
दत्तात्रेयाराधनम् (Dattātreyārādhanam) / लक्ष्मीस्थानविचारः (Lakṣmī-sthāna-vicāraḥ)
Alarka's Story
本章叙述阿周那因谦卑与畏惧造业而辞拒王位,不恋权势。圣贤伽尔伽指引他礼敬达多特雷亚,并思惟吉祥天女拉克希米之所住与所行。凭借达多特雷亚清净的神圣观照,以及拉克希米的流转与移动,诸天战胜代提耶,令正法与福祉重归世间。
Verse 1
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे दत्तात्रेयोत्पत्तिर्नाम सप्तदशोऽध्यायः । अष्टादशोऽध्यायः । पुत्र उवाच कस्यचित्त्वथ कालस्य कृतवीर्यात्मजोऽर्जुनः । कृतवीर्ये दिवं याते मन्त्रिभिः सपुहितैः ॥
至此,在《圣·摩尔迦ṇḍeya往世书》中,于父子对话之中,名为《达多特利耶(Dattātreya)之起源》的第十七章告终。今始第十八章。其子曰:过了一段时日,克利多毗利耶之子阿周那——当克利多毗利耶已升天之后——群臣与王家祭司前来觐见。
Verse 2
पौरैश्चात्माभिषेकार्थं समाहूतोऽब्रवीदिदम् । नाहं राज्यं करिष्यामि मन्त्रिणो नरकोत्तरम् ॥
又被国民召请为其举行加冕灌顶之礼时,他说道:“诸位大臣,我不愿承受王位——此事(若治理失当)将导向地狱。”
Verse 3
यदर्थं गृह्यते शुल्कं तदनिष्पादयन् वृथा । पण्यानां द्वादशं भागं भूपालाय वणिग्जनः ॥
若征收关税却不履行其所为之目的(即护卫与秩序),则此征收徒然无益。商人之众向国王奉纳货物的十二分之一。
Verse 4
दत्त्वार्थरक्षिभिर्मार्गे रक्षितो याति दस्युतः । गोपाश्च घृततक्रादेः षड्भागञ्च कृषीबलाः ॥
既已缴纳,行人便在守卫财物之兵的护持下行于道路,远离盗贼。牧牛者(纳其分)自酥油(ghee)、酪乳等物;耕作者(纳)六分之一。
Verse 5
दत्त्वान्यद्भूबुजे दद्युर्यदि भागं ततोऽधिकम् । पण्यादीनामशेषाणां वणिजो गृह्णतस्ततः ॥
若人在缴纳之后,仍被迫向土地享用者(国王)交出超过应纳之分,则商人便会撤去(或停止运来)一切货物等物。
Verse 6
इष्टापूर्तविनाशाय तद्राज्ञश्चौरधर्मिणः । यद्यन्यैः पालयते लोकस्तद्वृत्तयन्तरसंश्रितैः ॥
行事如盗之王,必致其 iṣṭa 与 pūrta 之功德毁灭;因为若民众由他人——以他业为生者——加以护持,则王之取用即成盗取。
Verse 7
गृह्णतो बलिषड्भागं नृपतेर्नरको ध्रुवम् । निरूपितमिदं राज्ञः पूर्वै रक्षणवेतनम् ॥
凡王取 bali 与六分之一而不尽护民之责者,堕地狱必定无疑。古圣已判定:此乃国王为护持所受之薪酬(即赋税唯作为守护之报酬方为正当)。
Verse 8
अरक्षंश्चौरतश्चौर्यं तदेनो नृपतेर्भवेत् । तस्माद्यदि तपस्तप्त्वा प्राप्तो योगित्वमीप्सितम् ॥
若国王不能保护臣民免遭盗贼侵害,则盗贼所行之盗窃,便成为国王之罪。因此,若你已修苦行而得所愿之瑜伽境界,就当依之而行:守护众生,依法(达摩)而治。
Verse 9
भुवः पालनसामर्थ्ययुक्त एको महीपतिः । पृथिव्यां शस्त्रधृङ्मान्यस्त्वहमेवर्धिसंयुतः । ततो भविष्ये नात्मानं करिष्ये पापभागिनम् ॥
(他思忖道:)“大地之上当有一位独一的君主,具足护持世界之力。我在执兵之士中受尊崇,亦具威力与昌盛。故我当成为那位统治者,不使自身分担罪业。”
Verse 10
पुत्र उवाच तस्य तन्निश्चयं ज्ञात्वा मन्त्रिमध्यस्थितोऽब्रवीत् । गर्गो नाम महाबुद्धिर्मुनिश्रेष्ठो वयोऽतिगः ॥
其子说道:既已明了他的决意,立于群臣之中的一人开口——名为伽尔伽(Garga),大智卓绝,为诸圣贤之最,年岁已高。
Verse 11
यद्येवं कर्तुकामस्त्वं राज्यं सम्यक् प्रशासितुम् । ततो शृणुष्व मे वाक्यं कुरुष्व च नृपात्मज ॥
若你确欲正当地治理王国,王子啊,就当听我之言,并依之而行。
Verse 12
