
Prāyaścitta for Mahāpātakas: Liquor, Theft, Sexual Transgression, Contact with the Fallen, and Homicide
在结束前文关于忏悔戒行的讨论后,毗耶娑继续详述针对重罪(mahāpātaka)的诸种赎罪法(prāyaścitta)及其分级替代方案。本章先论饮酒之罪,以严厉而具象征性的“热”法为对治;继而谈盗金,强调须在国王前坦白,并提出司法原则:王法之惩罚能除盗者之罪,若君主不加惩治,则罪责转归统治者。随后列举性越轨之赎罪(含犯师妻与禁亲关系),将极端自罚与制度化誓戒相结合,如Kṛcchra、Atikṛcchra、Taptakṛcchra、Sāṃtapana及反复行持Cāndrāyaṇa。又论与堕落者(patita)相交所致不净,依接触程度规定相应誓戒。后段按种姓(varṇa)与性别分级说明杀人之赎罪,并扩展至动物、鸟类、树木与草木,将布施、诵持、斋戒与调息(prāṇāyāma)联系于对仪轨与生态之损害的修复。本章以“罪—赎”(doṣa–prāyaścitta)的相称原则为纲,融汇真言(mantra)、圣地(tīrtha)与苦行/瑜伽之自制,作为统一的纠正之道。
Verse 1
इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकत्रिशो ऽध्यायः व्यास उवाच सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् / तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः
如是,在《圣龟往世书》之《六千颂集》后分——第三十一章终。毗耶娑言:“然饮酒者,当自饮加热之酒,色如烈火;其身为之所灼,则诸二生中最胜者得脱此罪。”
Verse 2
गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा / पयो घृतं जलं वाथ मुच्यते पातकात् ततः
或服牛尿,赤如火色;或服牛粪所榨之精汁;或复服乳、酥油(ghee)或清水——由此之后,便得解脱其罪。
Verse 3
जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् / ब्रह्महत्याव्रतं चाथ चरेत् तत्पापशान्तये
身着以水润湿之衣,持戒自制,观想那罗延那、哈利;继而为息灭其罪,当行除“婆罗门杀”(brahmahatyā)之忏悔誓戒(vrata)。
Verse 4
सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु / स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति
偷盗黄金的婆罗门应前往国王面前,坦白自己的行为,说:“愿陛下惩戒并教诫我。”
Verse 5
गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् / वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसैव वा
国王应执杵棒击他一下,然后亲自裁断。盗贼因被处死而得净化;而婆罗门唯以苦行(tapas)方得清净。
Verse 6
स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् / शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा
肩扛杵棒,或持棍杖——即便是以伽提罗木制成——或持两刃皆利的长矛,或仅持一根铁杖。
Verse 7
राजा तेन च गन्तव्यो मुक्तकेशेन धावता / आचक्षाणेन तत्पापमेवङ्कर्मास्मि शाधि माम्
他应携此物,披发奔走,前往国王处,公开陈述其罪:“我确曾如此行事——愿王教诫我,并为我制定应行的赎罪法。”
Verse 8
शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते / अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम्
无论因受惩罚,或因依法得释,盗贼皆能脱离盗罪;但若国王不加惩治,国王确实会承担盗贼之罪咎。
Verse 9
तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् / चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम्
欲以苦行焚尽盗金之垢的两生者,应披树皮衣,居于林野,奉行为杀婆罗门者所规定之誓戒。
Verse 10
स्नात्वाश्वमेधावभृथे पूतः स्यादथवा द्विजः / प्रदद्याद् वाथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम्
两生者若在马祭(Aśvamedha)终浴 avabhṛtha 中沐浴,便得清净;或则当施与婆罗门圣贤等同自身价值之黄金,以作自等量的赎罪之施。
Verse 11
चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः / ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये
又或者,专志梵行(brahmacarya)的婆罗门盗金者,为除彼罪,当修行 Kṛcchra 苦行满一整年。
Verse 12
गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः / अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम्
婆罗门若为欲染所迷,犯师妻者,当抱拥以黑铁铸成、灼热发光之女像,以为赎罪之刑。
Verse 13
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ / आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः
或复,自割其阳具与双睾,置于地上,面向南方挺立不屈,直至倒下。
Verse 14
गुर्वर्थं वा हतः शुद्ध्येच्चरेद् वा ब्रह्महा व्रतम् / शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् / अधः शयीत नियतो मुच्यते गुरुतल्पगः
若有人为师长之故而杀人,当行“杀婆罗门者之誓戒”以得清净。或复抱持带刺之枝,严持自制,于其下卧满一年;如是,犯师床之罪者得以解脱其罪。
Verse 15
कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः / अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः
婆罗门当披树皮衣,摄心守戒,行“克里恰罗”(Kṛcchra)苦行满一年。或于马祭(Aśvamedha)终末之沐浴礼(avabhṛtha)中沐浴,亦能使人得清净。
Verse 16
काले ऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती / स्थानासनाभ्यां विहरंस्त्रिरह्नो ऽभ्युपयन्नपः
当终身持戒,守梵行(brahmacarya),唯于所定第八时方受食;行住之间仅以立与坐为姿,且每日三次行啜水净口之仪(ācaman)。
Verse 17
अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् / चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः
若以苦行为誓,三年卧于裸地,则能除去彼罪。或当再行月行苦行(Cāndrāyaṇa),或五次,或四次。
Verse 18
पतितैः संप्रयुक्तानामथ वक्ष्यामि निष्कृतिम् / पतितेन तु संसर्गं यो येन कुरुते द्विजः / स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत्
今当宣说与堕落者(patita)相接触之人的赎罪法。凡二次生者(dvija)以何种方式与堕落者相交,为除由此相交所生之罪,当修行与其相应之忏悔誓戒。
Verse 19
तप्तकृच्छ्रं चरेद् वाथ संवत्सरमतन्द्रितः / षाण्मासिके तु संसर्गे प्रायश्चित्तार्धमर्हति
否则,应当不懈怠地修行「炽苦行(taptakṛcchra)」满一年;但若不正当的淫欲交合是在相隔六个月之后发生,则只需承担其一半的赎罪之行。
Verse 20
एभिर्व्रतैरपोहन्ति महापातकिनो मलम् / पुण्यतीर्थाभिगमनात् पृथिव्यां वाथ निष्कृतिः
凭借这些誓行(vrata),即使犯下大罪者也能除去垢染。同样地,前往大地上的圣地渡口(tīrtha)朝礼,也会生起赎罪之力,使罪垢得以解脱。
Verse 21
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः / कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः
一位婆罗门若因欲念与任性而行:杀害婆罗门、饮酒醉乱、偷盗,或侵犯师尊(guru)之妻;乃至明知其罪而仍与此等罪人相交者,皆招致重罪。
Verse 22
कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः / ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम्
婆罗门若在圣地渡口(tīrtha)摄心安住,应当立誓绝食(anaśana);或复观想主宰迦婆尔丁(Kapardin,发髻缠结之湿婆),而入于炽燃之火。
Verse 23
न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः / तस्मात् पुण्येषु तीर्थेषु दहेद् वापि स्वदेहकम्
宣说正法的诸牟尼未见除此之外的别种赎罪;因此,在清净有功德的圣地渡口(tīrtha),甚至应当焚献自身之躯。
Verse 24
गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि / प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः
若婆罗门与自己的女儿、姐妹或儿媳发生非法性行为,那么在完全清醒并下定决心后,他应投入熊熊烈火之中;这就是规定的律法。
Verse 25
मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् / भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ
若男子与姨母、舅母、姑母或外甥女发生性关系,他应执行被称为Kṛcchra(克里查)和Atikṛcchra(阿蒂克里查)的严厉苦行赎罪。
Verse 26
चान्द्रायणं च कुर्वोत तस्य पापस्य शान्तये / ध्यायन् देवं जगद्योनिमनादिनिधनं परम्
为了平息那罪业,人们还应修持Cāndrāyaṇa(月行)赎罪誓愿,同时冥想至尊主——宇宙的子宫——无始无终的最高实相。
Verse 27
भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये / चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः
若人侵犯了兄弟之妻,为平息此罪,他应全神贯注地执行四次——甚至五次——Cāndrāyaṇa(月行)誓愿。
Verse 28
पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रेयां मातुरेव च / मातुलस्य सुतां वापि गत्वा चान्द्रायणं चरेत्
若男子与姑母之女、自己姐妹之女、姨母之女,甚至舅父之女发生性关系,他应执行Cāndrāyaṇa(月行)赎罪。
Verse 29
सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च / अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत्
若有人与友人之妻行淫,亦复与其嫂/弟媳同犯,则当以一昼一夜住于忏悔之行,依法修行“热苦行”塔普塔克里恰(Taptakṛcchra)以作赎罪。
Verse 30
उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति / चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः / सह सांतपनेनास्य नान्यथा निष्कृतिः स्मृता
若婆罗门与经期之女交合,则依规定行持三夜而得清净。若与旃陀罗女交合,则诸权威说当修三重“热苦行”Taptakṛcchra;并须兼行Sāṃtapana仪轨——忆念所传,除此别无他赎。
Verse 31
मातृगोत्रां समासाद्य समानप्रवरां तथा / चाद्रायणेन शुध्येत प्रयतात्मा समाहितः
