Adhyaya 48
PatalaNetherworldsCosmography45 Shlokas

Adhyaya 48: The Emanation of Beings from Brahma: Night, Day, Twilight, and the Orders of Creation

प्राकृतवैक्रतसर्गवर्णन (Prākṛta-Vaikṛta-Sarga-Varṇana)

The Netherworlds

本章叙述众生由梵天(Brahmā)流出而生,并阐明夜、昼与晨昏交界(sandhyā)的神圣循环。经由次第说明创造的秩序:从本然的“自然创生”(prākṛta)到变化的“派生创生”(vaikṛta),展现万类依宇宙法则而起的过程。

Divine Beings

ब्रह्मा / प्रजापति (Brahmā / Prajāpati)मर्कण्डेय (Mārkaṇḍeya)कौष्ठुकि (Krausṭuki)देवाः (Devas)असुराः (Asuras)पितरः (Pitṛs)राक्षसाः (Rākṣasas)यक्षाः (Yakṣas)पिशाचाः (Piśācas)गन्धर्वाः (Gandharvas)अप्सरसः (Apsarases)

Celestial Realms

रात्रिः (Night as a cosmological principle)दिवसः (Day as a cosmological principle)सन्ध्या (Twilight as a cosmological principle)ज्योत्स्ना (Moonlight as a cosmological principle)

Key Content Points

Guṇa-based creation schema: Brahmā’s successive tanus generate asuras (tamas), devas (sattva), pitṛs (sattva-oriented), and humans (rajas), with corresponding temporal manifestations—night, day, twilight, and moonlight.Temporal-theological correlation: devas are strong by day, asuras by night, pitṛs at twilight, and humans at the juncture of moonlight—framing cosmology as a rhythmic moral-energetic order.Secondary emanations and taxonomy: from a rajas–tamas body arise rākṣasas and yakṣas; further transformations yield serpents/ahis, piśācas, gandharvas, plus detailed creation of birds, domestic and wild animals, plants, and atmospheric phenomena.Vedic-sacrificial architecture: Brahmā produces Vedic meters, stomas, and major yajñas (e.g., agniṣṭoma), integrating ritual order into the ontology of creation.Karmic recurrence and semantic ordering: beings re-enter the same tendencies (hiṃsā/ahiṃsā, mṛdu/krūra, dharma/adharma, satya/anṛta) shaped by prior karma; Brahmā assigns nāma-rūpa and functions through Vedic śabda.

Focus Keywords

Markandeya Purana Adhyaya 48Prakrita Vaikrita Sarga Markandeya PuranaBrahma creation guṇas sattva rajas tamasorigin of devas asuras pitrs humansnight day sandhya jyotsna cosmologyrakshasa yaksha gandharva creationVedic meters stoma yajna originkarma recurrence in creation Markandeya Purana

Shlokas in Adhyaya 48

Verse 1

इति श्रीमार्कण्डेयपुराणे प्राकृतवैकृतसर्गो नाम सप्तचत्वारिंशोऽध्यायः । अष्टचत्वारिंशोऽध्यायः— क्रौष्टुकिरुवाच— समासात् कथिता सृष्टिः सम्यग् भगवता मम । देवादीनां भवं ब्रह्मन् विस्तरात्तु ब्रवीहि मे ॥

如是,《圣·摩尔迦ṇḍेय往世书》(Śrī Mārkaṇḍeya Purāṇa)中名为“本原与变异之造化”的第四十七章告终。第四十八章开始。克劳什图基(Krauṣṭuki)说道:“世尊已为我正确而简要地阐明造化。婆罗门啊,请为我详说诸天及其他众类的起源。”

Verse 2

मार्कण्डेय उवाच कुशलाकुशलैर्ब्रह्मन् भाविता पूर्वकर्मभिः । ख्याता तथा ह्यनिर्मुक्ताः प्रलये ह्युपसंहृताः ॥

马尔坎ḍ耶说道:婆罗门啊,众生由先前之业所塑成——由善业与不善业所致。故其如是而为人所知;他们并未从此业力制约中解脱,而在劫末溶解之时,确实复归而被摄入本源。

Verse 3

देवाद्याः स्थावरान्ताश्च प्रजा ब्रह्मंश्चतुर्विधाः । ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तदा ॥

婆罗门啊,诸类众生——上自诸天,下至不动之类——原为四种。当梵天行创生之业时,它们便作为“意生”(由心所生)的众生而出现。

Verse 4

ततो देवासुरान् पितॄन् मानुषांश्च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥

