
Āgneya-Purāṇa-māhātmya (The Greatness and Self-Testimony of the Agni Purāṇa)
本章先结束前一章“阎摩歌”(Yama-gītā),随即宣示《阿耆尼往世书》为梵之形相(brahmarūpa)、广大殊胜(mahān),具足二种智(vidyādvaya):关于显现世间秩序(saprapañca)与超越无相境界(niṣprapañca)的教导。阿耆尼详列其百科全书式内容:吠陀及诸辅学、法典(Dharmaśāstra)、因明与弥曼萨(Nyāya–Mīmāṃsā)、阿育吠陀、治国政略、武艺与表演艺术,并分明区分下智(aparā vidyā,诸学门类)与上智(parā vidyā,证悟至上不坏之字 Akṣara)。继而转入以毗湿奴奉爱(Viṣṇu-bhakti)为实践精髓:敬信并禅观 Govinda/Keśava 能灭罪、消弭迦梨时代之苦,并界定真实的禅修(dhyāna)、圣传讲述(kathā)与正业(karma)。随后 māhātmya 段强调:听闻、诵读、书写、供奉、布施,乃至将此书安置家中,皆具护佑与净化功德;并说明随季节而异的福德,以及对诵者应行的仪式尊礼。传承话语(阿耆尼→婆悉吒→毗耶娑→苏多)重申其与吠陀相应,融会入世与出世之法(pravṛtti 与 nivṛtti),许以受用(bhukti)与解脱(mukti),终以奥义书式偈语作结:“当知一切皆是梵(Brahman)。”
Verse 1
इत्य् आग्नेये महापुराणे यमगीता नामैकाशीत्यधिकत्रिशततमो ऽध्यायः अथ द्व्यशीत्यधिकत्रिशततमो ऽध्यायः आग्नेयपुराणमाहात्म्यं अग्निर् उवाच आग्नेयं ब्रह्मरूपन्ते पुराणं कथतं मया सप्रपञ्चं निष्प्रपञ्चं विद्याद्वयमयं महत्
至此,在《阿耆尼大往世书》中,名为“阎摩歌”的第三百八十一章告终。今起第三百八十二章,论“《阿耆尼往世书》的功德与伟大”。阿耆尼说道:“我已为你们宣说阿耆尼往世书;其体性即梵(Brahman),广大而崇高,具足二重之智:含摄显现世界之教(saprapañca),与超越一切显现之教(niṣprapañca)。”
Verse 2
ऋग्यजुःसामाथर्वाख्या विद्या विष्णुर्जगज्जनिः छन्दः शिक्षा व्याकरणं निघण्टुज्योतिराख्यकाः
称为《梨俱》《夜柔》《娑摩》《阿闼婆》的吠陀诸学皆为知识;毗湿奴为世界之生起者。(又包括)Chandas(韵律学)、Śikṣā(语音学)、Vyākaraṇa(语法学),以及名为 Nighaṇṭu(词汇/辞书学)与 Jyotiṣa(星辰之学、天文占星)的诸科。
Verse 3
निरुक्तधर्मशास्त्रादि मीमांसान्यायविस्तराः आयुर्वेदपुराणाख्या धनुर्गन्धर्वविस्तराः
亦(论及)Nirukta(语源释义)与诸《法论》(Dharmaśāstra)等相关学科;广博的弥曼萨(Mīmāṃsā)与正理(Nyāya)体系;阿育吠陀(Āyurveda)与所谓诸往世书(Purāṇa);并详述弓术之学(Dhanurveda)与乾闼婆乐舞之学(Gandharvaveda)。
Verse 4
विद्या सैवार्थशास्त्राख्या देवान्तान्या हरिर्महान् इत्येषा चापरा विद्या परिविद्याक्षरं परं
名为 Arthaśāstra(治国与政略之学)的亦是知识;而另一种知识,以诸神为归趣,宣示:“诃利(毗湿奴)为至大、为至尊。”因此,这些皆属下等之学(aparā);但若圆满了知至上的不坏者(Akṣara),便得更高的证悟。
Verse 5
