
व्यासशिष्योत्पत्तिवर्णन (Origins/Enumeration of Vyāsa’s Disciplic Succession) — Chapter on Vedic Transmission Lineages
本章由苏多(Sūta)叙述,内容如同一份高度浓缩的目录,记录吠陀传承(paramparā)与诸诵本/本集(saṃhitā)之形成。经文着重列举博学婆罗门如何编纂或传授多部saṃhitā,点出其弟子,并描绘师→徒分支扩展的脉络。其信息核心是一种“学统谱系”:尤其说明夜柔吠陀(Yajurveda)材料如何被系统化为众多saṃhitā形态,并出现如Udīcya、Madhyadeśya、Prācya等地域性群体。章中提及对Yajus传统的分类,并在“分离/例外”的语境下提到耶若那伐迦(Yājñavalkya),暗示传承中曾有断裂或重组。诸仙(ṛṣi)询问“Caraka Adhvaryu”后,文本给出起源解释:为何某些祭官成为caraka(行脚游行者),在何种情势下如此,并将其与地理(如梅鲁地区)及祭仪学者身份相连。总体而言,本章是一幅知识地图:谁持守哪部saṃhitā,变体有多少,以及各吠陀学派在社会与地域中的定位。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे व्यासशिष्योत्पत्तिवर्णनं नाम चतुस्त्रिंशत्तमो ऽध्यायः सूत उवाच देवमित्रश्च शाकल्यो महात्मा द्विजपुङ्गवः / चकार संहिताः पञ्च बुद्धिमान्वेदवित्तमः
如是,在《圣梵卵大摩诃往世书》中,风神所宣说的前分第二“随续品”里,有第三十四章,名为“毗耶娑弟子出现之叙述”。苏多曰:德瓦密特罗与沙迦利耶,乃大德之二生圣者,聪慧而精通吠陀,编成五部《集成》。
Verse 2
पञ्च तस्याभवञ्छिष्या मुद्गलो गोखलस्तथा / खलीयान्सुतपा वत्सः शैशिरेयश्च पञ्चमः
他有五位弟子:牟陀伽罗、瞿佉罗、迦利延、苏多波、跋蹉,第五位为沙伊希利耶。
Verse 3
प्रोवाच संहितास्तिस्रः शाको वैणो रथीतरः / निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः
最上之婆罗门沙迦·维那·罗提多罗宣说了三部《集本》,又重新编成第四部《尼鲁克塔》(词义释)。
Verse 4
तस्य शिष्यास्तु चत्वारः पैलश्चेक्षलकस्तथा / धीमाञ्छ तबलाकश्च गजश्चैव द्विजोत्तमाः
他的弟子有四位:派罗、伊克沙拉迦、智者塔婆罗迦,以及伽阇,皆为最上婆罗门。
Verse 5
बाष्कलिस्तु भरद्वाजस्तिस्रः प्रोवाच संहिताः / त्रयस्तस्याभवञ्च्छिष्या महात्मानो गुणान्विताः
婆罗门婆罗陀婆阇系的巴什迦利宣说了三部《集本》;他有三位弟子,皆为具德的大士。
Verse 6
धीमांश्च त्वापनापश्च पान्नगारिश्च बुद्धिमान् / तृतीयश्चार्जवस्ते च तपसा शंसितव्रताः
底曼、阿帕那帕、智者般那伽利,以及第三位阿尔阇婆——皆以苦行而著称,持守可赞之誓戒。
Verse 7
वीतरागा महातेजाः संहिताज्ञानपारगाः / इत्येते बहूवृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः
他们离欲无染,威光炽盛,通达《集本》之学;因此被称为“多诵者”(Bahūvṛca),由他们使诸《集本》得以流传。
Verse 8
वैशंपायनशिष्यो ऽसौ यजुर्वेदमकल्पयत् / षडशीतिस्तु तेनोक्ताः संहिता यजुषां शुभाः
毗舍ṃ帕耶那的那位弟子依仪轨编定了《夜柔吠陀》。他宣说了八十六部吉祥的夜柔《本集》(Saṃhitā)。
Verse 9
शिष्येभ्यः प्रददौ ताश्च जगूहुस्ते विधानतः / एकस्तत्र परित्यक्तो या५वल्क्यो महातपाः
他把那些本集传授给弟子们,弟子们依仪轨受持。唯有大苦行者雅吉那瓦尔迦一人被弃置在外。
Verse 10
षडशीतिस्तथा शिष्याः संहितानां विकल्पकाः / सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः
同样地,八十六位弟子各自编成了本集的不同传本。关于他们所有人,传说共有三类分支差别。
Verse 11
त्रिधा भेदास्तु ते वेदभेदे ऽस्मिन्नवमे शुभे / उदीच्या मध्यदेश्याश्च प्राच्यश्चैव पृथग्विधाः
在这吉祥的第九种吠陀分支中,那些差别分为三类:北方派(उदीच्य)、中土派(मध्यदेश्य)与东方派(प्राच्य),各自成别。
Verse 12
श्यामायनिरुदीच्यानां प्रधानः संबभूव ह / मध्यदेशप्रतिष्ठाता चासुरिः प्रथमः स्मृतः
在北方派(उदीच्य)之中,沙雅玛耶尼成为首领;而在中土(मध्यदेश)奠立传承者阿苏利,被追念为最初的一位。
Verse 13
आलंबिरादिः प्राच्यानां त्रयोदेश्यादयस्तु ते / इत्येते चरकाः प्रोक्ताः संहिता वादिनो द्विजाः
在东方诸族中,有阿兰毗罗等,又有特罗约德舍耶等;这些人被称为“车罗迦”,乃宣说《僧诃多》的二生者。
Verse 14
ऋषय ऊचुः चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः / किं चीर्णं कस्य वा हेतोश्चरकत्वं हि भेजिरे
诸仙人说道:“噢,苏多!请如实宣说:这些祭官(adhvaryu)因何缘故成为‘车罗迦’?他们修行了什么,或因何原因而取此车罗迦之名?”
