、丁度迦(tinduka)之果,以及诸多大果;又有因古陀(iṅguda)之果、迦罗摩尔陀(karamarda)之浆果,并有诃利多迦(harītaka)与毗毗多迦(vibhītaka)之果。
Verse 15
एतानन्यांश्च स तरून् ददर्श यादुनन्दनः । तथैवाशोक-पुन्नाग-केतकी-बकुलानथ ॥
雅度(Yadu)的后裔见到这些树木以及其他诸树;同样也见到阿输迦(aśoka)、本那伽(punnāga)、计多迦(ketakī)与婆俱罗(bakula)之树。
Verse 16
चम्पकान् सप्तपर्णांश्च कर्णिकारान् समालतिन् । पारिजातान् कोविदारान् मन्दारान् बदरांस्तथा ॥
有瞻波迦(champaka)之树、七叶(saptaparṇa)之树、羯尼迦罗(karṇikāra)之树、末罗底(mālatī)之藤蔓;亦有波利阇多(pārijāta)、拘毗陀罗(kovidāra)、曼陀罗(mandāra)与婆陀罗(badara,枣/酸枣)之树。
Verse 17
पाटलान् पुष्पितान् रम्यान् देवदारुद्रुमांस्तथा । सालांस्तालांस्तमालांश्च किंशुकान् वञ्जुलान् वरान् ॥
有盛开而可爱的波吒罗(pāṭala)之树,亦有天香杉/雪松(deodāra)之树;并有娑罗(śāla)之树、塔罗(tāla)棕榈、达摩罗(tamāla)之树,以及上妙的金舒迦(kiṃśuka)与梵阇罗(vañjula)之树。
Verse 18
चकोरैः शातपत्रैश्च भृङ्गराजैस्तथा शुकैः । कोकिलैः कलविङ्कैश्च हारितैर् जोवजीवकैः ॥
其间有遮拘罗(cakora)鸟、娑多钵多罗(śātapatra)鸟、婆陵伽罗阇(bhṛṅgarāja)鸟与鹦鹉;又有布谷鸟、迦罗毗因迦(kalaviṅka)鸟,并有诃利多(hārīta)鸟与吉婆迦(jīvaka)鸟等。
Verse 19
प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः । श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम् ॥
其地栖居着查塔卡鸟及诸多异类飞禽,啁啾之声悦耳,甘美无比。
Verse 20
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥
又有可爱之湖,水清澈而澄静,点缀以白睡莲(kumuda)、白莲(puṇḍarīka)与吉祥的青莲(nīlotpala)。
Verse 21
कह्लारैः कमलैश्चापि आचितानि समन्ततः / कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः
四周密布白莲(kahlāra)与红莲(kamala),亦有迦檀婆鸟、查克拉瓦卡鸭及诸般水禽(jalakukkuṭa)。
Verse 22
कारण्डवैः प्लवैर्हंसैः कूर्मैर्मद्गुभिरेव च । एभिश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥
四面充满迦兰陀婆鸭、潜水之鸟、天鹅、龟与madgu鸟,并有许多其他水中游动之生类。
Verse 23
क्रमेणेत्थं वनं शौरिर्वोक्ष्यमाणो मनोरमम् । जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम् ॥
于是,娑乌利(Śauri)一边逐步前行,一边叙述那迷人的林苑;众女随行其后,遂(抵达)一处无比殊胜、藤蔓覆蔽的格架凉亭。
Verse 24
स ददर्श द्विजांस्तत्र वेदवेदाङ्गपारगान् । कौशिकान् भार्गवांश्चैव भारद्वाजान् सगौतमान् ॥
在那里,他看见诸位两次生的婆罗门,已渡达吠陀与吠陀支分(Vedāṅga)的彼岸——出自考希迦(Kauśika)系、婆尔伽瓦(Bhārgava)系、婆罗陀婆阇(Bhāradvāja)系,以及乔多摩(Gautama)系者。
Verse 25
विविधेषु च सम्भूतान् वंशेषु द्विजसत्तमान् । कथाश्रवणबद्धोत्कानुपविष्टान् महत्सु च ॥
又见诸多出身不同族系的两次生中之最胜者,端坐于诸大德之间——殷勤专注,其欢悦系于聆听神圣传说。
Verse 26
कृष्णाजिनोत्तरीयेषु कुशेषु च वृषीषु च । सूतञ्च तेषां मध्यस्थं कथयानं कथाः शुभाः ॥
他们坐于库沙草座与席垫之上,披着黑羚羊皮作上衣;并令苏多(Sūta)居于其中,宣说吉祥之事。
Verse 27
पौराणिकीः सुरर्षोणामाद्यानां चरिताश्रयाः । दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम् ॥
诸婆罗门皆通晓《往世书》之学,安住于上古神圣仙人之行迹;见罗摩因饮蜜酒而双目微赤,便(随之作出相应反应)。
Verse 28
मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः । पूजयन्तो हलधरमृते तं सूतवंशजम् ॥
他们心想:“此人是我方之人(属我)。”便急忙起身——礼敬持犁者哈拉陀罗(Balarāma,婆罗罗摩),唯独那位出自苏多族系者除外。
Verse 29
ततः क्रोधसमाविष्टो हली सूतं महाबलः । निजघान विवृत्ताक्षः क्षोभिताशेषदानवः ॥
于是,盛怒所驱,强大的哈利(婆罗罗摩)击倒了御者;他怒目翻转,使一切达那婆众陷入骚动与混乱。
Verse 30
अध्यास्याती पदं ब्राह्मं तस्मिन् सूते निपातिते । निष्क्रान्तास्ते द्विजाः सर्वे वनात् कृष्णाजिनाम्बराः ॥
当那位苏多(Sūta)倒下(被击毙)之时,他(那位苦行者)将得证梵之境界(Brahman-state)。随后,所有那些“再生者”(二次生),身披黑羚羊皮,皆离去入林。
Verse 31
अवधूतं तथात्मानं मन्यमानो हलायुधः । चिन्तयामास सुमहन्मया पापमिदं कृतम् ॥
持犁武者哈拉尤陀(婆罗罗摩)自念亦同受羞辱、如被弃绝,遂深自省思:“我已造下大罪。”
Verse 32
ब्राह्मं स्थानं गतो ह्येष यद् सूतो विनिपातितः । तथा हीमे द्विजाः सर्वे मामवेक्ष्य विनिर्गताः ॥
“由于那苏多已被击杀,他仿佛已达婆罗门之境。同样,这些再生者一见到我,便都离去而出。”
Verse 33
शरीरस्य च मे गन्धो लोहस्येवासुखावहः । आत्मानञ्चावगच्छामि ब्रह्मघ्नमिव कुत्सितम् ॥
“甚至我身上的气味也令人苦恼,如铁之腥臭;我自觉卑污可憎——如同弑害婆罗门者。”
Verse 34
धिगमर्षं तथा मद्यमतिमानमभीरुताम् । यैराविष्टेन सुमहन्मया पापमिदं कृतम् ॥
可叹这嗔怒与沉醉,可叹这过度的傲慢与怯懦——正因被它们所支配,我才犯下此等大罪。
Verse 35
तत्क्षयार्थं चरिष्यामि व्रतं द्वादशवार्षिकम् । स्वकर्मख्यापनं कुर्वन् प्रायश्चित्तमनुत्तमम् ॥
为灭除那(罪垢/染污),我将立下十二年之誓,以公开承认自身所为来行无上忏悔。
Verse 36
अथ येयं समारब्धा तीर्थयात्रा मयाधुना । एतामेव प्रयास्यामि प्रतिलोमां सरस्वतीम् ॥
如今,我所开始的前往诸圣渡口(tīrtha)的朝圣——我将循此一路,沿萨拉斯瓦蒂河逆流而上,违逆其常流。
Verse 37
अतो जगाम रामोऽसौ प्रतिलोमां सरस्वतीम् । ततः परं शृणुष्वेमं पाण्डवेयकथाश्रयम् ॥
于是那罗摩沿萨拉斯瓦蒂河逆流而行。接着,请听这段依据“般度族传说体系”(Pāṇḍaveya)而述的记载。
The chapter centers on dharma under conflict: Balarāma weighs loyalty, kinship, and the moral cost of intervention in the Bhārata crisis, then confronts the ethics of violence against a socially protected figure (a Sūta within a Brahmin assembly). His remorse frames the Purāṇic view that even mighty heroes are bound by ritual-moral law and must undertake prāyaścitta when transgression occurs.
This Adhyaya does not primarily develop Manvantara chronology; instead it advances the text’s analytical-ethical arc by converting a Mahābhārata-adjacent political dilemma into a tīrtha-based expiation narrative. The resolve to traverse the Sarasvatī functions as a structural hinge into subsequent narrated materials (pāṇḍaveyakathāśraya).
It is outside the Devi Māhātmya (Adhyayas 81–93) and contains no direct Śākta stuti or goddess-battle theology. Its relevance is instead ritual-ethical: the doctrine of prāyaścitta and vow-based purification that later Purāṇic sections frequently presuppose.