यस्य भावो ऽखिलं विष्णुस्तस्य नो बाधते कलिः अनिष्ट्वा तु महायज्ञानकृत्वापि पितृस्वधां
若有人内心一切情志全然安住于毗湿奴(Viṣṇu),则迦梨(Kali)不能加害于他。即使不行大祭(mahā-yajña),亦不向祖灵皮特利(Pitṛs)奉献祖先供献(svadhā),他仍不为迦梨之力所伤。
Verse 6
कृष्णमभ्यर्चयन्भक्त्या नैनसो भाजनं भवेत् सर्वकारणमत्यन्तं विष्णुं ध्यायन्न सीदति
以虔敬(bhakti)礼拜黑天(Kṛṣṇa)者,不成为罪业之器。观想毗湿奴(Viṣṇu)——万有之究竟因——则不堕忧苦与败亡。
Verse 7
अन्यतन्त्रादिदोषोत्थो विषयाकृष्टमानसः कृत्वापि पापं गोविन्दं ध्यायन्पापैः प्रमुच्यते
即使其心被诸境牵引,因他宗等迷误而生过失之人——纵然造罪——若观想戈文达(Govinda),亦得解脱诸罪。
Verse 8
तद्ध्यानं यत्र गोविन्दः स कथा यत्र केशवः तत् कर्म यत्तदर्थीयं किमन्यैर् बहुभाषितैः
唯有以戈文达(Govinda)为所缘者,方名为禅观;唯有以凯沙瓦(Keśava)为主题者,方名为圣教之谈。唯有为彼而作之业,方名为行——何必再多言他事?
Verse 9
न तत् पिता तु पुत्राय न शिष्याय गुरुर्द्विज परमार्थं परं ब्रूयाद्यदेतत्ते मयोदितं
噫,二生者(dvija)!父不当向子泄露此事,师亦不当向弟子宣说。此我对汝所说之至上真义——究竟义(paramārtha)——不应轻易宣扬。
Verse 10
संसारे भ्रमता लभ्यं पुत्रदारधनं वसु सुहृदश् च तथैवान्ये नोपदेशो द्विजेदृशः
对在轮回世间漂泊者而言,子女、妻室、财富、资具、友人等皆可得;唯有出自如“二生者”(通达法义之贤者)的真实教诲与指引,难以获得。
Verse 11
किं पुत्रदारैर् मित्रैर् वा किं मित्रक्षेत्रवान्धवैः उपदेशः परो वन्धुरीदृशो यो विमुक्तये
子女与妻室有何用?朋友又有何用?朋友、田土与亲族又有何用?能令人成就解脱(mokṣa)的此类正教,才是真正至上的亲眷。
Verse 12
द्विविधो भूतमार्गीयं दैव आसुर एव च विष्णुभक्तिपरो दैवो विपरीतस् तथासुरः
随轮回之道而行的众生有两类:天类与阿修罗类。天类以对毗湿奴(Viṣṇu)的奉爱(bhakti)为本;阿修罗类则与此相反。
Verse 13
एतत् पवित्रमारोग्यं धन्यं दुःस्वप्ननाशनं सुखप्रीतिकरं नॄणां मोक्षकृद्यत्तवेरितं
此教言清净而赐健康,吉祥,能灭除恶梦,令众人得安乐与欢喜;诚然,你所宣说者乃成就解脱之因。
Verse 14
येषां गृहेषु लिखितमाग्नेयं हि पुराणकं पुस्तकं स्थास्यति सदा तत्र नेशुरुपद्रवाः
凡家中恒常供奉并保存书写成册的《阿耆尼耶往世书》(Agneya Purāṇa)者,其处不生扰患与灾厄。
Verse 15
किं तीर्थैर् गोप्रदानैर् वा किं यज्ञैः किमुपोषितैः आग्नेयं ये हि शृण्वन्ति अहन्यहनि मानवाः
何必再求朝圣之地,或施赠乳牛?何必再行祭祀,或修持斋戒?凡人若日日聆听《阿耆尼往世书》,又何须别的行持?