若人与属其母系氏族(gotra)之女,或与同一pravara之女相合,则当自制其身、摄心安住,以修行Āndrāyaṇa赎罪法而得清净。
Verse 32
ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् / कन्यकां दूषयित्वा तु चरेच्चान्द्रायणव्रतम्
婆罗门若与婆罗门女(Brāhmaṇī)交合,当行一次Gṛcchra苦行以赎。若玷污未婚处女,则当修持Cāndrāyaṇa月行誓戒以作忏悔。
Verse 33
अमानुषीषु पुरुष उदक्यायामयोनिषु / रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत्
若人将精液泄于非人之雌类、经期之女、非正当受处(ayoni),乃至于水中,则当修Kṛcchra与Sāntapana二种苦行,以为赎罪。
Verse 34
बन्धकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति / गवि भथुनमासेव्य चरेच्चान्द्रायणव्रतम्
婆罗门若与品行不端的女子苟合,须经三夜以此以此净化。若与母牛交媾,则须行旃陀罗耶那(Cāndrāyaṇa)苦行以赎罪。
Verse 35
अजावी मैथुनं कृत्वा प्राजापत्यं चरेद् द्विजः / पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति
再生族若与母山羊交媾,应行普拉贾帕蒂(Prājāpatya)苦行。若与堕落女子苟合,须行三次克利查拉(Kṛcchra)苦行方能净化。
Verse 36
पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् / नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् / गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम्
若与普尔卡西(Pulkasī)女子苟合,应行克利查拉与旃陀罗耶那苦行。同样,若与舞女、女伶、洗衣女、吹笛女或皮匠女苟合,亦须行旃陀罗耶那赎罪。
Verse 37
ब्रहामचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः / सप्तगारं चरेद् भैक्षं वसित्वा गर्दभाजिनम्
梵行期学生(Brahmacārin)若受欲望迷惑而亲近女子,应披驴皮,向七户人家乞食维生,以此赎罪。
Verse 38
उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्तयन् / संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते
若于每日晨午晚三时行阿恰玛纳(ācamana)净仪,并公开忏悔诵念己过,一年之内即可从该罪业中解脱。
Verse 39
ब्रह्महत्याव्रतं वापि षण्मासानाचरेद् यमी / मुच्यते ह्यवकीर्णो तु ब्राह्मणानुमते स्थितः
或者,具自制者当修行为赎“杀婆罗门”之罪所规定的忏悔誓戒六个月,便得解脱;诚然,即使染上重过(avakīrṇa)者,若依诸婆罗门之许可而住,也能获释。
Verse 40
सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् / रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत्
但若七夜之中未能行持乞食而住、礼敬圣火之戒行,则——若又有精液外泄——应依仪轨如法修行所规定的忏悔赎罪法(prāyaścitta)。
Verse 41
ओङ्कारपूर्विकाभिस्तु महाव्याहृतिभिः सदा / संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः
但应恒常诵持以“唵”(Oṃ)为首的诸大吠诃利底(Mahā‑Vyāhṛti);如此度过整整一年,行持清净者,当仅于夜间食一次,以乞食之食为生。
Verse 42
सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः / नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते
并且当每日诵念娑毗特丽(Sāvitrī,即伽耶特丽 Gāyatrī),远离嗔怒;若在河岸的圣渡处如是行持,便能从那罪中解脱。
Verse 43
हत्वा तु क्षत्रियं विप्रः कुर्याद् ब्रह्महणो व्रतम् / अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम्
若婆罗门杀害刹帝利,当行“杀婆罗门者”所规定之誓戒;若非出于故意,则应守持六个月,并施舍五百头牛。
Verse 44
अब्दं चरेत नियतो वनवासी समाहितः / प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम्
严守纪律,自我克制,心神专注地居住在森林中,修行者应持戒一年;或者亲自修习Prājāpatya苦行、Sāntapana苦行或Taptakṛcchra苦行。
Verse 45
प्रमाप्याकामतो वैश्यं कुर्यात् संवत्सरद्वयम् / गोसहस्रं सपादं च दद्याद् ब्रह्महणो व्रतम् / कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा
若无意中致吠舍(Vaiśya)死亡,应修忏悔两年。亦应布施一千头母牛及其牛犊,此乃依照杀害婆罗门者的赎罪规定;或者修习Kṛcchra和Ati-kṛcchra苦行,甚至奉行Cāndrāyaṇa戒律。
Verse 46
संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः / गोसहस्रार्धपादं च दद्यात् तत्पापशान्तये
若因疏忽杀害首陀罗(Śūdra),应修赎罪戒一年;为平息此罪业,亦应布施五百头牛(一千头之半)。
Verse 47
अष्टौ वर्षाणि षट् त्रीणि कुर्याद् ब्रह्महणो व्रतम् / हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम्
杀害婆罗门者,应修赎罪戒八年;杀害刹帝利、吠舍及首陀罗者,应依序分别修行六年、三年及一年。
Verse 48
निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् / राजन्यां वर्षषट्कं तु वैश्यां संवत्सरत्रयम् / वत्सरेण विशुद्ध्येत शूद्रां हत्वा द्विजोत्तमः
若杀害婆罗门妇女,婆罗门应修赎罪戒八年。杀害刹帝利妇女,应修六年;杀害吠舍妇女,应修三年。但若杀害首陀罗妇女,再生族中的佼佼者于一年内即可清净。
Verse 49
वैश्यां हत्वा प्रमादेन किञ्चिद् दद्याद् द्विजातये / अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् / पराकेणाथवा शुद्धिरित्याह भगवानजः
若因疏忽杀害吠舍种姓女子,应向再生族(dvija)布施。但若杀害末生族(antyaja)之人,应修持月行苦行(Cāndrāyaṇa);或通过帕拉卡(Parāka)禁食以获清净——无生之主(Bhagavan Aja)如是宣说。
Verse 50
मण्डूकं नकुलं काकं दन्दशूकं च मूषिकम् / श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः
若杀害青蛙、猫鼬、乌鸦、蛇或老鼠,或杀害狗之后,再生族(dvija)男子应修持相当于(规定完全苦行)十六分之一的赎罪苦行。
Verse 51
पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा सुयन्त्रितः / मार्जारं वाथ नकुलं योजनं वाध्वनो व्रजेत् / कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः
若杀害狗,善于自制者应仅饮乳度过三夜。若杀害猫或猫鼬,应徒步由旬(yojana)之遥。但若杀害马,再生族(dvija)男子应修持克里查(kṛcchra)苦行十二夜。
Verse 52
अभ्रीं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः / पलालभारं षण्डं च सैसकं चैकमाषकम्
若杀害蛇,优秀的婆罗门(brāhmaṇa)应布施一把铁锄、一担稻草、一头公牛以及一马沙(māṣaka)重的铅。
Verse 53
धृतकुम्भं वराहं च तिलद्रोणं च तित्तिरिम् / शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम्
若杀害提塔昆巴鸟(dhṛtakumbha)、野猪、提拉德罗纳鸟(tiladroṇa)、鹧鸪、鹦鹉、两岁的小牛以及三岁的克劳查鹤(krauñca)——(应承担此语境下规定的相应赎罪戒律)。
Verse 54
हत्वा हंसं बलाकां च बकं बर्हिणमेव च / वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम्
若杀害天鹅、鹤、鹭、孔雀、猴,又杀鹰与名为“婆娑”(bhāsa)之猛禽者,当以施舍一头母牛与婆罗门而作赎罪。
Verse 55
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् / अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम्
若杀食肉之野兽,当施舍一头乳汁丰盈的奶牛;若杀不食肉之兽,当施舍一头小母牛;若杀骆驼,则当以一“黑豆量”(kṛṣṇala,微小金量/金币)为赎罪。
Verse 56
किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे / अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति
若杀有骨之众生,当以某种赎罪之施供养婆罗门;若伤无骨之类,则以修持调息之法——般罗那耶摩(prāṇāyāma)而得清净。
Verse 57
फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् / गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम्
若砍伐结果之树,当以诵念一百首《梨俱》(Ṛk)颂而赎罪;同样,砍伐开花之灌木、藤蔓、攀缘与诸花草者,亦当如是诵念以作忏悔。
Verse 58
अन्येषां चैव वृक्षाणां सरसानां च सर्वशः / फलपुष्पोद्भवानां च घृतप्राशो विशोधनम्
至于其他诸树,以及一切多汁之草木——尤以结成果实与花朵者为甚——所说的净化之法,是服食酥油(ghee)。
Verse 59
हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् / चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः / मतिपूर्वं वधे चास्याः प्रायश्चित्तं न विद्यते
若杀害大象,所规定的净罪苦行是“炽苦行”(Taptakṛcchra)。若因疏忽而杀牛,当行“月行戒”(Cāndrāyaṇa)或“帕拉卡誓”(Parāka)。但若蓄意杀牛,此处不宣说任何赎罪之法。
It states that lawful punishment (or official release) can remove the thief’s sin, and if the king neglects to punish, the king incurs the thief’s guilt—linking political dharma (rāja-dharma) to moral-ritual order.
Kṛcchra, Atikṛcchra, Taptakṛcchra, Sāṃtapana, Cāndrāyaṇa, and Parāka appear as recurring frameworks, often combined with brahmacarya, forest-dwelling, mantra-japa (Oṃ/Vyāhṛtis/Sāvitrī), and tīrtha observance.
Alongside meditation on Nārāyaṇa (Hari), it also prescribes contemplation of Kapardin (Śiva) and tīrtha-based rites, showing a sect-inclusive devotional field within a unified dharma-and-purification program.