Verse 15
सूत उवाच कार्यमासीदृषीणां च किञ्चिद्ब्राह्मणसत्तमाः / मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम्
苏多说道:“诸位最胜婆罗门啊,诸仙人有一件要事。抵达须弥山背后之处时,他们便彼此商议,口中说道‘汝’如此。”
Verse 16
यो वात्र सप्तरात्रेण नागच्छेद्द्विजसत्तमः / स कुर्याद्ब्रह्महत्यां वै समयो नः प्रकीर्तितः
若有最胜二生者在七夜之内不到此处,必将招致“梵杀”(brahmahatyā)之罪;此乃我们所宣定的期限。
Verse 17
ततस्ते सगणाः सर्वे वैशंपायनवर्जिताः / प्रययुः सप्तरात्रेण यत्र संधिः कृतो ऽभवत्
于是他们众人携各自随从,唯独不包括毗舍波耶那,在七夜之内前往那缔结盟约之处。
Verse 18
ब्रह्मणानां तु वचनाद्ब्रह्महत्यां चकार सः / शिष्यानथ समानीय स वैशंपायनो ऽब्रवीत्
遵从婆罗门们的言辞,他承担了“梵杀罪”(brahmahatyā)的忏悔苦行。随后召集弟子,毗舍波耶那开口说道。
Verse 19
ब्रह्महत्यां चरध्वं वै मत्कृते द्विजसत्तमाः / सर्वे यूयं समागम्य ब्रूत कामं हितं वचः
诸位最上等的二生者啊,为了我,你们当行“梵杀罪”的忏悔苦行。你们都聚集起来,随意说出有益的言辞。
Verse 20
याज्ञवल्क्य उवाच अहमेकश्चरिष्यामि तिष्ठन्तु मुनयस्त्विमे / बलेनोत्थापयिष्यामि तपसा स्वेन भावितः
耶若那伐迦说道:“我一人将行此忏悔;诸牟尼且留在此。以自身苦行所成之力,我必能承担并举起此担。”
Verse 21
एव मुक्तस्ततः क्रुद्धो या५वल्क्यम थात्यजत् / उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे
听罢此言,他大怒而弃绝耶若那伐迦,说道:“你所学得的一切,尽数归还于我。”
Verse 22
एवमुक्तः सरूपाणि यजूंषि गुरवे ददौ / रुधिरेण तथाक्तानि च्छर्दित्वा ब्रह्मवित्तमाः
奉此命令,他将《夜柔吠陀》的咒句连同其本相归还于师;而那些最胜的梵知弟子,则将其伴着血呕吐而出,以作归还。
Verse 23
ततः स ध्यानमास्थाय सर्यमाराधयद्द्विजः / सूर्ये ब्रह्म यदुत्पन्नं तं गत्वा प्रतितिष्ठति
随后,那位婆罗门入于禅定,虔敬礼拜日神苏利耶;他趋至太阳中所生之梵(Brahman),并于彼处安住不动。
Verse 24
ततो यानि गतान्यूर्ध्वं यजूष्यादित्यमडलम् / तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये
其后,那些升至阿底提耶(日轮)之上的《夜柔》圣句,欢喜的日神苏利耶尽数赐予梵罗提。
Verse 25
अश्वरूपाय मार्त्तण्डो याज्ञवक्ल्याय धीमते / यजूंष्यधीयते तानि ब्राह्मणा येन केनचित्
太阳神玛尔坦达化作马形,将那些《夜柔》圣句赐予睿智的雅吉那瓦尔迦;诸婆罗门皆诵习此等圣句。
Verse 26
अश्वरूपाय दत्तानि ततस्ते वाजिनो ऽमवन् / ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः
既已赐与马形,那些瓦金(诵读支派)便得以保存;而行过“梵杀”(brahmahatyā)之赎罪者,依其“行部”(caraṇa)被称为“恰拉迦”(Caraka)。
Verse 27
वैशंपायनशिष्यास्ते चरकाः समुदाहृताः / इत्येते चरकाः प्रोक्ता वाजिनस्तु निबोधत
这些恰拉迦被称为毗舍波耶那的弟子。如此便说明了“恰拉迦”;至于“瓦金”,你也当听明白。
Verse 28
या५वल्क्यस्य शिष्यास्ते कण्वो बौधेय एव च / मध्यन्दिनस्तु सापत्यो वैधेयश्चाद्धबौद्धकौ
雅吉那伐尔迦的弟子有:迦ṇ婆与鲍提耶;又有中日派、萨帕提耶、毗提耶以及阿达鲍提迦等。
Verse 29
तापनीयश्च वत्साश्च तथा जाबालकेवलौ / आवटी च तथा पुण्ड्रो वैणोयः सपराशरः
又有塔帕尼耶与瓦特萨诸派;以及两位贾巴拉迦;并有阿瓦蒂、旁陀罗、维诺耶与帕罗沙罗一系。
Verse 30
इत्येते वाजिनः प्रोक्ता दशपञ्च च सत्तमाः / शतमेकाधिकं ज्ञेयं यजुषां ये विकल्पकाः
如是所说,这些“瓦金”支派为十五加七,共二十二;而《夜柔吠陀》的异诵分支当知为一百零一。
Verse 31
पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः / सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्पुनः
阇弥尼教导其子苏曼图;苏曼图又再教导其子苏特瓦安。
Verse 32
सुकर्माणं ततः सुन्वान्पुत्रमध्यापयत्पुनः / स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः
其后,孙瓦安又教导其子苏迦尔摩;苏迦尔摩迅速诵习千篇,并通达诸《三希塔》。
Verse 33
प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः / अनध्यायेष्वधीयानांस्तञ्जघान शतक्रतुः
于是,千人中具日光般威辉的苏迦尔摩开口说道;而在“非诵读期”(anadhyāya)仍诵学者,被百祭主(因陀罗)所诛。
Verse 34
प्रायोपवेशमकरोत्ततो ऽसौ शिष्यकारमात् / क्रुद्धं दृष्ट्वा ततः शक्रोवरं सो ऽथ पुनर्ददौ
随后因弟子之故,他行“绝食坐死”(prāyopaveśa);见其震怒,释迦(因陀罗)便再次赐予恩愿。
Verse 35
भविष्यतो महावीर्यौं शिष्यौ ते ऽतुलवर्चसौ / अधीयातां महाप्राज्ञौ सहस्रं संहिता उभौ
将来你将有两位弟子,具大威力、光辉无比;二人皆为大智者,将研习一千部《集成》(saṃhitā)。
Verse 36
एते सुरा महाभागाः संक्रुद्धा द्विजसत्तम / इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम्
“婆罗门中最胜者啊,这些福德具足的天神已大为震怒。”说罢,吉祥的婆娑婆(因陀罗)对声名卓著的苏迦尔摩如是言。
Verse 37
शान्तक्रोधं द्विजं दृष्ट्वा क्षिप्रमन्तर धात्प्रभुः / तस्य शिष्यो ऽभवद्धीमान् पौष्यञ्जिर्द्विजसत्तमाः
见那婆罗门已息怒,主宰便迅速隐没;而他的弟子成为智者“波乌希延吉”(Pauṣyañji),婆罗门中最胜者啊。
Verse 38
हिरण्यनाभः कौशल्यो द्वितीयो ऽभून्नराधिपः / अध्यापयत पौष्याञ्जिः सहस्रार्द्धं तुसंहिताः
拘萨罗国的希兰尼亚那婆成为第二位君王。波须延支向弟子传授《图·三希塔》半千(五百)部圣集。
Verse 39
ते नाम्नोदीच्यसामानः शिष्याः पौष्यञ्जिनः शुभाः / सत्त्वानि पञ्च कौशिल्यः संहिताना मधीतवान्
他们是波须延支的吉祥弟子,名号称为“北方萨曼”。拘舍利耶研习了诸《三希塔》的五种“萨特瓦”(要义)。
Verse 40
शिष्या हिरण्यनाभस्य स्मृतास्तु प्राच्यसामगाः / लौगाक्षिः कुशुमिश्चैव कुशीदिर्लाङ्गलिस्तथा / पौष्यञ्जि शिष्याश्चत्वारस्तेषां भेदान्निबोधत
希兰尼亚那婆的弟子被称为“东方萨摩歌”:劳伽阿克希、库舒弥、库希狄与朗伽利。波须延支亦有四位弟子;当知其传承分支之别。
Verse 41
नाडायनीयः सहतण्डिपुत्रस्तस्मादनोवैननामा सुविद्वान् / सकोतिपुत्रः सुसहाः सुनामा चैतान्भेदान्वित्तलौगाक्षिणस्तु
