Srimad Bhagavatam Adhyaya 42
Dashama SkandhaAdhyaya 4238 Verses

Adhyaya 42

Trivakrā’s Transformation and the Breaking of Kaṁsa’s Bow (Mathurā-līlā Prelude)

本章续述圣主奎师那与巴拉罗摩进入摩图罗:薄伽梵的临在立刻施放恩典,使甘萨的暴政动摇。王道之上,奎师那遇见甘萨的香膏调制者特里瓦克拉,向她索取芬芳膏油;她被圣容摄受而恭敬奉事。奎师那以慈恩抚正她的驼背,使其身形端直——这是poṣaṇa(神圣护佑)以及darśana与sparśa(得见并触及主)能转化众生的明证。特里瓦克拉情欲初醒而邀主前往,奎师那温和推迟,表明祂正迈向对治adharma之使命。继续前行,商贾礼敬,城中女子倾心爱慕,预示牧女们所言摩图罗将同蒙祝福。随后奎师那至弓祭场,举起王弓、张弦并折断之,击败来袭守卫;断弓巨响如雷,令甘萨惊惧,整夜被凶兆幻象缠扰。黎明时分,甘萨仓促筹备摔跤盛会,摔跤手与显贵齐集,为后续章节的竞技场决战铺陈舞台。

Shlokas

Verse 1

श्रीशुक उवाच अथ व्रजन् राजपथेन माधव: स्त्रियं गृहीताङ्गविलेपभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रसप्रद: ॥ १ ॥

圣舒迦提婆说道:当玛达瓦行走在王家大道上时,看见一位名叫库布佳的年轻驼背女子,面容姣好,手捧盛着芬芳膏香的盘器。赐予爱之甘露的主含笑向她询问。

Verse 2

का त्वं वरोर्वेतदु हानुलेपनंकस्याङ्गने वा कथयस्व साधु न: । देह्यावयोरङ्गविलेपमुत्तमंश्रेयस्ततस्ते न चिराद् भविष्यति ॥ २ ॥

主奎师那说道:“美腿的女子啊,你是谁?这香膏是为谁而备?请如实告诉我们。把你最上等的身香膏赐给我们二位,不久你必得大福与恩赐。”

Verse 3

सैरन्‍ध्र्युवाच दास्यस्म्यहं सुन्दर कंससम्मतात्रिवक्रनामा ह्यनुलेपकर्मणि । मद्भ‍ावितं भोजपतेरतिप्रियंविना युवां कोऽन्यतमस्तदर्हति ॥ ३ ॥

侍女答道:“俊美的尊者啊,我是迦ṁ萨王的侍女,因调制香膏之业而蒙他器重。我名特里瓦克拉。此香膏为博阇之主所极爱,除你们二位之外,还有谁配得?”

Verse 4

रूपपेशलमाधुर्यहसितालापवीक्षितै: । धर्षितात्मा ददौ सान्द्रमुभयोरनुलेपनम् ॥ ४ ॥

她被奎师那的容貌、风采、甜美、微笑、言语与目光所摄,心神荡漾;特里瓦克拉便为奎师那与巴拉罗摩二位慷慨奉上浓厚的香膏。

Verse 5

ततस्तावङ्गरागेण स्ववर्णेतरशोभिना । सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ ॥ ५ ॥

随后,二位主宰被那上等身香所涂抹;其色泽与他们的肤色相映成辉,更添庄严华美,于是二主显得格外俊丽动人。

Verse 6

प्रसन्नो भगवान्कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम् ॥ ६ ॥

主奎师那喜悦于面容秀美的驼背女特里瓦克拉,便起意将她扶正挺直,以示得见祂圣容之果报。

Verse 7

पद्‌भ्यामाक्रम्य प्रपदे द्‌व्यङ्गुल्युत्तानपाणिना । प्रगृह्य चिबुकेऽध्यात्ममुदनीनमदच्युत: ॥ ७ ॥

阿周陀主以双足按住她的脚趾,又以双手各一上举之指托住她的下颌,使她的身体挺直。

Verse 8

सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा । मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ ८ ॥

仅因穆昆达一触,特里瓦克拉立刻化为绝美佳人:四肢端直匀称,臀胯丰隆,胸乳饱满。

Verse 9

ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम् । उत्तरीयान्तमाकृष्य स्मयन्ती जातहृच्छया ॥ ९ ॥