Verse 16
ये ददाति तिलप्रस्थं सुवर्णस्य च माषकं शृणोति श्लोकमेकञ्च आग्नेयस्य तदाप्नुयात्
凡施与一钵(prastha)芝麻与一铢(māṣaka)黄金,并且聆听《阿耆尼往世书》哪怕一偈者,即得同等功德。
Verse 17
अध्यायपठनञ्चास्य गोप्रदानाद् विशिष्यते अहोरात्रकृतं पापं श्रोतुमिच्छोः प्रणश्यति
诵读此章,功德甚至胜过施赠一牛;凡欲听闻者,一昼一夜所作之罪皆得灭除。
Verse 18
कपिलानां शते दत्ते यद् भवेज्ज्येष्ठपुष्करे तदाग्नेयं पुराणं हि पठित्वा फलमाप्नुयात्
在阇耶什吒·普什迦罗(Jyeṣṭha-Puṣkara)施赠一百头黄褐色母牛(kapilā)所得之功德,诵读《阿耆尼往世书》亦能获得同等果报。
Verse 19
प्रवृत्तञ्च निवृत्तञ्च धर्मं विद्याद्वयात्मकं आग्नेयस्य पुराणस्य शास्त्रस्यास्य समं न हि
当知法(dharma)具二重体性:趋入世间之行(pravṛtti)与出离退舍之行(nivṛtti)。诚然,此《阿耆尼往世书》之教典,无有与之等同者。
Verse 20
पठन्नाग्नेयकं नित्यं शृण्वन् वापि पुराणकं भक्तो वशिष्ठ मनुजः सर्वपापैः प्रमुच्यते
噢,婆悉吒(Vasiṣṭha),虔信之人若恒常诵读《阿耆尼耶》(《火神往世书》),或仅聆听此往世书,亦能彻底解脱一切罪业。
Verse 21
नोपसर्गा न चानर्था न चौरारिभयं गृहे तस्मन् स्याद् यत्र चाग्नेयपुराणस्य हि पुस्तकं
凡家中安置《阿耆尼耶往世书》之书卷者,其宅无灾厄、无不祥,亦无盗贼与仇敌所致之恐惧。
Verse 22
न गर्भहारिणीभीतिर्न च बालग्रहा गृहे यत्राग्नेयं पुराणं स्यान्न पिशाचादिकं भयं
凡家中有《阿耆尼耶往世书》者,不惧夺胎之恶灵(garbhahāriṇī),不受攫童之灵(bāla-graha)侵扰,亦无畏毗舍遮(piśāca)等类鬼魅。
Verse 23
शृण्वन्विप्रो वेदवित् स्यात् क्षत्रियः पृथिवीपतिः ऋद्धिं प्राप्नोति वैश्यश् च शूद्रश्चारोग्यमृच्छति
由聆听此教法,婆罗门得成知吠陀者;刹帝利得为大地主宰;吠舍得获富饶兴盛;首陀罗则得安康无病。
Verse 24
यः पठेत्शृणुयान्नित्यं समदृग्विष्णुमानसः ब्रह्माग्नेयं पुराणं सत्तत्र नश्यन्त्युपद्रवाः
凡能日日诵读或聆听此神圣《梵—阿耆尼耶往世书》者,心怀平等之见,意念归依毗湿奴;于其处,一切扰患与灾难悉皆灭除。
Verse 25
दिव्यान्तरीक्षभौमाद्या दुःस्वप्नाद्यभिचारकाः यच्चान्यद्दुरितं किञ्चित्तत्सर्वं हन्ति केशवः
凯沙瓦(Keśava)摧灭一切有害之力:无论源自天界、空际中界,或地界;包括恶梦与巫术咒害(abhicāra)。凡其余诸罪与不祥,皆为彼尽除。
Verse 26
पठतः शृण्वतः पुंसः पुस्तकं यजतो महत् आग्नेयं श्रीपुराणं हि हेमन्ते यः शृणोति वै