于是,他欲造四类——诸天、阿修罗、祖灵(pitṛ)与人类——便以自身之力投入其业(创生之行)。

Verse 5

युक्तात्मनस्तमोमात्रा उद्रिक्ता भूत्त् प्रजापतेः । सिसृक्षोर्जघनात् पूर्वमसुरा जज्ञिरे ततः ॥

当生主(Prajāpati)投身创生之时,因昏暗之性(tamas)占上风,阿修罗最先出生,出自其身之后分。

Verse 6

उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् । सापविद्धा तनुस्तेन सद्यो रात्रिरजायत ॥

随后他舍弃了那以昏暗之性(tamas)为主的身躯。其身既被弃置,“夜”便立刻出现。

Verse 7

अन्यां तनुमुपादाय सिसृक्षुः प्रीतिमाप सः । सत्त्वोद्रेकास्ततो देवा मुखतस्तस्य जज्ञिरे ॥

他又取另一身,为欲创造而心生欢喜。随后以萨埵(sattva)为主,诸天从其口中诞生。

Verse 8

उत्ससर्ज च भूतेशस्तनुं तामप्यसौ विभुः । सा चापविद्धा दिवसṃ सत्त्वप्रायमजायत ॥

那位众生的大主亦舍弃了那具身体。其身既弃,“白昼”便出现,以萨埵为主。

Verse 9

सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् । पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥

随后他又取一具纯由萨埵构成的身体。当他以如同祖灵(Pitṛ)之方式自我构思时,诸祖灵(Pitṛs)便由他而生。

Verse 10

सृष्ट्वा पितॄन् उत्ससर्ज तनुं तामपि स प्रभुः । सा चोत्सृष्टाभवत् सन्ध्या दिवानक्तान्तरस्थिताः ॥

既造出诸祖灵后,那位主亦舍弃了那具身体;当其被释放时,便化为“黄昏”,安住于昼与夜之间。

Verse 11

रजोमात्रात्मिकामन्यां तनुं भेजेऽथ स प्रभुः । ततो मनुष्याः सम्भूता रजोमात्रासमुद्भवाः ॥

随后那位主又取一具由罗阇斯(rajas)构成的身体;由此人类出现,依罗阇斯之分量而生。

Verse 12

सृष्ट्वा मनुष्याञ् स विभुरुत्ससर्ज तनुं ततः । ज्योत्स्ना समभवत् सा च नक्तान्तेऽहर्मुखे च या ॥

在创造人类之后,那遍在的主便舍离了一具身躯。由此生起月光(jyotsnā),它在夜尽之时与黎明初开之际显现。

Verse 13

इत्येतास्तनवस्तस्य देवदेवस्य धीमतः । ख्याता रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च वै द्विज ॥

因此,这位睿智的天神之主的诸身被宣说为:夜与昼、曙暮交界(sandhyā),以及月光(jyotsnā),噢二次生者。

Verse 14

ज्योत्स्ना सन्ध्या तथैवाह—सत्त्वमात्रात्मकं त्रयम् । तमोमात्रात्मिका रात्रिः सा वै तस्मात् त्रियामिका ॥

月光与曙暮交界(sandhyā),以及同样的(白昼),被说成以“萨埵”(sattva,清明性)为主——共三者。夜则以“昏暗性”(tamas)为主;因此称为“三更”(triyāmā)。

Verse 15

तस्माद् देवा दिवा रात्रावसुरास्तु बलान्विताः । ज्योत्स्नागमे च मनुजाः सन्ध्यायां पितरस्तथा ॥

因此,诸天在白昼强盛,而阿修罗在夜间强盛。月光来临之时,人类(亦得强盛);在曙暮交界之时,祖灵(Pitṛs)也同样(强盛)。

Verse 16

भवन्ति बलिनोऽधृष्या विपक्षाणां न संशयः । तद्विपर्यमासाद्य प्रयान्ति च विपर्ययम् ॥

他们便对其对手变得强盛而不可攻破——对此毫无疑问。然而当相反的时机/条件到来时,他们也同样遭遇逆转。

Verse 17

ज्योत्स्नो रात्र्यहनी सन्ध्या चत्वार्येतानि वै प्रभोः । ब्रह्मणस्तु शरीराणि त्रिगुणोपश्रितानि तु ॥

月光、昼与夜、以及黄昏——此四者确为主宰之身;亦是梵天(Brahmā)之身,安住于三德(guṇa)之上。

Verse 18

चत्वार्येतान्यथोत्पाद्य तनुमन्यां प्रजापतिः । रजस्तमोमयीं रात्रौ जगृहे क्षुत्तृडन्वितः ॥