随后,具足美貌、品德与慷慨的特里瓦克拉,对凯沙瓦生起情欲。她拉住他上衣的衣角,含笑对他说道。

Verse 10

एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे । त्वयोन्मथितचित्ताया: प्रसीद पुरुषर्षभ ॥ १० ॥

来吧,勇士,我们去我家;我无法忍受把你留在这里。至善的男子啊,求你怜悯我,因为你已搅动了我的心。

Verse 11

एवं स्त्रिया याच्यमान: कृष्णो रामस्य पश्यत: । मुखं वीक्ष्यानु गोपानां प्रहसंस्तामुवाच ह ॥ ११ ॥

那女子如此恳求时,奎师那先看了正注视此事的罗摩的脸,又看了牧童们的脸;随后他笑着对她答道。

Verse 12

एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् । साधितार्थोऽगृहाणां न: पान्थानां त्वं परायणम् ॥ १२ ॥

主奎师那说道:“眉目秀美的女子啊,待我成就所行之事,必定前往你家;那里能消解男子的忧惧。我们这些无家行旅,以你为至上归依。”

Verse 13

विसृज्य माध्व्या वाण्या ताम्व्रजन् मार्गे वणिक्पथै: । नानोपायनताम्बूलस्रग्गन्धै: साग्रजोऽर्चित: ॥ १३ ॥

以甘美之语辞别她后,至上主奎师那沿路前行。途中商贾以诸般恭敬供品——槟榔叶、花鬘与香料——礼拜他与其兄巴拉罗摩。

Verse 14

तद्दर्शनस्मरक्षोभादात्मानं नाविदन् स्त्रिय: । विस्रस्तवास:कवरवलया लेख्यमूर्तय: ॥ १४ ॥

见到奎师那,城中女子心里爱神被激荡而起;她们心神摇乱,竟忘了自己。衣裳、发辫与手镯皆散乱,伫立不动,宛如画中之像。

Verse 15

तत: पौरान् पृच्छमानो धनुष: स्थानमच्युत: । तस्मिन् प्रविष्टो दद‍ृशे धनुरैन्द्रमिवाद्भ‍ुतम् ॥ १५ ॥

随后不动主奎师那向城中人询问举行弓祭的场所。进入其间,他看见那张奇妙之弓,宛如因陀罗之弓一般。

Verse 16

पुरुषैर्बहुभिर्गुप्तमर्चितं परमर्द्धिमत् । वार्यमाणो नृभि: कृष्ण: प्रसह्य धनुराददे ॥ १६ ॥

那张极其华贵的弓由众人严密守护,并受恭敬供奉。尽管守卫阻拦,奎师那仍强行上前,将弓举起。

Verse 17

करेण वामेन सलीलमुद्‌धृतंसज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतोयथेक्षुदण्डं मदकर्युरुक्रम: ॥ १७ ॥

乌鲁克罗摩主以左手轻易举起大弓,顷刻之间当众上弦;随即猛力一拉,将弓从中折断,犹如狂喜的象折断甘蔗茎一般。

Verse 18

धनुषो भज्यमानस्य शब्द: खं रोदसी दिश: । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत् ॥ १८ ॥

弓断之巨响充满天地,传遍四方。坎萨闻之,顿生大恐惧。

Verse 19

तद् रक्षिण: सानुचरं कुपिता आततायिन: । गृहीतुकामा आवव्रुर्गृह्यतां वध्यतामिति ॥ १९ ॥

随即守卫们连同随从怒不可遏,执起兵器如凶徒般冲来,欲擒拿克里希纳及其同伴,围住高喊:“抓住他!杀了他!”

