
ओङ्कारध्यायः / अरिष्टलक्षणाध्यायः (Oṅkārādhyāyaḥ / Ariṣṭa-lakṣaṇādhyāyaḥ)
The Sun's Course
本章阐述 ariṣṭa-lakṣaṇas(死亡的预兆),其征象可在身相、梦境以及天象与自然异兆中显现。瑜伽行者以三昧、持诵真言与出离心回应,超越恐惧,转向解脱之道。阿拉尔迦王(Alarka)洞见权势无常,遂舍弃王位,归向正法,求得 mokṣa(解脱)。
Verse 1
इति श्रीमार्कण्डेयपुराणे योगधर्मे ओङ्कारध्यायो नाम द्विचत्वारिंशोऽध्यायः । त्रिचत्वारिंशोऽध्यायः । दत्तात्रेय उवाच । अरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते । येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥
至此,《圣·摩尔迦ṇḍेय往世书》之“瑜伽法”部中,名为《观修唵(Oṃkāra)之章》的第四十二章告终。今第四十三章开始。达多特利耶(Dattātreya)说道:“大王,请听——我将宣说诸般征兆;见此征兆者,通达瑜伽之人便能知晓自身将临之死。”
Verse 2
देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् । यो न पश्येन्न जीवेत स नरः संवत्सरात् परम् ॥
若有人不能见诸天之道(银河)、不能见德鲁瓦(北极星)、不能见舒克罗(金星)、不能见月之光环/阴影,亦不能见阿伦达蒂(Arundhatī)——此人寿命不逾一年。
Verse 3
अरश्मिबिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् । दृष्ट्वैकादशमासात् तु नरो नोर्धन्तु जीवति ॥
若有人见太阳之轮无有光芒,见火焰亦失其辉耀;既见此相,彼人寿命不逾十一月。
Verse 4
वान्ते मूत्रपुरीषे च यः स्वर्णं रजतं तथा । प्रत्यक्षं कुरुते स्वप्ने जीवेत स दशमासिकम् ॥
若有人于梦中分明见金银在呕吐物、尿液或粪秽之中,此人仅得寿十月。
Verse 5
दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च । सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति ॥
既见饿鬼(preta)、毗舍遮(piśāca)等类,又见“乾闼婆之城”(幻城),并见金色之树者,其人寿命为九月。
Verse 6
स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते । प्रकृतेश्च निवर्तेत तस्यायुश्चाष्टमासिकम् ॥
若人无故忽而肥、忽而瘦,瘦而复肥,乖离其常态体质,则其寿命(仅)八月。
Verse 7
खण्डं यस्य पदं पार्ष्ण्यां पादस्याग्रे च वा भवेत् । पांशुकर्दमयोर्मध्ये सप्त मासान् स जीवति ॥
若男子之足“折损/残缺”——或在足跟,或在足前——又见其仿佛处于尘与泥之间,则其人寿命为七月。
Verse 8
गृध्रः कपोतः काकालो वायसो वापि मूर्धनि । क्रव्यादो वा खगो नीलः षण्मासायुः प्रदर्शकः ॥
若有兀鹫、鸽、乌鸦,乃至渡鸦落栖于人之头顶——或有青色食肉之鸟亦如是——则被说为其余寿仅余六个月。
Verse 9
हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा नरः । स्वां छायामन्यथा दृष्ट्वा चतुः पञ्च स जीवति ॥
人或为群鸦所击而亡,或为尘土如雨所降而殒。又若见自身之影异样显现(扭曲、非自然),则仅能再活四五日。
Verse 10
अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् । रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् ॥
若无云而见闪电,尤以其在南方者为甚;又若夜间见虹——则说其余寿仅二三个月。
Verse 11
घृते तैले तथादर्शे तोये वा नात्मनस्तनुम् । यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति ॥
若有人于酥油、油、镜或水中观己身,而见其形如无首——则其寿不逾一月。