既生此四之后,生主(Prajāpati)于夜间又取另一身——由激性(rajas)与暗性(tamas)所成——具饥与渴。

Verse 19

तदन्धकारे क्षुत्क्षामानसृजद् भगवानजः । विरूपान् श्मश्रुलानत्तुमारब्धास्ते च तां तनुम् ॥

于彼黑暗中,吉祥之无生者阿阇(Aja)造出为饥所困、形体枯槁的众生——形貌残缺而多须髯;他们遂欲吞噬那一身。

Verse 20

रक्षाम इति तेभ्योऽन्ये य ऊचुस्ते तु राक्षसाः । खादाम इति ये चोचुस्ते यक्षा यक्षणात् द्विज ॥

其中说“让我们护持(它)”者,成为罗刹(Rākṣasa)。说“让我们吃(它)”者,成为夜叉(Yakṣa)——因其食噬之行而得此名,噢二次生者。

Verse 21

तान् दृष्ट्वा ह्यप्रियेनास्य केशाः शीर्यन्त वेधसः । समारोहणहीनाश्च शिरसो ब्रह्मणस्तु ते ॥

造物主维陀诃(Vedhas)见之,心生不悦,其发遂落。由是,梵天的那些头颅便成无发(秃)。

Verse 22

सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः । सर्पान् दृष्ट्वा ततः क्रोधात् क्रोधात्मानो विनिर्ममे ॥

由于它们匍匐爬行的动作,便被称为“蛇”;又因其低伏卑下,故被记作“ahayaḥ”。主见诸蛇,心生忿怒,遂创造出本性即为嗔怒的众生。

Verse 23

वर्णेन कपिलेनोग्रास्ते भूताः पिशिताशनाः । ध्यायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः ॥

那些凶猛的众生,呈黄褐之色,遂成食肉者。随后,当他观想母牛之时,乾闼婆(Gandharva)作为他的诸子而诞生。

Verse 24

जज्ञिरे पिबतो वाचं गन्धर्वास्तेन ते स्मृताः । अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः ॥

他们在他“饮入”言语之时诞生,因此被称念为乾闼婆(Gandharva)。当这八种神圣的胎藏(诸类、诸序)被创造之后,主(天尊)便[依次而行]。

Verse 25

ततः स्वदेहतोऽन्यानि वयांसि पशवोऽसृजत् । मुखतोऽजाः ससर्जाथ वक्षसश्चावयोऽसृजत् ॥

随后,他又从自身之躯创造了其他鸟类与走兽。由其口中造出山羊,由其胸前造出绵羊。

Verse 26

गावश्चैवोदराद् ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे । पद्भ्याञ्चाश्वान् स मातङ्गान् रासबान् शशकान् मृगान् ॥

而梵天(Brahmā)又从其腹部造出母牛,并从其两胁亦造出母牛。由其双足生出马、象、驴、野兔与鹿。

Verse 27

उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः । ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥

又造出了骆驼与骡子,以及许多形态各异的种类。诸般药用植物——具果与根者——皆从祂的毛发中出生。

Verse 28

एवं पश्वोषधीः सृष्ट्वा ह्ययजच्चाध्वरे विभुः । तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा ॥

如是,既造诸兽与药用草木,主便依仪轨行祭祀(yajña)。因此,在劫(kalpa)之初——即特雷塔纪(Tretā-yuga)开端之时——此祭祀之法度遂告建立。

Verse 29

गौरजः पुरुषो मेषो अश्वाश्वतरगर्दभाः । एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोध मे ॥

牛、羊、人与公绵羊、马、骡与驴——此等被宣说为家畜。如今当从我处了知那些属于野生者。

Verse 30

श्वापदं द्विखुरं हस्ती वानराः पक्षिपञ्चमाः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥

食肉猛兽、偶蹄之兽、象与猿猴;鸟类为第五类;水生众生为第六类;第七类则为爬行与蠕动之类。

Verse 31

गायत्रीञ्च ऋचञ्चैव त्रिवृत् सोमं रथन्तरम् । अग्निष्टोमञ्च यज्ञानां निर्ममे प्रथमांमुखात् ॥

从最尊胜之口,祂创造了伽雅特丽(Gāyatrī)与《梨俱》(Ṛk)诸赞歌,又造三重颂(Trivṛt)、苏摩(Soma)、罗檀多罗(Rathantara),并在诸祭中造阿耆尼什托摩(Agniṣṭoma)。

Verse 32

यजूṃषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोकथञ्च दक्षिणादसृजन्मुखात् ॥

从他南方面容中,化出《夜柔吠陀》之祭词(Yajus)、特里什图布韵律(Triṣṭubh)、十五重颂式(stoma),以及布里哈特萨曼圣歌(Bṛhat sāman),并连同祭祀酬献(dakṣiṇā)。