劳伽阿克希一系的分支为:那陀耶尼耶,萨哈坦迪之子;由其出有学识渊博的阿诺外那;继而有斯科提之子;以及苏苏哈、苏那摩。此即劳伽阿克希传承之别。
Verse 42
त्रयस्तु कुशुमेः शिष्या औरसः स पराशरः
库舒弥有三位弟子;其中帕罗沙罗是他的亲生子(奥罗萨)。
Verse 43
नाभिर्वित्तस्तु तेजस्वी त्रिविधा कौशुमाः स्मृताः / शौरिषुः शृङ्गिपुत्रश्च द्वावेतौ तु चिरव्रतौ
纳毗尔维塔是一位光辉的圣仙;《传记》记载,考舒摩传承有三种分支。绍里须与施楞伽之子——二者皆为久持誓戒的修行者。
Verse 44
राणायनीयिः सौमित्रिः सामवेदविशारदौ / प्रोवाच संहितास्ति स्रः शृङ्गिपुत्रौ महात्पाः
罗那耶尼伊与苏密特利——二人皆精通《娑摩吠陀》。那些大德、名为施楞伽之子者,宣说了诸《集本》(saṃhitā)。
Verse 45
वैनः प्राजीनयोगश्च सुरालश्च द्विजौत्तमः / प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः
维那、普拉吉那瑜伽与苏拉罗——皆为最上二生者。帕罗沙利耶·考图摩宣说了六部《集本》(saṃhitā)。
Verse 46
आसुरायणवैशाख्यौ वेदवृद्धपरायणौ / प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः
阿苏罗耶那与毗舍佉耶——二人皆依止于吠陀长老。又有普拉吉那瑜伽之子、睿智的帕坦伽利。
Verse 47
कौथुमस्य तु भेदाश्च पाराशर्यस्य पट् समृताः / लाङ्गलः शालिहोत्रश्च षडुवाचाथ संहिताः
考图摩的分支,以及帕罗沙利耶的分支,也被记为六种。随后,兰伽罗与沙利霍特罗宣说了六部《集本》(saṃhitā)。
Verse 48
हालिनिर्ज्यामहानिश्च जैमिनिर्लोमगायनिः / कण्डुश्च कोहलश्चैव षडे ते लाङ्गलाः स्मृताः
哈利尼尔迦、摩诃尼什迦、阇弥尼、罗摩伽耶尼、坎杜与科诃罗——此六位被称为“犁族(Lāṅgala)”。
Verse 49
एते लाङ्गलिनः शिष्याः संहिता यैः प्रवर्त्तिताः / एको हिरण्यनाभस्य कृतः शिष्यो नृपात्मजः
这些是“犁者”拉ṅ伽利的弟子,由他们使诸部《集成》(Saṃhitā)得以流传;其中有一位王子,被收为金脐(Hiraṇyanābha)之弟子。
Verse 50
सो ऽकरोत्तु चतुर्विशसंहिता द्विपदां वरः / प्रोवाच चैव शिष्येभ्यो येभ्यस्ताश्च निबोधत
那位卓越之人编成二十四部《集成》(Saṃhitā);并将之宣说给诸弟子——你们也当知晓那些弟子。
Verse 51
राडिश्च राडवीयश्च पञ्जमौ वाहनस्तथा / तलको माण्डुकश्चैव कालिको राजिकंस्तथा
罗ḍi、罗ḍavīya、潘阇摩、瓦哈那、塔拉迦、曼ḍuka、迦利迦与罗吉迦——这些名字也被列举(为弟子)。
Verse 52
गौतमश्चाजबस्तश्च सोमराजायनस्ततः / पुष्टिश्च परिकृष्टश्च उलूखलक एव च
其后又有乔多摩、阿阇巴斯塔、苏摩罗阇耶那、普什蒂、帕里克里什塔与乌卢卡拉迦——亦被列入(弟子之名)。
Verse 53
यवीयसस्तु वै शालीरङ्गुलीयश्च कौशिकः / शालिमञ्जरिपाकश्च शधीयः कानिनिश्च यः
雅维亚萨、沙利兰古利耶·考希迦、沙利曼阇利帕迦、沙提耶与迦尼尼——这些名字被称为诵《娑摩》者(sāmaga)。
Verse 54
पाराशर्यस्तु धर्मात्मा इति क्रान्तास्तु सामगाः / सामगानां तु सर्वेषां श्रेष्ठौ द्वौ परिकीर्त्तितौ
“帕拉沙利耶具足法性”——诵《娑摩》者因此而闻名;在一切娑摩诵者中,有两位被称为最胜。
Verse 55
पौष्यञ्जिश्च कृतश्चैव संहितानां विकल्पकौ / अथर्वाणं द्विधा कृत्वा सुमन्तुरददाद्द्विजाः
普沙延吉与克利塔是诸《集本》(saṃhitā)的分编者;诸婆罗门啊,苏曼图将《阿闼婆吠陀》分为两部而传授。
Verse 56
कबन्धाय पुनः कृष्णं स च विद्वान्यथाश्रुतम् / कबन्धस्तु द्विधा कृत्वा पथ्यायैकं पुनर्ददौ
随后又将“黑本”(Kṛṣṇa,指阿闼婆传承)授予迦班陀;他依所闻而为智者。迦班陀将其分为两部,又把其中一部再授给帕提耶。
Verse 57
द्वितीयं देवदर्शायस चतुर्धाकरोत्प्रभुः / मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च
第二部(传与)提婆达尔沙;主尊将其分为四支——摩陀、梵力(Brahmabala)以及毗钵婆罗陀(Pippalāda)。
Verse 58
शौल्कायनिश्च धर्मज्ञश्चतुर्थस्तपसि स्थितः / देवदर्शस्य चत्वारः शिष्या ह्येते दृढव्रताः
绍尔迦耶尼通达法义,为第四位,安住苦行;德瓦达尔沙的这四位弟子皆持坚固誓愿。
Verse 59
पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् / जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः
再者,当知“帕提耶”传承的殊胜三分:贾贾利、库穆达底,以及第三称为绍那迦。
Verse 60
शौनकस्तु द्विधा कृत्वा ददावेकान्तु बभ्रवे / द्द्वितीयां संहितां धीमान्सैन्धवायनसंज्ञि ते
绍那迦将其分为两部,一部授予巴布鲁;第二部《集成》,这位智者授予名为“赛因陀瓦耶那”者。
Verse 61
सैन्धवो मुञ्जकेश्यश्च भिन्नामाधाद्द्विधा पुनः / नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः
赛因陀瓦与蒙阇凯沙又将那已分出的传承再分为二;“星宿仪轨”(Nakṣatrakalpa)与“祭仪法”(Vaitāna)即为第三种《集成》体例。
Verse 62
चतुर्थोंऽगिरसः कल्पः शान्तिकल्पश्च पञ्चमः / श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः
第四为“安吉罗萨仪轨”(Āṅgirasa-kalpa),第五为“息灾仪轨”(Śānti-kalpa);他们被尊为阿闼婆那诸《集成》的最胜分支编定者。
Verse 63
खड्गः कृत्वा मया युक्तं पुराणमृषिसत्तमाः / आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः
诸位最胜仙人啊!我已如利剑般精严编纂此《普罗那》;阿特雷耶、智者苏摩提,以及名为阿克利特弗拉那的迦叶波[为其承持者]。
Verse 64
भारद्वाजो ऽग्निवर्चाश्च वासिष्ठा मित्रयुश्च यः / सावर्णिः सोमदत्तिश्च सुशर्मा शांशपायनः
婆罗陀婆阇、阿耆尼瓦尔恰、婆悉吒与密特拉瑜;又有萨瓦尔尼、苏摩达多、苏舍尔摩与商沙巴耶那。
Verse 65
एते शिष्या मम प्रोक्ताः पुराणेषु धृतव्रताः / त्रिभिस्तत्र कृतास्तिस्रः संहिताः पुनरेव हि
这些被称为我的弟子,皆于诸《普罗那》中持守誓戒;在那里,那三位又再编成三部《集成》(Saṃhitā)。
Verse 66
काश्यपः संहिता कर्त्ता सावर्णिः शांशपायनः / मामिका तु चतुर्थी स्याच्चतस्रो मूलसंहिताः
迦叶波为一部《集成》之作者;萨瓦尔尼与商沙巴耶那[亦为作者]。而我的《玛弥迦》为第四部——共四部根本《集成》。
Verse 67
सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः / पाठान्तरे वृथाभूता वेदशाखा यथा तथा
它们全都为四足之体,且皆宣说同一义旨;然在诵读异本中,便如吠陀诸支派一般,徒成无益之差别。
Verse 68