Verse 12
यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा । तस्यार्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥
大王啊,若一人之身散发如陈旧霉布之臭,乃至如尸臭,则诸瑜伽行者言:当知其余寿唯半月。
Verse 13
यस्य वै स्त्रमात्रस्य हृत्पादमवशुष्यते । पिबतश्च जलं शोषो दशाहं सोऽपि जीवति ॥
若人仅以微小用力,心区与双足便枯槁无力,且即使饮水仍觉干燥,则其寿命仅余十日。
Verse 14
सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति । हृष्यते नाऽम्बुसंस्पर्शात् तस्य मृत्युरुपस्थितः ॥
若人之紊乱风气(vāta)“切断”诸生命要穴(marmas),且即使触水亦无喜悦,则当知死亡已逼近。
Verse 15
ऋक्षवानरयानस्थो गायन् यो दक्षिणां दिशम् । स्वप्ने प्रयाति तस्यापि न मृत्युः कालमिच्छति ॥
若人在梦中向南而行,乘熊车或猴车,并且歌唱,则其人之死亦不迟延(必按其时而至)。
Verse 16
रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् । दक्षिणाशान्नयेन्नारी स्वप्ने सोऽपि न जीवति ॥
若人在梦中见一女子身着红黑衣,歌笑相随,引人趋向南方,则其人亦将不久于世(死期迫近)。
Verse 17
नग्नं क्षपणकं स्वप्ने हसमानाṃ महाबलम् । एकं संविक्ष्य वल्गन्तं विद्याद्मृत्युमुपस्थितम् ॥
若人在梦中见一裸形苦行者 kṣapaṇaka,发笑——强盛而独行——跳跃奔动,当知死亡已至(近在咫尺)。
Verse 18
आमस्तकतालाद्यस्तु निमग्नं पङ्कसागरे । स्वप्ने पश्यत्यथात्मानं स सद्यो म्रियते नरः ॥
若有人在梦中见自己沉没于泥海之中,直至头顶之冠,彼人即刻命终。
Verse 19
केशाङ्गारांस्तथा भस्म भुजङ्गान्निर्जलां नदीम् । दृष्ट्वा स्वप्ने दशाहात्तु मृत्युरेकादशे दिने ॥
若于梦中见头发化为余烬、灰烬、群蛇,或见无水之河,则十日之后,于第十一日死亡降临。
Verse 20
करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥
若梦中见一人被丑恶可怖之黑色巨人举兵以石击打,则其人即刻遭逢死亡。
Verse 21
सूर्योदये यस्य शिवा क्रोशन्ती याति संमुखम् । विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥
日出之时,若豺(śivā)嚎叫而向一人逼近——或自相反方向而来,或绕行其周——其人即刻命终。
Verse 22
यस्य वै भुक्तमात्रस्य हृदयं बाधते क्षुधा । जायते दन्तघर्षश्च स गतायुर्न संशयम् ॥
若人方食毕,饥饿即迫其胸(心),并起磨牙或牙齿格格作响之状,则其寿命已尽——无有疑惑。
Verse 23
दीपगन्धं न यो वेत्ति त्रस्यत्यह्नि तथा निशि । नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥
若有人不能觉知灯盏之气味(油香或烟气),昼夜惊惧,又不能见自我如同寄于他人之眼中——此人不名为生。
Verse 24
शक्रायुधं चार्धरात्रे दिवा ग्रहगणं तथा । दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवित् ॥
若有人于午夜见因陀罗之武器(虹霓),或于白昼见诸行星之群列,智者当知其自身寿命正在消减。
Verse 25
नासिका वक्रतामेति कर्णयोर्नमनॊन्नती । नेत्रञ्च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥
若男子之鼻变曲,双耳下垂或高低不齐,且左眼流泪或渗出分泌物——其寿命已然离去。
Verse 26
आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा । तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः ॥