Verse 20

अथ तान्दुरभिप्रायान् विलोक्य बलकेशवौ । क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतु: ॥ २० ॥

见守卫们怀着恶意逼近,巴拉罗摩与凯沙瓦大怒,拾起断弓两截,开始击打,将他们纷纷打倒。

Verse 21

बलं च कंसप्रहितं हत्वा शालामुखात्तत: । निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पद: ॥ २१ ॥

又杀退坎萨派来的兵众之后,克里希纳与巴拉罗摩从竞技场正门走出;他们欢喜地漫步城中,观赏都城的富丽景象。

Verse 22

तयोस्तद् अद्भुतं वीर्यं निर्शाम्य पुरवासिनः । तेजः प्रागल्भ्यं रूपं च मनीरे विभुद्दोत्थौ ॥ २२ ॥

城中百姓目睹奎师那与巴拉罗摩的奇妙壮举,又见二位的力量、胆识与俊美,便以为他们必是两位显赫的天神。

Verse 23

तयोर्विचरतो: स्वैरमादित्योऽस्तमुपेयिवान् । कृष्णरामौ वृतौ गोपै: पुराच्छकटमीयतु: ॥ २३ ॥

二位随意游行之时,太阳渐渐西沉;于是奎师那与巴拉罗摩偕同牧童们离开城中,回到牧人车营。

Verse 24

गोप्यो मुकुन्दविगमे विरहातुरा याआशासताशिष ऋता मधुपुर्यभूवन् । सम्पश्यतां पुरुषभूषणगात्रलक्ष्मींहित्वेतरान् नु भजतश्चकमेऽयनं श्री: ॥ २४ ॥

当穆昆达(奎师那)离开弗林达文之时,因离别而痛苦的牧女们曾预言:摩图罗的居民将得诸多福祉。如今预言成真,因为他们正凝望那“人中宝”奎师那的身相之美。甚至吉祥天女室利(拉克希米)也渴望依止这份美丽,竟舍弃许多虽敬拜她的男子而趋向于他。

Verse 25

अवनिक्ताङ्‍‍‍‍‍घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ २५ ॥

为二位洗净双足后,两位主宰享用了牛奶拌饭。随后,尽管知晓康萨的企图,他们仍在那儿安然舒适地度过一夜。

Verse 26

कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥ २६ ॥ दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मति: । बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७ ॥

而邪恶的康萨听闻:戈文达与罗摩折断神弓,并将他的守卫与兵卒如同游戏般杀灭,便惊恐万分。他长久不眠;无论醒时或梦中,都见到许多凶兆,宛如死亡的使者。

Verse 27

कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥ २६ ॥ दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मति: । बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च ॥ २७ ॥

邪恶的甘萨听闻:戈文达——圣奎师那与巴拉罗摩——折断大弓,并将他的守卫与兵卒如同游戏般诛灭,便惊恐万分。他久不能眠;无论清醒或梦中,都见到许多凶兆,仿佛死亡的使者。

Verse 28

अदर्शनं स्वशिरस: प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥ छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुति: । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥ स्वप्ने प्रेतपरिष्वङ्ग: खरयानं विषादनम् । यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बर: ॥ ३० ॥ अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥

他照见自己的影像,却看不见头颅;又无缘无故,月与星都呈现双影。他见自己的影子仿佛有洞;听不见生命之气的声息;树木似披金辉;连自己的足迹也不见。梦中他被鬼魅拥抱,骑驴而行并饮下毒物;又见一裸身之人遍涂油脂,佩戴那罗陀花鬘走过。如此种种凶兆,梦中与醒时皆现,甘萨因死亡逼近而惊惧,忧虑之下终不能眠。

Verse 29

अदर्शनं स्वशिरस: प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥ छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुति: । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥ स्वप्ने प्रेतपरिष्वङ्ग: खरयानं विषादनम् । यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बर: ॥ ३० ॥ अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥

他见自己的影子仿佛有洞;听不见生命之气的声息;树木似披金辉;连自己的足迹也不见。甘萨将这一切视为预告死亡的凶兆。

Verse 30

अदर्शनं स्वशिरस: प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥ छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुति: । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥ स्वप्ने प्रेतपरिष्वङ्ग: खरयानं विषादनम् । यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बर: ॥ ३० ॥ अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥

梦中他被鬼魅拥抱,骑驴而行并饮下毒物;又见一裸身之人遍涂油脂,佩戴那罗陀花鬘走过。这些梦境更增甘萨对死亡的恐惧。

Verse 31

अदर्शनं स्वशिरस: प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ २८ ॥ छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुति: । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् ॥ २९ ॥ स्वप्ने प्रेतपरिष्वङ्ग: खरयानं विषादनम् । यायान्नलदमाल्येकस्तैलाभ्यक्तो दिगम्बर: ॥ ३० ॥ अन्यानि चेत्थं भूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ ३१ ॥