चतुः साहस्रिकाः सर्वाः शांशपायनिकामृते / लौमहर्षणिका मूला ततः काश्यपिका परा
在如甘露般的商沙波耶尼迦(Śāṃśapāyanika)诵本中,这一切皆为“四千”之数。其根本源自劳摩诃尔沙尼迦(Laumaharṣaṇika)传承,其后则为尊胜的迦湿耶波迦(Kāśyapika)传承。
Verse 69
सावर्णिका तृतीयासावृजुवाक्यार्थमण्डिता / शांशपायनिका चान्या नोदनार्थविभूषिता
第三支萨婆尔尼迦(Sāvarṇika)传承,以直白语句之义而庄严。另一支商沙波耶尼迦(Śāṃśapāyanika)传承,则以劝勉激励之义而增辉。
Verse 70
सहस्राणि ऋचां चाष्टौ षट्शतानि तथैव च / एताः पञ्चदशान्याश्च दशान्या दशभिस्तथा
诸《梨句》(ṛc)计八千,又加六百。此外又有十五,又有十,并且亦以十与十相加而计。
Verse 71
सवालखिल्याः सप्तैताः ससुपर्णाः प्रकीर्त्तिताः / अष्टौ सामसहस्राणि सामानि च चतुर्द्दश
此七类并含瓦拉奇利耶(Vālakhilya),与“善翼者”苏帕尔那(Suparṇa)一同被称颂为著名。又有八千《娑摩》(sāman),并另有十四支娑摩歌。
Verse 72
सारण्यकं सहोहं च एतद्गायन्ति सामगाः / द्वादशैव सहस्राणि च्छन्द आध्वर्यवं स्मृतम्
“萨兰尼亚迦”(Sāraṇyaka)与“萨侯诃”(Sahoha),为娑摩歌者所吟唱。所谓“阿德瓦尔耶瓦”(Adhvaryava)之韵律,在传承(smṛti)中记为一万二千。
Verse 73
यजुषां ब्राह्मणानां च तथा व्यासो व्यकल्पयत् / सग्राम्यारण्यकं तस्मात्समन्त्रकरणं तथा
毗耶娑亦如是编定《夜柔吠陀》的婆罗门书;并由此分出在家(grāmya)与林居(āraṇyaka)诸部,皆具圣咒而成。
Verse 74
अतः परं कथानं तु पूर्वा इति विशेषणम् / ग्राम्यारण्यं समन्त्रं तदृग्ब्राह्मणयजुः स्मृतम्
自此以后的叙述以“前(pūrvā)”为标识;那具足圣咒的在家—林居(grāmya-āraṇyaka)部分,被忆念为《梨俱》、婆罗门书与《夜柔》。
Verse 75
तथा हारिद्रवीर्याणां खिलान्युपखिलानितु / तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम्
同样,哈利德拉维尔耶(Hāridravīrya)支派有“附篇”(khila)与“次附篇”(upakhila);而在泰帝利耶(Taittirīya)支派中,它们被称为“parakṣudrā”。
Verse 76
द्वे सहस्रे शतन्यूने वेदे वाजसनेयके / ऋग्गमः परिसंख्यातो ब्राह्मणं तु चतुर्गुणम्
在《瓦阇萨尼耶》吠陀中,所计“ṛg-gama”为二千减一百(即一千九百);而婆罗门部分则说是其四倍。
Verse 77
अष्टौ सहस्राणि शतानि वाष्टावशीतिरन्यान्यधिकानि वा च / एतत्प्रमाणं यजुषामृचां च सशुक्रियं सखिलं याज्ञवल्क्यम्
八千又一百,或更增八十八——此为夜柔与梨句诸颂之定量;并连同“Śukrīya”与一切附篇(khila),皆称为耶若那伐尔迦(Yājñavalkya)之传承。
Verse 78
तथा चारणविद्यानां प्रमाणसहितं शृणु / षट्सहस्रमृचामुक्तमृचः षड्विंशतिं पुनः
同样地,请听具足尺度与依据的“恰罗那(Cāraṇa)诸学”。据说《颂》(ṛc)有六千首,并且又另有二十六首颂。
Verse 79
एतावदधिकं तेषां यजुः कि मपि वक्ष्यते / एकादशसहस्राणि ऋचश्चान्या दशोत्तराः
此外,还将略说他们的《夜柔》(Yajus)。ṛc 共有一万一千首,另有其他ṛc多于十首。
Verse 80
ऋचां दशसहस्राणि ह्यशीतिस्त्रिंशदेव तु / सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः
ṛc 共一万首,确实还另有八十与三十。依照定量,诸咒(mantra)之ṛc被说为一千零一首。
Verse 81
एतावानृचि विस्तारो ह्यन्यच्चाथर्विकं बहु / ऋचामथर्वणां पञ्चसहस्राणीति निश्चयः
ṛc 部分的展开至此为止;而阿闼婆(Atharva)之部亦甚多。阿闼婆那(Atharvan)的ṛc确定为五千首。
Verse 82
सहस्रमन्यद्विज्ञेयमृषि भिर्विशतिं विना / एतदङ्गिरसां प्रोक्तं तेषामारण्यकं पुनः
还应知另有一千,但须除去诸仙(ṛṣi)所占的二十。此为安吉罗萨(Aṅgirasa)所说;并且他们的《森林书》(Āraṇyaka)亦复如是。
Verse 83
इति संख्या प्रसंख्याता शाखाभेदास्तथैव तु / कर्तारशचैव शाखानां भेदहेतूंस्तथैव च
如是,诸吠陀支派(śākhā)之分支差别已被逐一计数并宣说;并且这些支派的编定者以及分歧之因亦同样陈述。
Verse 84
सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाश्रिताः / प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः
在一切摩奴劫(manvantara)中,支派(śākhā)之分歧皆如是依止而存。普罗阇波提(Prajāpati)之圣闻(śruti)恒常不灭;这些分歧被记为其种种变体。
Verse 85
अनित्यभावाद्देवानां मन्त्रोत्पत्तिः पुनः पुनः / द्वापरेषु पुनर्भेदाः श्रुतीनां परिकीर्त्तिताः
由于诸天之相非恒常,诸咒(mantra)便一再生起;而在诸多兜婆罗时代(Dvāpara),圣闻(śruti)之分歧亦屡屡被宣说。
Verse 86
एवं वेदं तदाप्यस्य भगवानृषिसत्तमः / शिष्चेब्यश्च प्रदत्त्वा तु तपस्तप्तु वन गतः
如是,当时那位至上圣仙(bhagavān ṛṣi-sattama)将吠陀(既已整编)授予诸弟子,遂入林野以修苦行。
Verse 87
तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः / अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
由他的弟子与再传弟子,遂成就这些吠陀支派(śākhā)之分支;并且亦提及吠陀支分(vedāṅga)、四部吠陀、弥曼萨(Mīmāṃsā)与正理(Nyāya)之广说。
Verse 88
धर्मशास्त्रं पुराणं च विद्याश्चेमाश्चतुर्दश / आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः
《法论》(Dharmaśāstra)与《普拉那》(Purāṇa),并称十四种圣学;又有《寿命吠陀》(Āyurveda)、《弓术吠陀》(Dhanurveda)与《乐舞吠陀》(Gāndharva),此三亦在其列。
Verse 89
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव हि / ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः
《政财论》(Arthaśāstra)为第四;由此诸学确为十八种。应先知晓梵仙(Brahmarṣi),其后再知天仙(Devarṣi)。
Verse 90
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रिधा / काश्यपेषु वसिष्ठेषु तथा भृग्वङ्गिरो ऽत्रिषु
复由他们而有王仙(Rājarṣi);诸仙之性分为三类:在迦叶(Kāśyapa)、婆悉吒(Vasiṣṭha),以及婆利古(Bhṛgu)、安祇罗(Aṅgiras)、阿底利(Atri)诸族系中。
Verse 91
पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः / यस्मादृषन्ति ब्रह्माणं ततो ब्रह्मर्षयः स्मृताः