当面容转为赤红,或舌色变暗近黑之时,智者当知死亡已迫近其身。
Verse 27
उष्ट्र-रासभयानेन यः स्वप्ने दक्षिणां दिशम् । प्रयाति तञ्च जानीयात् सद्योमृत्युं न संशयः ॥
若有人于梦中骑骆驼或驴而行向南方——当知此人必定即刻趋于死亡,毫无疑问。
Verse 28
पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् । नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति ॥
若一人捂住双耳而仍听不见从自身内部生起的内在之声,且其双目之光(力)熄灭——此人便不复存活(死亡将近)。
Verse 29
पततो यस्य वै गर्ते स्वप्ने द्वारं पिधीयते । न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥
若人在梦中似乎坠入深坑,门户随即闭合,且不能从那深渊中起身——则其生命已至尽头。
Verse 30
ऊर्ध्वा च दृष्टिर्न च सम्प्रतिष्ठा रक्ताः पुनः सम्परिवर्तमाना । मुखस्य चोष्मा शुषिरञ्च नाभेः शंसन्ति पुंसामपरं शरीरम् ॥
目光上翻,安定尽失;双眼赤红而游转;面部热气退去,脐中空虚——这些向人宣告“另一个身体”(死亡与迁转)。
Verse 31
स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते पुनः । जलप्रवेशादपि वा तदन्तं तस्य जीवितम् ॥
若人在梦中入火而不复出——或同样入水——这便是其寿命终尽之相。
Verse 32
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा । स मृत्युम् सप्तरा्त्र्यन्ते नरः प्राप्रोत्यसंशयम् ॥
凡被邪恶的部多(bhūta,鬼灵)所击扰、所折磨者,不论昼夜——此人无疑将在七夜之末遭遇死亡。
Verse 33
स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथासितम् । यः पुमान् मृत्युमासन्नं तस्यापि हि विनिर्दिशेत् ॥
若一人见自己洁净的白衣呈现为红色,或又变为黑色,当宣示其死期亦已临近。
Verse 34
स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्ययः । कथयन्ति मनुष्याणां सदासन्नौ यमान्तकौ ॥
性情反转、自然本性乖违,被说为征兆:阎摩与死亡已近其身。
Verse 35
येषां विनीतः सततं येऽस्य पूज्यतमा मताः । तानेव चावजानाति तानेव च विनिन्दति ॥
凡其素来谦恭、并视为最堪受敬者;若他开始轻蔑他们,甚至加以责难,此即(死期将近之)征兆。
Verse 36
देवान्नार्चयते वृद्धान् गुरून् विप्रांश्च निन्दति । मातापित्रोर्न सत्कारं जामातॄणां करोति च ॥
他不祭敬诸天;辱骂长者、师长与婆罗门;不以正礼敬奉父母,亦不以应有之礼相待女婿——此等行径当知为严重之征(终期将至)。
Verse 37
योगिनां ज्ञानविदुषामन्येषां च महात्मनाम् । प्राप्ते तु काले पुरुषस्तद्विज्ञेयं विचक्षणैः ॥
当其时已至,此人便(生起轻慢)于瑜伽行者、具智之贤者及其他大心之士;明辨者当识此为一征(终期之兆)。
Verse 38
योगिनां सततं यत्नादरिष्टान्यवनीपते । संवत्सरान्ते तज्ज्ञेयं फलदानि दिवानिशम् ॥
大地之主啊,诸瑜伽行者以恒常精进观察凶兆(ariṣṭa)。至岁末,当知其果报显现——无论昼夜皆然。
Verse 39
विलोक्या विशदा चैषां फलपङ्क्तिः सुभीषणाः । विज्ञाय कार्यो मनसि स च कालो नरेश्वर ॥
既已明晰观察这些,当了知并铭记其结果的次第——极其可怖;并且那一时(kāla),人中之主啊,应当辨识。
Verse 40
ज्ञात्वा कालञ्च तं सम्यगभयस्थानमाश्रितः । युञ्जीत योगी कालोऽसौ यथा नास्याफलो भवेत् ॥
既已正确知晓彼时,当依止无畏之境,瑜伽行者应修习瑜伽——使此时不致于他成为徒然。