दत्तात्रेयं महाभागं सह्यद्रोणीकृताश्रयम् । तम् आराधय भूपाल पाति यो भुवनत्रयम् ॥
大王啊,当礼敬供奉达塔特雷耶(Dattātreya)——至为吉祥者,安住于萨希亚(Sahya)山谷之中;因为他护持三界。
Verse 13
योगयुक्तं महाभागं सर्वत्र समदर्शिनम् । विष्णोरंशं जगद्धातुरवतीर्णं महीतले ॥
他笃修瑜伽,光辉卓著,以平等之见观照一切;作为毗湿奴——护持世界者——的流出化现,降临于大地。
Verse 14
यम् आराध्य सहस्राक्षः प्राप्तवान् पदमात्मनः । हृतं दुरात्मभिर्दैत्यैर्जघान च दितेः सुतान् ॥
礼敬了他之后,“千眼者”(因陀罗)夺回了被邪恶的代底耶所篡夺的本位,并诛杀了底蒂之子。
Verse 15
अर्जुन उवाच कथमाराधितो देवैर्दत्तात्रेयः प्रतापवान् । कथञ्चापहृतं दैत्यैरिन्द्रत्वं प्राप वासवः ॥
阿周那说:诸天是如何礼敬大威力的达多特利耶(Dattātreya)的?又当代底耶夺取了因陀罗之位后,婆娑婆(因陀罗)如何重新夺回?
Verse 16
गर्ग उवाच देवानां दानवानाञ्च युद्धमासीद् सुदारुणम् । दैत्यानामीश्वरो जम्भो देवानाञ्च शचीपतिः ॥
伽尔伽说:天神与达那婆之间爆发了一场极其可怖的战争。代底耶之主为阇婆(Jambha),而天神之主则是舍契之夫(因陀罗)。
Verse 17
तेषाञ्च युध्यमानानां दिव्यः संवत्सरो गतः । ततो देवाः पराभूता दैत्याः विजयिनोऽभवन् ॥
他们交战之际,转瞬已过一“天年”。随后诸天败北,代底耶得胜。
Verse 18
विप्रचित्तिमुखैर्देवा दानवैस्ते पराजिताः । पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥
诸天被由毗钵罗质底(Vipracitti)统领的达那婆(Dānava)击败。他们的勇气只化为逃遁;面对敌方的胜利,诸神意气消沉。
Verse 19
बृहस्पतिमुपागम्य दैत्यसैन्यवधेप्सवः । अमन्त्रयन्त सहिता बालखिल्यैस्तथर्षिभिः ॥
为求毁灭阿底耶(Daitya)之军,诸天趋近布里哈斯帕提(Bṛhaspati),并与之共同商议;巴拉奇利耶(Bālakhilya)等诸仙(Ṛṣi)亦随侍在侧。
Verse 20
बृहस्पतिरुवाच दत्तात्रेयṃ महात्मानमत्रेः पुत्रं तपोधनम् । विकृताचरणं भक्त्या सन्तोषयितुमर्हथ ॥
布里哈斯帕提说道:“你们应以虔敬之心令大心者达多特利耶(Dattātreya)欢喜——阿特里(Atri)之子,具足苦行之力;其行止超越常规。”
Verse 21
स वो दैत्यविनाशाय वरदो दास्यते वरम् । ततो हनिष्यथ सुराः सहिता दैत्यदानवान् ॥
彼为赐愿者,将赐予你们一愿,以成就对阿底耶(Daitya)的毁灭。其后,诸神合一,必将诛灭阿底耶与达那婆(Dānava)。
Verse 22
गर्ग उवाच इत्युक्तास्ते तदा जग्मुर्दत्तात्रेयाश्रमं सुराः । ददृशुश्च महात्मानं तं ते लक्ष्म्या समन्वितम् ॥
伽尔伽(Garga)说道:“诸天既受此言,便前往达多特利耶(Dattātreya)的林居道场;他们见到那位大心者,具足光辉与吉祥福运。”
Verse 23
उद्गीयमानं गन्धर्वैः सुरापानरतं मुनिम् । ते तस्य गत्वा प्रणतिमवदन् साध्यसाधनम् ॥
他们看见那位仙圣正被乾闼婆歌咏赞颂,却在饮用醇酒。众神走近,俯首礼拜,致以恭敬的问安,意在成就自身所求。
Verse 24
चक्रुः स्तवञ्चोपजहरुर्भक्ष्यभोज्यस्त्रगादिकम् । तिष्ठन्तमनुतिष्ठन्ति यान्तं यान्ति दिवौकसः ॥
他们献上赞颂的圣歌,又奉上可供享用的饮食、花鬘等物。圣者起身时,天界众生亦侍立其侧;圣者行走时,他们随行相从。
Verse 25
आराधयामासुरधः स्थितास्तिष्ठन्तमासने । स प्राह प्रणतान् देवान् दत्तात्रेयः किमिष्यते । मत्तो भवद्भिर्येनेयं शुश्रूषा क्रियते मम ॥
他们在下方侍立而礼拜,他则安坐于座。随后,达多特利耶对俯伏的诸天说道:“你们从我这里所求为何,竟为此而如此侍奉于我?”