在这五大氏族(gotra)中诞生宣说梵(Brahmavādin)者。由于他们得以“见”梵天/梵(Brahmā/Brahman),故被称为梵仙(Brahmarṣi)。
Verse 92
धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च / प्रत्यूषस्य च देवस्य कश्यपस्य तथा पुनः
又提及达摩(Dharma)、普罗悉底耶(Pulastya)、克罗图(Kratu)、普罗诃(Pulaha)、天神普罗底优沙(Pratyūṣa)以及迦叶(Kaśyapa)等(诸系传承)。
Verse 93
देवर्षयः सुतास्तेषां नामतस्तान्निबोधत / देवार्षी धर्मपुत्रौ तु नरनारायणवुभौ
他们是诸天仙(devarṣi)的子嗣;当按名知之。那两位天仙乃法神(Dharma)之子:那罗与那罗延。
Verse 94
वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु / कुबेरश्चैव पौलस्त्यः प्रत्यूषस्य दलः सुत
瓦拉奇利耶诸仙为克罗图之子;迦尔达摩为普罗诃之子。俱毗罗出自保罗罗斯提耶一系;达罗为普拉提尤沙之子。
Verse 95
नारदः पर्वतश्चैव कश्यपस्यात्मजावुभौ / ऋषन्ति वेदान्यस्मात्ते तस्माद्देवर्षयः स्मृताः
那罗陀与帕尔瓦塔二者皆为迦叶之子。因他们宣扬并阐释吠陀,故被称为天仙(devarṣi)。
Verse 96
मानवे चैव ये वंशे ऐलवंशे च ये नृपाः / ये च ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते
凡出自摩奴系与艾罗系的诸王,以及伊克什瓦库与那婆伽诸族的君主,皆当知为王仙(rājarṣi)。
Verse 97
ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः / ब्रह्मलोकप्रतिष्ठास्तु समृता ब्रह्मर्षयो ऽमलाः
能以抚慰与教化使众生欢悦而行圣仙之道者,称为王仙(rājarṣi)。安住于梵天界(Brahmaloka)者,被忆念为清净的梵仙(brahmarṣi)。
Verse 98
देवलोकप्रतिष्ठास्तु ज्ञेया देवर्षयः शुभाः / इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः
应知吉祥的天仙圣者(Devarṣi)安住于天界(Devaloka);而一切王仙圣者(Rājarṣi)被认为安住于因陀罗天(Indraloka)。
Verse 99
अभिजात्याथ तपसा मन्त्रव्याहरणैस्तथा / ये च ब्रह्मर्षयः प्रोक्ता दिव्या देवर्षयश्च ये
具足高贵出身、苦行与诵持真言者,被称为梵仙(Brahmarṣi);而具神圣天性者,被称为天仙(Devarṣi)。
Verse 100
राजर्षयस्तथा चैव तेषां वक्ष्यामि लक्षणम् / भूतं भव्यं भवज्ज्ञानं सत्याभि व्यात्दृतं तथा
我将宣说王仙(Rājarṣi)的特征:了知过去、未来与现在,并且清晰宣说真实之语。
Verse 101
संतुष्टाश्च स्वयं ये तु संबुद्धा ये च वै स्वयम् / तपसेह प्रसिद्धा ये गर्भे यैश्च प्रवेदितम्
那些自得满足、亦自证觉悟者;以苦行著称者;以及智慧在胎中便已显现者。
Verse 102
मन्त्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये / एते राजर्षयो युक्ता देवाद्विजनृपाश्च ये
能诵持真言、并凭神圣威德而遍行诸方者——此等具足者即为王仙(Rājarṣi),乃如天神般的二次生王者(dvija-nṛpa)。
Verse 103
एतान्भावानधिगता ये वै त ऋषयो मताः / सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः
凡证得这些境界者,方被认作圣仙(ṛṣi)。此七位具足七种德性,故被称念为“七圣仙”(Saptarṣi)。
Verse 104
दीर्घायुषो मन्त्रकृत ईश्वराद्दिव्यचक्षुषः / बुद्धाः प्रत्यक्ष धर्माणो गोत्रप्रावर्त्तकाश्च ते
他们寿命绵长,凭咒力而成就,并蒙主宰(Īśvara)赐予天眼。其心智觉悟,能亲证诸法之义,亦为诸氏族(gotra)传承的开创者。
Verse 105
षट्कर्मनिरता नित्यं शालीना गृहमेधिनः / तुल्यैर्व्यवहरन्ति स्म ह्यदुष्टैः कर्महेतुभिः
他们恒常勤修六种本分,为端肃的居家修行者。与同等之人往来,皆以无恶意、无过失的行事因缘为本。
Verse 106
अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयङ्कृतैः / कुटुंबिनो बुद्धिमन्तो वनान्तरनिवासिनः
他们远离世俗乡野之乐,以自制的清简滋味维生。虽为家人之主,却具智慧,居于林野深处。
Verse 107
कृतादिषु युगाख्यासु सर्वैरेव पुनः पुनः / वर्णाश्रमव्यवस्थानं क्रियते प्रथमं तु वै
在名为劫初(Kṛta)等诸劫之中,众人一再首先建立的,正是种姓与住期(varṇa-āśrama)的秩序。
Verse 108
प्राप्ते त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह / प्रवर्त्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः
当特雷塔纪元伊始,此处的七圣仙(Saptarṣi)再次全面建立种姓与住期(梵行等四住期)的秩序。
Verse 109
तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः / जायमाने पितापुत्रे पुत्रः पितरि चैव हि
在他们的血脉中,勇士一再出生;当父与子相继降生时,实则是子在父中(以再生之相)显现。
Verse 110
एवं संतत्य विच्छेदाद्वर्तयन्त्यायुगक्षयात् / अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम्
如此,从世系断绝到一劫衰尽,这一过程延续不息;关于居家祭祀者(gṛhamedhin),说有八万八千(数目/类分)。
Verse 111
अर्यम्णो दक्षिणं ये तु पितृयानं समाश्रिताः / दाराग्निहोत्रिणस्ते वै यै प्रजाहेतवः स्मृताः
凡依止阿利耶曼(Aryaman)之南道——祖灵之道(Pitṛyāna)者,皆为有妻并奉行火供(agnihotra)之居家者;他们被忆念为众生繁衍之因。
Verse 112
गृहमेधिनस्त्वसंख्येयाः श्मशानान्याश्रयन्ति ते / अष्टाशीतिसहस्राणि निहिता उत्तरापथे
无量的居家祭祀者(gṛhamedhin)归依于火葬场(尸林);又说有八万八千安置于北道(Uttarāpatha)。
Verse 113
ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरेतसः / मन्त्रब्राह्मणकर्त्तारो जायन्ते च युगक्षयात्
据闻那些已达天界的清净仙圣(ṛṣi,守上行梵行者),在一劫(yuga)将尽之时复又出生,成为咒语(mantra)与《婆罗门书》(Brāhmaṇa)的撰作者。
Verse 114
एवमावर्त्तमानास्तेद्वापरेषु पुनः पुनः / कल्पानामार्षविद्यानां नानाशास्त्रकृतश्च ये
如是他们在诸多兜婆罗时代(Dvāpara)一次又一次回返示现;他们亦是诸劫(kalpa)之圣仙学(ārṣa-vidyā)与种种论典(śāstra)的撰作者。
Verse 115
क्रियते यैर्व्यवत्दृतिर्वैदिकानां च कर्मणाम् / वैवस्वते ऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः
由他们来制定并区分吠陀诸祭仪(业行)的规制;在此毗婆斯伐多(Vaivasvata)摩奴劫期中,他们于兜婆罗时代屡屡示现。
Verse 116
अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः / सप्तमे द्वापरे व्यमताः स्वयं वेदाः स्वयंभुवा
诸大圣(mahārṣi)曾二十八次分编吠陀;至第七兜婆罗时,生主自生者(Svayambhū)亲自分编诸吠陀。
Verse 117
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः / तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः
在第二个兜婆罗时代,生主(Prajāpati)为吠陀编者(Vedavyāsa);第三个则由乌沙那(Uśanā)为编者;第四个则为布里哈斯帕提(Bṛhaspati)。
Verse 118
सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः / सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः
第五位被称为萨维塔(Savitā)之毗耶娑;第六位记为主宰摩利提尤(Mṛtyu,死神)。第七位同样为因陀罗;第八位则为婆悉吒(Vasiṣṭha)。
Verse 119
सारस्वतस्तु नवमे त्रिधामा दशमे स्मृतः / एकादशे तु त्रिवर्षा सनद्वाजस्ततः परम्
第九位为萨拉斯瓦塔(Sārasvata);第十位记为特里达玛(Tridhāmā)。第十一位为特里瓦尔沙(Trivarṣā),其后为萨那德瓦迦(Sanadvāja)。
Verse 120
त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे / त्रैय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः
第十三位为安达利克沙(Antarikṣa);第十四位亦记为达摩(Dharma)。第十五位为特赖亚鲁尼(Traiyyāruṇi),第十六位为达南阇耶(Dhanañjaya)。
Verse 121
कृतञ्जयः सप्तदशे ऋजीषो ऽष्टादशे स्मृतः / ऋजीषात्तु भरद्वाजो भरद्वाजात्तु गौतमः
第十七位为克里坦阇耶(Kṛtañjaya);第十八位记为梨吉沙(Ṛjīṣa)。由梨吉沙生婆罗陀婆阇(Bharadvāja),由婆罗陀婆阇生乔多摩(Gautama)。
Verse 122
गौतमादुत्तमश्चैव ततो हर्यवनः स्मृतः / हर्यवनात्परो वेनः स्मृतो वाजश्रवास्ततः
由乔多摩(Gautama)而有乌塔摩(Uttama),其后记为哈里亚瓦那(Haryavana)。哈里亚瓦那之后为韦那(Vena),再后为瓦贾施拉瓦(Vājaśravā)被传述。
Verse 123
अर्वाक्च वाजश्रवसः सोममुख्यायनस्ततः / तृणबिन्दुस्ततस्तस्मात्ततजस्तृणबिन्दुतः
由阿尔瓦克(Arvāk)生瓦阇श्रव萨(Vājaśravasa),由其生苏摩मुख्याय那(Somamukhyāyana);继而生特利那宾杜(Tṛṇabindu),由其生塔塔迦(Tātaja),又由塔塔迦再生特利那宾杜。
Verse 124
ततजाच्च स्मृतः शक्तिः शक्तेश्चापि पराशरः / जातूकर्णो भवत्तस्मात्त स्माद्द्वैपायनः स्मृतः
由塔塔迦(Tātaja)传为圣者“沙克提”(Śakti),由沙克提生帕拉沙罗(Parāśara);由其生阇图迦尔那(Jātūkarṇa),由阇图迦尔那又传为岛生者德瓦伊帕亚那(Dvaipāyana,毗耶娑)。
Verse 125
अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः / भविष्ये द्वापरे चैव द्वोणिर्द्वैपायने ऽपि च
这些古代的“分编吠陀者”(Vedavyāsa)据说共有二十八位;而在未来的德瓦帕罗时代,德沃尼(Dvoṇi)与德瓦伊帕亚那(Dvaipāyana)也将以毗耶娑之名出现。
Verse 126
वेदव्यासे ह्यतीते ऽस्मिन्भविता सुमहातपाः / भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु
当此位毗耶娑(Vedavyāsa)逝去之后,将有大苦行者出现;在未来诸世中,吠陀诸支派(śākhā)的建立与传承仍将继续。
Verse 127
तस्यैव ब्रह्मणो ब्रह्म तपसः प्राप्तमव्ययम् / तपसा कर्म च प्राप्तं कर्मणा चापि ते यशः
唯有以苦行(tapas)方能证得彼梵之不坏梵性;由苦行而成就事业,由事业亦得汝之声名。
Verse 128
पुनश्च तेजसा सत्यं सत्येनानन्दमव्ययम् / व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते
复次,由光明之德(tejas)显现真实;由真实而得不坏之喜乐。遍满一切、清净如甘露的梵(Brahman),即被称为“甘露(Amṛta)”。
Verse 129
ध्रुवमेकाक्षरमिदमोमित्येव व्यवस्थितम् / बृहत्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते
此恒常之一音节,安立为“唵(Om)”。因其广大与增长扩展之力,故称为“梵(Brahman)”。
Verse 130
प्रमवा वस्थितं भूयो भूर्भुवः स्वरिति स्मृतम् / अथर्वऋग्यजुः साम्नि यत्तस्मै ब्रह्मणे नमः
普罗那瓦(Pranava)又被忆念为“bhūḥ bhuvaḥ svaḥ(地界、空界、天界)”。礼敬那安住于《阿闼婆》《梨俱》《夜柔》《娑摩》诸吠陀中的梵。
Verse 131
जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञितम् / महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः
于世界之生起与毁灭中,被称为“因”的那一位,超越大我(Mahat)的至上秘奥——礼敬彼吉祥之梵(Subrahman)。
Verse 132
अगाधापारमक्षय्यं जगत्संबोहसंभवम् / संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्
彼深不可测、无边无尽且不坏,为一切世界聚集之所从生;以显明之光与运作之行,成就众生“人生四义”(puruṣārtha)之所归。
Verse 133
सांख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् / यत्तदव्यक्तमतं प्रकृतिर्ब्रह्म शाश्वतम्
具数论之智者的安住,以及具备寂静与自制(śama、dama)之心者的至上归趣,即所谓“未显”(avyakta);那就是自性(Prakṛti),那就是永恒的梵(Brahman)。
Verse 134
प्रधानमात्मयोनिश्च गृह्यं सत्त्वं च शस्यते / अविभागस्तथा शुक्रमक्षरं बहुधात्मकम्
它亦被称为主质(Pradhāna)、自生之源(ātma-yoni)、可被领受者(grāhya)与清净性(sattva);它不分不二、纯净、不可毁坏(akṣara),而具多重面貌。
Verse 135
परमब्रह्मणे तस्मै नित्यमेव नमोनमः / कृते पुनः क्रिया नास्ति कुत एवाकृतक्रियाः
于彼至上梵(Parabrahman),我恒常顶礼再顶礼。既已“成就”(kṛta),便无复作为;何况尚未成就其行(akṛta-kriyā)者呢?
Verse 136
सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् / श्रोतव्यं वा श्रुतं वापि तथैवासाधु साधु वा
世间所谓已作与未作的一切,仿佛皆已一举成就;应听之事或已闻之事,无论不善或善,皆如其然。
Verse 137
ज्ञातव्यं वाप्यमन्तव्यं सप्रष्टव्यं भोज्यमेव च / द्रष्टव्यं वाथ श्रोतव्यं घ्रातव्यं वा कथञ्चन
凡应知、应承认、应询问、应受用之事;凡应见、应闻,或以任何方式应嗅之事——一切皆如是。
Verse 138
दर्शितं यदनेनैव ज्ञातं तद्वै सुरर्षिभिः / यन्न दर्शितवानेष कस्तदन्वेष्टुमर्हति
唯有他亲自显示的,诸天仙圣方得知;他未曾显示的,谁又堪去寻求?