Verse 41
दृष्ट्वारिष्टं तथा योगी त्यक्त्वा मरणजं भयम् । तत्स्वभावं तदालोक्य काले यावत्युपागतम् ॥
如是,既见其兆,瑜伽行者当舍离由死而生之惧,审察其性,并观察彼时已逼近到何等程度。
Verse 42
तस्य भागे तथैवाह्नो योगं युञ्जीत योगवित् । पूर्वाह्ने चापराह्ने च मध्याह्ने चापि तद्दिने ॥
就在那一天的同一时段,通达瑜伽者应修习瑜伽——无论在上午、下午,或正午,当日皆应如是。
Verse 43
यत्र वा रजनीभागे तदरिष्टं निरीक्षितम् । तत्रैव तावद्युञ्जीत यावत् प्राप्तं हि तद्दिनम् ॥
若那征兆在夜间的某一段被见到,则应在那同一段时分修持,直至那一日确然到来。
Verse 44
ततस्त्यक्त्वा भयं सर्वं जित्वा तं कालमात्मवान् । तत्रैवावसथे स्थित्वा यत्र वा स्थैर्यमात्मनः ॥
随后,舍弃一切恐惧并战胜那段时刻,自持者应安住于彼处居所——或凡自我安定之处。
Verse 45
युञ्जीत योगं निर्जित्य त्रीन् गुणान् परमात्मनि । तन्मयश्चात्मना भूत्वा चिद्वृत्तिमपि सन्त्यजेत् ॥
他应修习瑜伽,于至上自性中降伏三种古那。令自身与彼(至上)本性同一后,应舍弃乃至心识的诸般变动。
Verse 46
ततः परमनिर्वाणमतीन्द्रियमगोचरम् । यद्बुद्धेर्यन्न चाख्यातुं शक्यते तत् समश्नुते ॥
此后他证得无上涅槃——超越诸根,超越一切境界——那超出理智、不可言说者。
Verse 47
एतत् सर्वं समाख्यातं तवालर्क ! यथार्थवत् । प्राप्स्यसे येन तद्ब्रह्म संक्षेपात्तन्निबोध मे ॥
阿拉尔迦啊,这一切我已如实为你阐明。现在请从我这里简要领会:凭借何者你将证得彼梵(Brahman)。
Verse 48
शशाङ्करश्मिसंयोगाच्छन्द्रकान्तमणिः पयः । समुत्सृजति नायुक्तः सोपमा योगिनः स्मृता ॥
当与月光相接触时,月光宝石(candrā-kānta,月石)会渗出液体;但若不在适当的相合之中,则不渗出。此被忆为瑜伽行者之譬喻。
Verse 49
यच्चार्करश्मिसंयोगादर्ककान्तो हुताशनम् । आविष्करोति नैकः सन्नुपमा सापि योगिनः ॥
又如日光宝石(arkakānta,日石)与日光相合便能生火——虽其自身并非多种火焰——此亦为瑜伽行者之譬喻。
Verse 50
पिपीलिकाखु-नकुल-गृहगोधा-कपिञ्जलाः । वसन्ति स्वामिवद् गेहे ध्वस्ते यान्ति ततोऽन्यतः ॥
蚂蚁、老鼠、獴、家壁虎与鹧鸪栖居于屋中,宛如其主;当房屋毁坏时,它们便迁往他处。
Verse 51
दुःखन्तु स्वामिनो ध्वंसे तस्य तेषां न किञ्चन । वेश्मनो यत्र राजेन्द्र सोपमा योगसिद्धये ॥
当那房屋被毁,忧伤属于其主人;对那些生灵而言却无所系。大王啊,此譬喻乃为说明瑜伽成就(悉地)的获得。
Verse 52
मृद्वाहिकाल्पदेहापि मुखाग्रेणाप्यणीयसाः । करोति मृद्भारचयमुपदेशः स योगिनः ॥
即使是搬运泥土的蚂蚁,虽其身微小、口端更细,亦能堆成沉重的土丘。此乃对瑜伽行者的教诲。
Verse 53
पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् । वृक्षं विलुप्यमानन्तु दृष्ट्वा सिध्यन्ति योगिनः ॥
见一株具足叶、花、果的树,被野兽、飞鸟、人等攫取掠夺——瑜伽行者由此取法而得成就(悉地)。
Verse 54
रुरुशावविषाणाग्रमालक्ष्य तिलकाकृतिम् । सह तेन विवर्धन्तं योगी सिद्धिमवाप्नुयात् ॥
观察幼小鲁鲁鹿之角尖,形如芝麻印记,并见其随身渐渐增长——瑜伽行者由悟渐增之理而得圆满成就。
Verse 55
द्रवपूर्णमुपादाय पात्रमारोहतो भुवः । तुङ्गमार्गं विलोक्योच्चैर्विज्ञातं किं न योगिना ॥
持一器盛满液体,见(有人)自地面沿陡径攀升——关于谨慎持衡与上升之道,瑜伽行者又有何不明?