Verse 26
देवा ऊचुः दानवैर्मुनिशार्दूल ! जम्भाद्यैर्भूर्भुवादिकम् । हृतं त्रैलोक्यमाक्रम्य क्रतुभागाश्च कृत्स्नशः ॥
诸天说道:“噢,诸仙之虎!那达那婆——阇婆等——横行三界,夺取了布尔界、布瓦尔界及其余诸界;并且夺走了一切祭祀中本应归于我们的份额。”
Verse 27
तद्वधे कुरु बुद्धिं त्वं परित्राणाय नोऽनघ । त्वत्प्रसादादभीप्सामः पुनः प्राप्तं त्रिविष्टपम् ॥
“因此,噢,无垢者,请为护佑我等而专心致力于歼灭他们。凭借您的恩德,我们愿再度夺回特里维什塔帕(天界)。”
Verse 28
दत्तात्रेय उवाच मद्याऽसक्तोऽहमुच्छिष्टो न चैवाऽहं जितेन्द्रियः । कथमिक्छथ मत्तोऽपि देवाḥ शत्रुपराभवम् ॥
达多特利耶说道:“我贪著于酒;我是不净者(食余者);且尚未制伏诸根。诸天怎能竟欲从我这里求得你们敌人的败亡?”
Verse 29
देवा ऊचुः अनघस्त्वं जगन्नाथ न लेपस्तव विद्यते । विद्याक्षालनशुद्धान्तर्निविष्टज्ञानदीधिते ॥
诸天说道:“无罪的世间之主啊,任何污点都不沾染于你。你的内在由知识的净化之力而澄明,智慧的光辉常住于你之中。”
Verse 30
दत्तात्रेय उवाच सत्यमेतत् सुरा विद्या ममाऽस्ति समदर्शिनः । अस्याऽस्तु योषितः सङ्गादहमुच्छिष्टतां गतः ॥
达多特利耶说道:“诚然,诸天啊:知识在我,我亦平等观一切。然而,由于与此女子相交,我竟至于名为‘ucchiṣṭa’(因食余而染污)的境地。”
Verse 31
स्त्रीसम्भोगो हि दोषाय सातत्येनोपसेवितः । एवमुक्तास्ततो देवाḥ पुनर्वचनमब्रुवन् ॥
沉溺于与女子的欲乐,若不断追逐,确实会导致过失。如此说罢,诸天又复开口。
Verse 32
देवा ऊचुः अनघेयं द्विजश्रेष्ठ जगन्माता न दूष्यते । यथांशुमाला सूर्यस्य द्विज-चाण्डालसङ्गिनी ॥
诸天说道:“无罪的最胜二生者啊,世间之母(天女/女神,Devī)不为污秽所染——正如日光之鬘不为污秽所染,虽同样与婆罗门及旃陀罗相接触。”
Verse 33
गर्ग उवाच एवमुक्तस्ततो देवैर्दत्तात्रेयोऽब्रवीदिदम् । प्रहस्य त्रिदशान् सर्वान् यद्येतद्भवतां मतम् ॥
伽尔伽说道:诸天如此启请之后,达多特利耶便含笑望向那三十位天神,说道:“若这确是你们的本意……”
Verse 34
तदाऽहूयाऽसुरान् सर्वान् युद्धाय सुरसत्तमाः । इहाऽनयत मद्दृष्टिगोचरं मा विलम्बतः ॥
“那么,诸天之最啊,召集一切阿修罗来作战。把他们带到此处,置于我目光所及之内——不可迟延。”
Verse 35
मद्दृष्टिपातहुतभुक्-प्रक्षीणबलतेजसः । येन नाशमशेषास्ते प्रयान्ति मम दर्शनात् ॥
“一旦被我目光所击,他们将如同被祭火焚尽;其力与光辉尽皆衰竭。仅凭我这一瞥,他们全都将走向毁灭。”
Verse 36
गर्ग उवाच तस्य तद्वचनं श्रुत्वा देवैर्दैत्याः महाबलाः । आहवाय समाहूता जग्मुर्देवगणान् रुषा ॥
伽尔伽说道:听闻此言,那些强大的底提耶——被诸天召来应战者——怒气冲冲地出阵,迎向天众之军。
Verse 37