Verse 139
सर्वाणि सर्वं सर्वांश्च भगवानेव सो ऽब्रवीत् / यदा यत्क्रियते येन तदा तस्मो ऽभिमन्यते
“一切、全体、以及众生皆然”,唯有世尊如是宣说;当某事由某人而成之时,人们便认定他为作者。
Verse 140
यत्रेदं क्रियते पूर्वं न तदन्येन भाषितम् / यदा च क्रियते किञ्चित्केनचिद्वा कथं क्वचित्
此事先前在何处发生,非他人所曾言说;而当任何事在某处以某种方式由某人而作之时。
Verse 141
तनैव तत्कृतं कृत्यं कर्त्तॄणां प्रतिभाति वै / विरिक्तं चातिरिक्तं च ज्ञानाज्ञानेप्रियाप्रिये
由他所成之业,在行者看来却如自己所作;于知与不知、爱与不爱之中,或缺或盈,亦复如是。
Verse 142
धर्माधर्मौं सुशं दुःखं मृत्युश्चामृतमेव च / ऊर्द्ध्वं तिर्य्यगधोभावस्तस्यैवादृष्टकारिणः
法与非法、乐与苦、死与不死;以及上升、横行、下堕之境,皆属彼无形之作者。
Verse 143
स्वयंभुवो ऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः / प्रत्येकवेद्यंभवति त्रेतास्विह पुनः पुनः
论自生者、最年长的梵天——至高的帕拉梅什提因:在此特雷塔诸劫中,一再一再,每一部吠陀皆可各自被领悟。
Verse 144
व्यस्यते ह्येकवेद्यं तु द्वापरेषु पुनः पुनः / ब्रह्मा चैतानुवाचादौ तस्मिन्वैवस्वते ऽन्तरे
在兜婆罗诸劫中,那“唯一可知的吠陀”屡次被分编;而在那毗婆斯瓦特摩奴纪之初,梵天便宣说了这些。
Verse 145
आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः / कुर्वन्ति संहिता ह्येते जायमानाः परस्परम्
诸圣仙在各劫名号中一再回旋,彼此相继而生;正是他们编成这些《集本》(三摩希多)。
Verse 146
अष्टाशीतिसहस्राणि श्रुतर्षीणां समृतानि वै / अतीतेषु व्यतीतानि वर्त्तन्ते पुनः पुनः
据传诵,承持圣闻(室卢提)的圣仙共有八万八千;虽已在往昔诸劫中逝去,却仍一再一再地流转再现。
Verse 147
श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे / युगे युगे तु ताः शाखा व्यस्यन्ते तै पुनः पुनः
那些依循南道而栖身于火葬场者——由他们在每一劫中,使那些支分(沙迦)一次又一次地被分编。
Verse 148
द्वापरेष्विह सर्वेषु संहितास्तु श्रुतर्षिभिः / तेषां गोत्रेष्विमाः शाखा भवन्ति हि पुनः पुनः
在此世间的每一个二劫(Dvāpara)中,守护圣闻(Śruti)的圣仙编集诸《集本》(saṃhitā);在他们的族系(gotra)中,这些支派(śākhā)一次又一次地出现。
Verse 149
ताः शाखास्ते च कर्त्तारो भवं तीहायुगक्षयात् / एवमेव तु विज्ञेया अतीतानागतेष्वपि
这些支派(śākhā)及其编撰者在此于劫末(yuga-kṣaya)显现;对于过去与未来,也应如此理解。
Verse 150
मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै / अतीतेषु व्यतीतानि वर्त्तन्ते सांप्रते ऽन्तरे
在一切摩奴劫(manvantara)中,确有诸支派(śākhā)的建立;在已逝的摩奴劫中它已成过去,而在当下的劫间它仍在延续。
Verse 151
भविष्यन्ति च यानि स्युर्वर्त्स्यन्ते ऽनागतेष्वपि / पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम्
将来会发生的,也将在未至的诸劫中发生;以先前知后后,以当下通晓两者。
Verse 152
एतेन क्रमयोगेन मन्वन्तरविनिश्चयः / एवं देवाः सपितर ऋषयो मनवश्च वै
凭此秩序相续,便能确立摩奴劫(manvantara);同样,诸天(deva)、祖灵(pitṛ)、圣仙(ṛṣi)与诸摩奴(manu)也依次可知。
Verse 153
मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह / जनलोकात्सुराः सर्वे दशकल्पान्पुनः पुनः
诸天与诸咒同往,自阎那罗迦上升;又与诸咒同返,十劫之中反复轮回往复。
Verse 154
पर्यायकाले संप्राप्ते संभूता निधनस्य ते / अवश्यभाविनार्ऽथेन संभध्यन्ते तदा तु ते
当轮转之时到来,他们便生起而趋于死亡;由于不可避免的法则,就在那时他们与之相系相缚。
Verse 155
ततस्ते दोषवज्जन्म पश्यन्तो रोगपूर्वकम् / निवर्त्तते तदा वृत्तिः सा तेषां दोषदर्शनात्
继而他们见到带有过失的出生,且以疾病为先导;由于见过失,那时他们的那种趋向便止息。
Verse 156
एवं देवयुगानीह दशकृत्वो विवर्त्य वै / जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तकम्
如是于此使天之诸劫轮转十次,他们便自阎那罗迦往诣苦行界(Tapoloka),此为不复还之境。
Verse 157
एवं देवयुगानीह व्यती तानि सहस्रशः / निधनं ब्रह्मलोके वै गतानि ऋषिभिः सह
如是此处天之诸劫千千流逝;他们与诸仙同至梵天界(Brahmaloka),于彼处归于终尽。
Verse 158
न शक्य आनुपूर्व्येण तेषां वक्तुं सुविस्तरः / अनादित्वाच्च कालस्य संख्यानां चैव सर्वशः
时间无始,诸数亦遍处无量;故不可能依次将其广博详说。
Verse 159
मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह / पितृभिर्मुनिभिर्देवैः सार्द्धं च ऋषिभिः सह
与古老诸劫(kalpa)同逝的诸摩奴期(manvantara),连同祖灵(Pitṛ)、牟尼、诸天与诸仙(ṛṣi),皆已成为往昔。
Verse 160
कालेन प्रतिसृष्टानि युगानां च विवर्त्तनम् / एतेन क्रमयोगेन कल्पमन्वन्तराणि च
由时间之力,诸瑜伽时代(yuga)反复再生,时代亦轮转;依此次第,诸劫(kalpa)与诸摩奴期(manvantara)亦如是运行。
Verse 161
सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः / मन्वन्तरान्ते संहारः संहारान्ते च संभवः
连同众生,百次千次的周期已然流逝;一摩奴期终则有毁灭(saṃhāra),毁灭终则复有再生。
Verse 162
देवतानामृषीणां च मनोः पितृगणस्य च / न शक्य आनुपूर्व्येण वक्तुं वर्षशतैरपि
诸天、诸仙(ṛṣi)、摩奴与祖灵众(Pitṛ)之次第,纵历百年亦难以依序尽述。
Verse 163
विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः / मन्वन्तरस्य संख्या तु मानुषेण निबोधत
当以人间的计数,了知造化与毁灭的一切广大,以及诸摩奴劫(Manvantara)的数目。
Verse 164
मन्वन्तरास्तु संख्याताः संख्यानार्थविशारदैः / त्रिंशत्कोट्यस्तु संपूर्णा संख्याताः संख्याया द्विजैः
精通数义者已计数诸摩奴劫;诸婆罗门(dvija)判定其总数圆满为三十俱胝。
Verse 165
सप्तषष्टिस्तन्थान्यानि नियुतानि च संख्याया / विंशतिश्च सहस्रामि कालो ऽयं साधिकं विना
其数为六十七尼由他等,并加二万;此时量所说不含余增。
Verse 166
मन्वन्तरस्य संख्येयं मानुषेण प्रकीर्त्तिता / वर्षाग्रेणापि दिव्येन प्रवक्ष्याम्युत्तरं मनोः
摩奴劫之数已按人间计数宣说;今我亦将以天年之度,宣示摩奴的后续。
Verse 167
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् / द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु
依天界之数,记为八十万;并另有增添五万二千。
Verse 168
चतुर्दशगुणो ह्येष कालो ह्याभूतसंप्लवम् / पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम्
此时量增至十四倍,直至众生大劫坏灭。圆满一千劫之期,被忆念为梵天一日。
Verse 169
ततः सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः / ब्रह्माणामग्रतः कृत्वा सह देवर्षिदानवैः
于是,一切众生为日神之光所焚;并以梵天为前导,与天仙圣者及阿修罗众同往。
Verse 170
प्रविशन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् / स स्रष्टा सर्व भूतानां कल्पादिषु पुनः पुनः
他们归入诸天之最胜、主宰那罗延天。彼于诸劫之初,屡屡为一切众生之创造者。
Verse 171
इत्येष स्थितिकालो वै मतो देवर्षिभिः सह / सर्वमन्वन्तराणां हि प्रतिसंधिं निबोधत
如是,此住持之时为诸天仙圣者所共许。今当了知一切摩奴劫之“续接”(pratisandhi)之理。
Verse 172