Verse 56
सर्वस्वे जीवनायालं निखाते पुरुषस्य या । चेष्टा तां तत्त्वतो ज्ञात्वा योगिनः कृतकृत्यता ॥
当一人为了生存而埋藏其全部财物,遂作种种奔劳——瑜伽行者洞见此等努力之真实体性,便成为已达所愿之人。
Verse 57
तद्गृहं यत्र वसतिः तद्भोज्यं येन जीवति । येन सम्पद्यते चार्थस्तत्सुखं ममतात्र का ॥
此即所居之“家”;此即赖以存活之“食”;此即成办所求之“财”;此即所谓“乐”——于此诸法之中,何处有“我所”之执?
Verse 58
अभ्यार्थितोऽपि तैः कार्यं करोति करणैर्यथा । तथा बुद्ध्यादिभिर्योगी पारक्यैः साधयेत्परम् ॥
正如一人虽受他人催促,仍借助行为之器具而行事;同样,瑜伽行者亦应依凭理智(buddhi)及其余诸器官(心与诸根),将它们视若外在于己,以成就至上者。
Verse 59
जड उवाच ततः प्रणम्यात्रिपुत्रमलर्कः स महीपतिः । प्रश्रयावनतो वाक्यमुवाचातिमुदान्वितः ॥
惰者(Jaḍa)说道:于是阿拉尔迦王(Alarka)向阿特里之子俯首致敬,满怀大喜而发言,其言辞充满谦卑与敬仰。
Verse 60
अलर्क उवाच दिष्ट्या देवैरिदं ब्रह्मन् ! पराभिभवसम्भवम् । उपपादितमत्युग्रं प्राणसन्देहदं भयम् ॥
阿拉尔迦(Alarka)说道:凭借善缘——确然是诸天之力——这极其凶猛的恐惧,由我的受辱与败北而生,竟被引发;它使我连自身性命都起了疑惧。
Verse 61
दिष्ट्या काशिपतेर्भूरि-बलसम्पत्पराक्रमः । यदुच्छेदादिहासयातः स युष्मत्सङ्गदो मम ॥
凭借善缘,迦尸(Kāśi)之王具足大力、资财与勇武;由于他摧毁了我的权势与地位,我才来到此处——而这又使我得以亲近并结缘于你。
Verse 62
दिष्ट्या मन्दबलश्चाहं दिष्ट्या भृत्याश्च मे हताः । दिष्ट्या कोशः क्षयं यातो दिष्ट्याहं भीतिमागतः ॥
凭借善缘,我在权势上变得衰弱;凭借善缘,我的随从被诛;凭借善缘,我的国库败落;凭借善缘,我陷入恐惧之中。
Verse 63
दिष्ट्या त्वत्पादयुगलं मम स्मृतिपथं गतम् । दिष्ट्या त्वदुक्तयः सर्वा मम चेतसि संस्थिताः ॥
承蒙善缘,你的一双圣足进入了我记忆之道;承蒙善缘,你的一切教诲已在我心中安立不动。
Verse 64
दिष्ट्या ज्ञानं ममोत्पन्नं भवतश्च समागमात् । भवता चैव कारुण्यं दिष्ट्या ब्रह्मन् ! कृतं मम ॥
承蒙善缘,因得遇见你,智慧在我心中生起;又承蒙善缘,婆罗门啊,你对我示以慈悲。
Verse 65
अनर्थोऽप्यर्थतां याति पुरुषस्य शुभोदयॆ । यथेदमुपकाराय व्यसनं सङ्गमात्तव ॥
当吉祥的觉醒生起时,连灾厄也会成为对人有意义的利益——正如此次不幸因得遇见你而转为助益于我。
Verse 66
सुबाहुरुपकारी मे स च काशिपतिः प्रभो । ययोः कृतेऽहं संप्राप्तो योगीश ! भवतोऽन्तिकम् ॥
苏婆呼曾是我的施惠者——迦尸国那位国王亦复如是,主啊;正因那二人,瑜伽行者之主,我得以来到你面前。