他在梦中与醒时都见到这般种种凶兆,甘萨因死亡将至而战栗恐惧。忧惧缠身,使他无法入睡。

Verse 32

व्युष्टायां निशि कौरव्य सूर्ये चाद्‌भ्य: समुत्थिते । कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ॥ ३२ ॥

当夜色已尽,哦俱卢后裔,太阳又从水中升起时,甘萨便着手筹办盛大的摔跤庆典。

Verse 33

आनर्चु: पुरुषा रङ्गं तूर्यभेर्यश्च जघ्निरे । मञ्चाश्चालङ्कृता: स्रग्भि: पताकाचैलतोरणै: ॥ ३३ ॥

王的侍从们为竞技场行祭礼,击响鼓与诸乐器,并以花环、旗帜、彩带与拱门装点看台。

Verse 34

तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमा: । यथोपजोषं विविशू राजानश्च कृतासना: ॥ ३४ ॥

城中与乡郊的民众在婆罗门与刹帝利的带领下,随意入座于看台;诸王宾客则被安排了尊位。

Verse 35

कंस: परिवृतोऽमात्यै राजमञ्च उपाविशत् । मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ ३५ ॥

甘萨在群臣簇拥下登上王座高台;然而即便坐在诸侯之间,他的心仍不由得战栗。

Verse 36

वाद्यमानेषु तूर्येषु मल्लतालोत्तरेषु च । मल्ला: स्वलङ्कृता: द‍ृप्ता: सोपाध्याया: समासत ॥ ३६ ॥

当乐器以适合摔跤的节拍高声奏响时,装饰华丽、神情骄矜的摔跤手们与教练一同入场就座。

Verse 37

चाणूरो मुष्टिक: कूट: शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिता: ॥ ३७ ॥

在悦耳乐声的鼓舞下,恰努罗、穆什提迦、库塔、沙拉与托沙拉来到摔跤场,坐在比武垫上。

Verse 38

नन्दगोपादयो गोपा भोजराजसमाहुता: । निवेदितोपायनास्त एकस्मिन्मञ्च आविशन् ॥ ३८ ॥

应婆阇王召唤,难陀大王等牧民献上礼物后,进入一处看台就座。

Frequently Asked Questions

Trivakrā is Kaṁsa’s maidservant and ointment-maker. Kṛṣṇa straightens her hunchback to demonstrate the tangible fruit of contact with Bhagavān—darśana and sparśa purify and transform. On a theological level, the act signifies poṣaṇa (the Lord’s gracious upliftment of a socially marginal figure) and shows that divine beauty and mercy can reorder both the external body and the internal disposition.

The text presents her desire as kāma arising from Kṛṣṇa’s beauty, yet within the Bhāgavata framework even materially tinged attraction can become a doorway to grace when directed toward the Lord. Commentarial traditions often distinguish between ordinary lust and desire that becomes purified by its object (Bhagavān), emphasizing that Kṛṣṇa remains self-controlled and purposeful, offering kindness without becoming bound by the interaction.

Narratively, breaking the bow is a deliberate provocation and a public declaration that Kaṁsa’s regime is nearing its end; it also demonstrates Kṛṣṇa’s effortless supremacy (aiśvarya). Symbolically, it represents the shattering of adharma upheld by state power and ritual prestige. The bow—guarded and worshiped—becomes an emblem of tyrannical authority, which Kṛṣṇa dismantles as a prelude to restoring righteous order.

The omens function as Purāṇic narrative markers of imminent daiva (destiny) and niyati (inevitability) when adharma reaches its limit. Kaṁsa’s disturbed perception—missing head in reflection, doubled luminaries, holes in shadow—signals the collapse of his worldly security and the approach of death as a moral consequence. The Bhāgavata uses such nimittas to show that the cosmos itself reacts when the Lord’s corrective līlā is about to manifest.

It transitions from Kṛṣṇa’s arrival and public reception to the formal arena setting engineered by Kaṁsa. The bow-breaking triggers Kaṁsa’s fear and accelerates preparations for the wrestling festival, while the assembly of wrestlers (Cāṇūra, Muṣṭika, etc.) and the seating of Nanda and the Vraja cowherds positions all key participants for the impending confrontation and Kaṁsa’s downfall.

Read Srimad Bhagavatam in the Vedapath app

Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.

Continue reading in the Vedapath app

Open in App