युगख्या या समुद्दिष्टा प्रागेतस्मिन्मयानघाः / कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम्
诸无垢者,我先前所说之“劫期”名号,由圆满劫、三分劫等相合,称为“四劫”(caturyuga)。
Verse 173
तच्चैकसप्ततिगुणं परिवृत्तं तु साधिकम् / मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः
彼事增至七十一倍有余;世尊主宰遂宣说摩奴之此等职分。
Verse 174
एवं मन्वन्तराणां च सर्वेषामेव लक्षणम् / अतीतानागतानां वै वर्त्तिमानेन कीर्त्तितम्
如是,一切摩奴劫之相——过去与未来者——皆依现今而宣说。
Verse 175
इत्येष कीत्तितः सर्गो मनोः स्वायंभुवस्य ते / प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य च
如是,已为汝称说自生摩奴之创世;今我将述彼与后继者之间之衔接(sandhi)。
Verse 176
मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह / अवश्यभाविनार्थेन यथावद्विनिवर्त्तते
如同往昔,摩奴劫与诸仙及诸天同转;由不可避免之定法,依法终了而退去。
Verse 177
एतस्मिन्नन्तरे पूर्वं त्रैलाक्यस्ये श्वरास्तु ये / सप्तर्षयश्च देवाश्च पितरो मनवस्तथा
于此间隙,昔为三界之主者——七仙、诸天、祖灵(Pitṛ)与诸摩奴——皆在其中。
Verse 178
मन्वन्तरस्य काले तु संपूर्णे साधिके तदा / क्षीणे ऽधिकारे संविग्ना बुद्ध्वा पर्ययमात्मनः
当一个摩奴劫的时段圆满终了之时,权分既尽,她们觉知自身更替之理,心中惶然不安。
Verse 179
महर्लोकाय ते सर्वे उन्मुखा दधिरे मतिम् / ततो मन्वन्तरे तस्मिन्प्रक्षीणे देवतास्तु ताः
他们全都将心意转向摩诃尔洛迦;随后当那一摩奴劫渐趋衰尽之时,那些天神亦复如是。
Verse 180
संपूर्णेस्थितिकाले तु तिष्ठेदेकं कृतं युगम् / उत्पद्यन्ते भविष्यन्तो ये वै मन्वन्तरेश्वराः
在圆满的住世之时,一段克利多(圆满)劫安住不动;而将来作为摩奴劫之主者,亦于此时出生。
Verse 181
देवताः पितरश्चैव ऋषयो मनुरेव च / मन्वन्तरे तु संपूर्णे तद्वदन्ते कलौ युगे
诸天、祖灵(Pitṛ)、诸仙与摩奴自身——当摩奴劫圆满之际,他们在迦梨劫中亦如是宣说。
Verse 182
संपद्यते कृतं तेषु कलिशिष्टेषु वै तदा / यथा कृतस्य संतानः कलिपूर्वः स्मृतो बुधैः
于是,在迦梨之余残中,克利多劫的德相得以成就;因为智者记述:克利多之传续被称为“迦梨之前”。
Verse 183
तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च / क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः
同样地,在诸摩奴劫(Manvantara)将尽之时与新摩奴劫之初;当先前的摩奴劫已终结,而后一个又再度展开之际。
Verse 184
मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा / सप्तर्षयो मनुश्चैव कालापेक्षास्तु ये स्थिताः
随后在圆满纪(Kṛtayuga)之初,当时所存的清净贤者——七仙(Saptarṣi)与摩奴(Manu)——依时而住,等待时机。
Verse 185
मन्वन्तरप्रतीक्षास्ते क्षीयमाणास्तपस्विनः / मन्वन्तरोत्सवस्यार्थे संतत्यर्थे च सर्वदा
这些苦行者等待摩奴劫的到来,随旧时的消逝而渐渐衰减;恒常为摩奴劫的吉庆仪典,并为世系相续之故。
Verse 186
पूर्ववत्संप्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्जने / द्वन्द्वेषु संप्रवृत्तेषु उत्पन्नास्वौषधीषु च
当降雨的造化开始运行时,他们便如昔而行;寒与热等对待相续而起,药草与诸草木亦随之生长。
Verse 187
प्रजासु चानिकेतासु संस्थितासु क्वचित्क्वचित् / वार्त्तायां संप्रवृत्तायां धर्मे चैवोपसंस्थिते
而众生在某些地方暂处无家之境;当农耕与贸易等世业(vārttā)开展之时,正法亦随之临近而得以安立。
Verse 188
निरानन्दे चापि लोके नष्टे स्थावरजङ्गमे / अग्रामनगरे चैव वर्णाश्रमविवर्जिते
当世界失却喜乐,动与不动的众生尽毁,村落城邑皆无,种姓与住期(梵行等)之法亦被弃绝之时。
Verse 189
पूर्वमन्वन्तरे शिष्टा ये भवन्तीह धार्मिकाः / सप्तर्षयो मनुश्चैव संतानार्थं व्यवस्थिताः
在先前的摩奴劫中,此处那些守法的贤善之士,为了延续后裔,被安立为七圣仙与摩奴。
Verse 190
प्रजार्थं तपतां तेषां तपः परमदुश्चरम् / उत्पद्यन्ते हि पूर्वेषां निधनेष्विह पूर्ववत्
为众生之故而修苦行者,其苦行极其难行;当先前者灭尽之后,他们又如往昔一般在此再度出现。
Verse 191
देवासुराः पितृगणा ऋषयो मानुषास्तथा / सर्पा भूतपिशाचाश्च गन्धर्वा यक्षराक्षसाः
天神与阿修罗、祖灵众(Pitṛ)、圣仙与人类;蛇族、鬼魅与食尸鬼、乾闼婆、夜叉与罗刹。
Verse 192
ततस्तेषां तु ये शिष्टाः शिष्टाचारान्प्रजक्षते / सप्तर्षयो मनुश्चव ह्यादौ मन्वन्तरस्य हि
于是他们之中的贤善者宣说贤圣之行;因为在摩奴劫之初,七圣仙与摩奴确为最初的引导者。
Verse 193
प्रारभन्ते च कर्माणि मनुष्यो दैवतैः सह / ऋषीणां ब्रह्मचर्येण गत्वानृण्यं तु व तदा
众人偕同诸天而起行诸业;凭借诸仙的梵行之力,于彼时得脱一切神圣之债。
Verse 194
पितॄणां प्रजाया चैव देवानामिज्यया तथा / शतंवर्षसहस्राणां धर्मे वर्णात्मके स्थिताः
以奉祀祖灵、延续子嗣,并以祭礼敬奉诸天;他们安住于以种姓为体的法度,历经千千百年。
Verse 195
त्रयी वार्त्ता दण्डनीतिर्धर्मान्वर्णाश्रमांस्तथा / स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः
他们建立三吠陀、世业之道、刑政之法,并立种姓与四住期之法;又安置诸住期,而令其心志趋向天界。
Verse 196
पूर्वदेवेषु तेष्वेवं स्वर्गाया भिमुखेषु वै / पूर्वदेवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः
当那些上古诸天如此面向天界之时;于是他们便全然安住于法(达摩)之中。
Verse 197
मन्वन्तरे पुरावृत्ते स्थानान्युत्सृज्य सर्वशः / मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम्
当一劫之摩奴期既已过去,他们舍离一切住处;与诸真言同升而上,往至无病安泰的摩诃尔界。
Verse 198
विनिवृत्ताधिकारास्ते मानसीं सिद्धिमास्थिताः / अवेक्षमाणा वशिनस्तिष्ठन्त्या भूतसंप्लवात्
他们已离弃一切职权,安住于心灵成就;作为自制的行者,凝视众生溃灭之洪流而安然不动。
Verse 199
ततस्तेषु व्यतीतेषु पूर्वदेवेषु वै तदा / शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः
随后,当那些先前的诸天已逝之时,三界之中一切天座神位处处皆空。
Verse 200
उपस्थिता इहान्ये वै ये देवाः स्वर्गवासिनः / ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति च
此时,居于天界的其他诸神来到此处;随后他们以苦行之力充盈并安住于那些神位。
Primarily a sage/teacher lineage: the chapter catalogs Vedic transmitters (ācāryas) and their disciples, presenting an intellectual vaṃśa that explains how saṃhitās and schools multiply and persist.
It explicitly remembers large-scale diversification (e.g., ‘86’ Yajus saṃhitās in the sample) and depicts distribution to disciples, with subsequent variant-making and regional differentiation into multiple branches.
They are a class of Yajurvedic ritual specialists associated with a distinctive identity explained etiologically; the Ṛṣis ask for the cause and circumstances of their ‘caraka’ status, which Sūta answers as a tradition-history tied to place and communal ritual purpose.