Verse 67
सोऽहं तव प्रसादाग्नि-निर्दग्धाज्ञानकिल्बिषः । तथा यतिष्ये येनेदृङ् न भूयां दुःखभाजनम् ॥
因此,我——无明之罪已被你恩典之火焚尽——将如是精进,使我不再成为这般忧苦的器皿。
Verse 68
परित्यजिष्ये गार्हस्थ्यमार्तिपादपकाननम् । त्वत्तोऽनुज्ञां समासाद्य ज्ञानदातुर्महात्मनः ॥
“在得到您的许可之后,噢伟大的心灵、赐予知识者,我将舍弃居家之道——其表相不过是虚饰与苦难。”
Verse 69
दत्तात्रेय उवाच गच्छ राजेन्द्र ! भद्रं ते यथा ते कथितं मया । निर्ममो निरहङ्कारस्तथा चर विमुक्तये ॥
达多特利耶说道:“去吧,诸王之最;愿吉祥归于你。为求解脱,当如我所教而住——无占有、无我慢。”
Verse 70
जड उवाच एवमुक्तः प्रणम्यैनमाजगाम त्वारान्वितः । यत्र काशिपतिर्भ्राता सुबाहुश्चास्य सोऽग्रजः ॥
阇陀说道:“既受如是教诲,他向其顶礼,随即疾行至其兄弟所在之处——迦尸之主与长兄苏婆呼。”
Verse 71
समुत्पत्य महाबाहुं सोऽलर्कः काशिभूपतिम् । सुबाहोरग्रतो वीरमुवाच प्रहसन्निव ॥
阿拉尔迦起身,在苏婆呼面前,对那位臂力雄伟的英雄——迦尸王——开口说道,仿佛带着一丝微笑。
Verse 72
राज्यकामुक काशीश ! भुज्यतां राज्यमूर्जितम् । तथा च रोचते तद्वत् सुबाहोः संप्रयच्छ वा ॥
“噢迦尸之主,渴求王位者!请享受这强盛的国度。或者若你以此为乐,也可同样将它交与苏婆呼。”
Verse 73
काशिराज उवाच किमलर्क ! परित्यक्तं राज्यं ते संयुगं विना । क्षत्रियस्य न धर्मोऽयं भवांश्च क्षत्रधर्मवित् ॥
迦尸国王说道:“阿拉尔迦!你为何不经战斗便舍弃王国?此非刹帝利之本分——而你本是通晓刹帝利法(kṣatriya-dharma)之人。”
Verse 74
निर्जितामात्यवर्गस्तु त्यक्त्वा मरणजं भयम् । सन्दधीत शरं राजा लक्ष्यं उद्दिश्य वैरिणम् ॥
“既已制御其群臣之环,并抛却由死亡而生的恐惧,国王当搭箭上弦,以敌为的而瞄准。”
Verse 75
तं जित्वा नृपतिर्भोगान् यथाभिलषितान् वरान् । भुञ्जीत परमं सिद्ध्यै यजेत च महामखैः ॥
“既已征服彼者,国王当随其所愿享受殊胜之乐,以求至上成就;亦当举行盛大的祭祀(yajña)。”
Verse 76
अलर्क उवाच एवमीदृशकं वीर ! ममाप्यासीन् मनः पुरा । साम्प्रतं विपरीतार्थं शृणु चाप्यत्र कारणम् ॥
阿拉尔迦说道:“勇士啊!我之心昔日亦曾如此。然今请听相反之结论——并其所以然。”
Verse 77
यथायं भौतिकः सङ्घस्तथान्तः करणं नृणाम् । गुणास्तु सकलास्तद्वदशेषेष्वेव जन्तुषु ॥
“正如此身乃物质之聚合,人之内器(心识之复合体)亦复如是;同样,一切诸德性(guṇa)无一例外,皆圆满存在于一切众生之中。”
Verse 78