ते हन्यमाना दैतेयैर्देवाḥ शीघ्रं भयातुराः । दत्तात्रेयाश्रमं जग्मुः समेताः शरणार्थिनः ॥
被底提耶击溃后,诸天——迅速地、因恐惧而忧惶——一同前往达多特利耶的隐修林,求取庇护。
Verse 38
तमेव विविशुर्दैत्याḥ कालयन्तो दिवौकसः । ददृशुश्च महात्मानं दत्तात्रेयं महाबलम् ॥
阿修罗族的代提耶众进入那处所在,侵扰天界居民;他们看见了伟大而有力的达塔特雷耶。
Verse 39
वामपार्श्वस्थितामिष्टामशेषजगतां शुभाम् । भाऱ्याञ्चास्य सुचार्वङ्गीं लक्ष्मीमिन्दुनिभाननाम् ॥
在他左侧,他们看见他心爱的妻子——为诸世界带来吉祥——肢体娴雅如吉祥天女(拉克什米),面容明净如月。
Verse 40
नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् । गदन्तीं मधुरां भाषां सर्वैर्योषिद्गुणैर्युताम् ॥
她双目如青莲,腰胯与胸乳丰盈,说话柔美甘甜,并具足一切女性的德行。
Verse 41
ते तां दृष्ट्वाग्रतो दैत्याḥ साभिलाषा मनोभवम् । न शेषुरुद्धतं धैर्यान्मनसा वोढुमातुराः ॥
见她在前,代提耶众满怀渴慕,为欲念所击;他们无法自持,难以承受心中汹涌的情欲波涛。
Verse 42
त्यक्त्वा देवान् स्त्रियं तां तु हर्तुकामा हतौजसः । तेन पापेन मुह्यन्तः संशक्तास्ते ततोऽब्रुवन् ॥
他们抛却与诸天的争战,气势已衰者竟欲夺取那女子;为此罪业所迷惑,他们聚集一处,继而开口说道。
Verse 43
स्त्रोरत्नमेतत् त्रैलोक्ये सारं नो यदि वै भवेत् । कृतकृत्यास्ततः सर्व इति नो भावितं मनः ॥
“她是三界女子中的至宝;若她成为我们的本质(为我所有),则我们众皆得圆满。”——他们心中如此断定。
Verse 44
तस्मात् सर्वे समुत्क्षिप्य शivikāyāṃ सुरार्दनाः । आरोप्य स्वमधिष्ठानं नयाम इति निश्चिताः ॥
因此,那些折磨诸天者都决意道:“把她抬起,安置在肩舆上,带到我们的住处去。”
Verse 45
गर्ग उवाच सानुरागास्ततस्ते तु प्रोक्ताश्चेत्थं परस्परम् । तस्य तां योषितं साध्वीं समुत्क्षिप्य स्मरार्दिताः ॥
伽尔伽说道:就这样,他们怀着情欲彼此言说;继而为欲望所煎迫,便抬起了他那贤德的妻子。
Verse 46
शivikāyāṃ समारोप्य सहिताः दैत्यदानवाः । शिरः सु शivikāṃ कृत्वा स्वस्थानाभिमुखं ययुः ॥
将她安置于肩舆之上后,诸代提耶与达那婆一同把它顶在头上,向自己的住处行去。
Verse 47
दत्तात्रेयस्ततो देवान् विहस्येदमथाब्रवीत् । दिष्ट्या वर्धथ दैत्यानामेषा लक्ष्मीः शिरोगता । सप्त स्थानान्यतिक्रान्ता नवमं यमुपैष्यति ॥
于是达多特利耶笑着对诸天说道:“代提耶的福运确实增长了——这位‘拉克什弥’已临在他们头上!越过七处驿站之后,她将去往第九处。”
Verse 48
देवा ऊचुः कथयस्व जगन्नाथ ! केषु स्थानेष्वस्थिताः । पुरुषस्य फलं किं वा प्रयच्छत्यथ नश्यति ॥
诸天神说道:“请告知我们,噢世间之主——她住于哪些处所(安住之站)?她赐予世人何等果报?随后她又如何消逝、离去?”