Verse 33

सामानि जगतीच्छन्दः स्तोमं पञ्चदशं तथा । वैरूपमतिरात्रञ्च निर्ममे पश्चिमान्मुखात् ॥

从他西方面容中,他造作萨曼圣歌(Sāman chants)、阇伽底韵律(Jagatī metre)、十五重颂式(stoma),并且还有毗卢婆式(Vairūpa,颂式/唱式)与阿提罗多罗(Atirātra,通宵苏摩祭)。

Verse 34

एकविंशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥

从他北方面容中,化出阿闼婆吠陀(Atharvan/Atharvaveda)、二十一重颂式(Ekaviṃśa stoma)、阿普托尔亚摩仪轨(Āptoryāma)、阿努什图布韵律(Anuṣṭubh),以及毗罗阇式(Vairāja,颂式/唱式)。

Verse 35

विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च । वयांसि च ससर्जादौ कल्पस्य भगवान् विभुः ॥

在劫初(kalpa)之始,吉祥而遍在的主创造了闪电、雷鸣与云团,赤红的辉光与虹霓,并且也创造了飞鸟。

Verse 36

उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः ॥

由他的肢体出生了上等与下等诸类众生。先造四部:诸天、阿修罗、祖灵(pitṛs)与众生后裔(progeny),继而又继续造化。

Verse 37

ततोऽसृजत स भूतानि स्थावराणि चराणि च । यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसांगणान् ॥

随后,他创造了不动与能动的众生——夜叉、毗舍阇、乾闼婆,以及同样成群的阿普萨拉斯。

Verse 38

नरकिन्नररक्षांसि वयः पशुमृगोरगान् । अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम् ॥

人类、紧那罗、罗刹、飞鸟、牛畜、野兽与蛇类——凡一切以不动与能动而存在者——(皆由他所造),既有不坏者亦有坏灭者。

Verse 39

तेषां ये यानि कर्माणि प्राक् सृष्टेः प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥

那些众生在(前一次)创造之前所采取的诸业行,正是那些习气他们又再度承受;因其被反复创造,周而复始。

Verse 40

हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥

对于暴力与非暴力、柔和与残酷、法(dharma)与非法(adharma)、真实与虚妄——众生依其所受这些状态的熏习而趋行;因此,那同一习性便各自成为其所喜。

Verse 41

इन्द्रियार्तेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगञ्च धातैव व्यदधात् स्वयम् ॥

在诸感官对象、诸元素以及诸身之中,那位主——即安立者(Dhātṛ)——亲自确立了差别与各自职能的特定分配。

Verse 42

नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवाऽऽदौ देवादीनाञ्चकार सः ॥

在最初之时,他(梵天)依凭吠陀之音,造作众生名与色相的详尽显现,并且制定诸仪轨与诸行的次第,自诸天等开始而次第展开。

Verse 43

ऋषीणां नामधेयानि याश्च देवेषु सृष्टयः । शर्वर्यन्ते प्रसूतानामन्येषाञ्च ददाति सः ॥

他为诸仙(ṛṣi)安立称号,又为诸天之中种种造化分别设定;同样地,他也赐予生于“舍婆梨(Śarvarī)”一系者以及其他众生以(名号/处所)。

Verse 44

यथार्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावाः युगादिषु ॥

正如诸季节的特征相继显现为多种形态——同一模式反复出现——诸般境况与状态也在诸劫期(yuga)之初周而复始地再现。

Verse 45

एवंविधाः सृष्टयस्तु ब्रह्मणोऽव्यक्तजन्मनः । शर्वर्यन्ते प्रबुद्धस्य कल्पे कल्पे भवन्ति वै ॥

此类造化确实属于梵天;其本源出自未显(avyakta)。当他苏醒之时,它们便在每一劫(kalpa)中生起——劫复一劫。

Frequently Asked Questions

The chapter addresses how ontological diversity arises without arbitrariness: beings manifest from Brahmā’s guṇa-conditioned bodies, and their moral-psychological dispositions recur according to previously cultivated karma (e.g., violence/non-violence, dharma/adharma, truth/untruth).

Rather than specifying a particular Manu’s lineage, this Adhyāya supplies the cosmological groundwork presupposed by Manvantara histories: the initial categories of beings, their guṇa-based origins, and the ritual-Vedic structures that persist across kalpas and underpin later genealogies and dharma narratives.

It does not directly contribute to the Devī Māhātmya (which occurs later in the text). Its relevance is structural: it establishes a Brahmā-centered cosmogonic and karmic framework within which later theological sections—including Śākta materials—situate moral causality, cosmic cycles, and the ordering power of sacred speech.