चिच्छक्तिरेक एवायं यदा नान्योऽस्ति कश्चन । तदा का नृपते ज्ञानान्मित्रारिप्रभुभृत्यता ॥
大王啊,当唯有这唯一的觉知之力(意识之Śakti)存在,而别无他物时;一旦智慧生起,“朋友”与“敌人”,或“主人”与“仆从”的观念,还能有什么立足之处?
Verse 79
तन्मया दुःखमासाद्य त्वद्भयोद्भवमुत्तमम् । दत्तात्रेयप्रसादेन ज्ञानं प्राप्तं नरेश्वर ॥
人中之主啊,我曾遭遇由对你之畏惧而生的至上悲苦;蒙达多特利耶(Dattātreya)之恩,我得证真实之知。
Verse 80
निर्जितेन्द्रियवर्गस्तु त्यक्त्वा सङ्गमशेषतः । मनो ब्रह्मणि सन्धाय तज्जये परमो जयः ॥
然而,既已征服诸根之军,尽舍一切执著,令心安住于梵(Brahman);战胜“彼”者,即为至上之胜利。
Verse 81
संसाध्यमन्यत्तत्सिद्ध्यै यतः किञ्चिन्न विद्यते । इन्द्रियाणि च संयम्य ततः सिद्धिं नियच्छति ॥
为得彼等圆满,别无他事可作;唯以摄伏诸根,即能获得成就(siddhi)。
Verse 82
सोऽहं न तेऽरिर्न ममासि शत्रुः सुबाहुरेषो न ममापकारी । दृष्टं मया सर्वमिदं यथात्मा अन्विष्यतां भूप ! रिपुस्त्वयान्यः ॥
我非汝之敌,汝亦非我之仇;此苏婆呼(Subāhu)于我无有过恶。我已见此一切皆为自我(Ātman)。大王当求之:敌在别处(非汝所想)。
Verse 83
इत्त्थं स तेनाभिहितो नरेन्द्रो हृष्टः समुत्थाय ततः सुबाहुः । दिष्ट्येति तं भ्रातरमाभिनन्द्य काशीश्वरं वाक्यमिदं बभाषे ॥
王听他如此说道,欢喜起身。随后,苏婆胡向那位兄弟致意,祝曰“吉祥!”,并对迦尸之主说了如下言辞。
The chapter asks how a discerning person should respond to foreknowledge of death: Dattātreya frames mortality not as panic-worthy fate but as a prompt for intensified yoga, fear-conquest, and non-dual discrimination that dissolves rivalry and attachment.
This Adhyāya does not develop Manvantara chronology; it functions as an analytic-yogic interlude within the Alarka–Dattātreya discourse, emphasizing eschatological signs and liberation-oriented practice rather than genealogies or Manu-lineages.
It does not belong to the Devi Mahatmyam corpus (Adhyāyas 81–93). Its contribution is instead yogadharma: a Purāṇic, soteriological treatment of death-portents and the disciplined use of remaining time to attain nirvāṇa.