Verse 49
दत्तात्रेय उवाच नृणां पदे स्थिता लक्ष्मीर् निलयं सम्प्रयच्छति । सक्थ्न्योश्च संस्थिता वस्त्रं तथा नानाविधं वसु ॥
达多特利耶说道:“当吉祥天女拉克什米安住于人的足下时,她赐予居所;当她位于大腿之处时,她赐予衣服与种种财富。”
Verse 50
कलत्रञ्च गुह्यसंस्था क्रोडस्था पत्यदायिनी । मनोरथान् पूरयति पुरुषाणां हृदि स्थिता ॥
“当她安住于隐秘之处时,赐予妻室;安住于腰胯/膝间时,赐予夫君;而当她住于心中时,便成就世人的诸愿。”
Verse 51
लक्ष्मीर् लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् । अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः ॥
“吉祥天女拉克什米——诸福之中最胜者——当她住于喉间时,赐予颈饰;并且她也赐予与至亲与配偶的相聚与拥抱,即便是因远行或流放而久别之人亦然。”
Verse 52
सृष्टानुवाक्यलावण्यमाज्ञामवितथां तथा । मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा ॥
“生于大海的吉祥天女拉克什米,当她安住于口中时,赐予言辞之美、无不应验的号令(有效的权威),并赐予诗才。”
Verse 53
शिरोगता सन्त्यजति ततो 'न्यं याति चाश्रयम् । सेयं शिरोगता चैतान् परित्यक्ष्यति साम्प्रतम् ॥
当吉祥天女拉克什米到达头顶时,她便舍离此人,转而投向别的依止。如今,这位已至头顶的拉克什米,将在此刻舍弃这些仇敌。
Verse 54
प्रगृह्यास्त्राणि बद्ध्यन्तां तस्मादेते सुरारयः । न भेतव्यं भृशञ्चैते मया निस्तेजसः कृताः । परदारावमर्षाच्च दग्धपुण्याः हतौजसः ॥
“因此,拿起你们的兵器,捆缚这些天神之敌。不要过分畏惧他们;我已使他们失去光辉威德。由于他们对他人妻室的暴行,其功德已被焚尽,勇力亦已毁灭。”
Verse 55
ततस्ते विविधैरस्त्रैर्वध्यमानाः सुरारयः । मूध्नि लक्ष्म्या समाक्रान्ता विनेशुरिति नः श्रुतम् ॥
于是,那些天神之敌被种种兵器击倒而灭亡——正如我们所闻,他们乃被拉克什米压在头顶而碾碎。
Verse 56
लक्ष्मीश्चीत्पत्य सम्प्राप्ता दत्तात्रेयं महामुनिम् । स्तूयमाना सुरैः सर्वैर्दैत्यनाशान्मुदान्वितैः ॥
而吉祥天女拉克什米与其主同来,趋近大圣达塔特雷亚;诸天因阿修罗族(代提耶)被灭而欢喜,齐声赞颂(他/她)。
Verse 57
प्रणिपत्य ततो देवा दत्तात्रेयं मनीषिणम् । नाकपृष्ठमनुप्राप्ता यथापूर्वं गतज्वराः ॥
随后,诸天向睿智的达塔特雷亚俯首致敬,复又如前回到天界之境——从忧患中解脱。
Verse 58
तथा त्वमपि राजेन्द्र ! यदीच्छसि यथेप्सितम् । प्राप्तुमैश्वर्यमतुलं तूर्णमाराधयस्व ताम् ॥
因此,至善之王啊——若你欲得所愿,为迅速获得无与伦比的主权,应当立刻礼敬并供奉她(女神)。
The chapter examines rājadharma as a moral economy: taxation is justified only as remuneration for protection, and a ruler who collects shares without safeguarding subjects becomes ethically equivalent to a thief and incurs naraka. Arjuna’s refusal dramatizes the tension between political power and yogic purity.
This Adhyaya is not structured as a Manvantara-transition unit; it functions instead as a didactic exemplum within the pitṛ–putra narrative, using a deva–daitya war episode to validate Dattātreya’s authority and to ground ethical teachings on kingship.
It is outside the Devi Mahatmyam (Adhyayas 81–93). Shakti-relevance appears indirectly through Lakṣmī: her mobility and locus-based bestowal/withdrawal of prosperity is theorized as a causal mechanism in history, and her association with ‘paradāra-amarṣa’ becomes the daityas’ moral fault leading to their collapse.