凡人诵读或聆听此典,并以隆重之礼敬奉此书者;于寒季(hemanta,冬时)聆听尊贵的《阿耆尼耶·吉祥往世书》者,实得广大法德功德。
Verse 27
प्रपूज्य गन्धपुष्पाध्यैर् अग्निष्टोमफलं लभेत् शिशिरे पुण्डरीकस्य वसन्ते चाश्वमेधजम्
以丰盛香料与花鬘如法供养者,得与阿耆尼什托摩(Agniṣṭoma)祭同等之功德;于湿湿罗(śiśira,严冬)得本陀利迦(Puṇḍarīka)仪轨之果;于春季(vasanta)则得马祭(Aśvamedha)所生之福。
Verse 28
ग्रीष्मे तु वाजपेयस्य राजसूयस्य वर्षति गोसहस्रस्य शरदि फलं तत्पठतो ह्य् ऋतौ
然于夏季(grīṣma)诵之,其功德等同婆阇佩耶(Vājapeya)祭;雨季(varṣā)等同王者苏耶(Rājasūya)祭;秋季(śarad)其果报等同施舍千牛——此即依时诵读者之季节功德。
Verse 29
आग्नेयं हि पुराणं यो भक्त्याग्रे पठेते हरेः सो ऽर्चयेच्च वसिष्ठेह ज्ञानयज्ञेन केशवम्
噫,婆悉吒(Vasiṣṭha)!凡以虔信先行诵读哈利(Hari)之《阿耆尼耶往世书》者,即于此世以“智祭”(jñāna-yajña,知识之祭)真实礼敬凯沙瓦(Keśava)。
Verse 30
यस्याग्नेयपुराणस्य पुस्तकं तस्य वै जयः लिखितं पूजितं गेहे भुक्तिर्मुक्तिः करे ऽस्ति हि
凡持有《阿格尼耶往世书》之书者,确能得胜。若在家中誊写并供奉礼拜,则世间福乐与究竟解脱(mokṣa)实如握于掌中。
Verse 31
इति कालाग्निरूपेण गीतं मे हरिणा पुरा आग्नेयं हि पुराणं वै ब्रह्मविद्याद्वयास्पदम् विद्याद्वयं वसिष्ठेदं भक्तेभ्यः कथयिष्यसि
如是,往昔哈利以“时与火”(迦罗-阿格尼,Kāla-Agni)之形为我歌咏此义。诚然,《阿格尼耶往世书》乃梵(Brahman)之二重智的住处。噢,婆悉吒(Vasiṣṭha),你将向诸信众阐明这二重之智。
Verse 32
वसिष्ठ उवाच व्यासाग्नेयपुराणं ते रूपं विद्याद्वयात्मकं कथितं ब्रह्मणो विष्णोरग्निना कथितं यथा
婆悉吒说道:“噢,毗耶娑,你所宣说的《阿格尼耶往世书》——当知其体性由二重之智所成。它被传为出自梵天(Brahmā)与毗湿奴(Viṣṇu),正如阿格尼(Agni)所教示的方式。”
Verse 33
सार्धं देवैश् च मुनिभिर्मह्यं सर्वाथदर्शकं पुराणमग्निना गौतमाग्नेयं ब्रह्मसन्मितं
与诸天与诸仙同在时,阿格尼将“乔多摩—阿格尼耶往世书”传授于我;此往世书能照见一切宗旨与一切题目,被认为与梵(Brahman,至上真理)相契。
Verse 34
यः पठेच्छृणुयाद्ध्यास लिखेद्वा लेखयेदपि श्रावयेत्पाठयेद्वापि पूजयेद्धारयेदपि
凡诵读者,或聆听者,或以专注之心研习者;或自书写者,或令他人书写者;或使人得闻者,或使人诵读讲授者;或供奉礼拜者,或甚至随身佩持者——
Verse 35
सर्वपापविनिर्मुक्तः प्राप्रकामो दिवं व्रजेत् लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं
脱离一切罪业并圆满所愿者,得往天界——即那使人誊写(或亲自抄写)《普拉那》,并将此上妙写本施与婆罗门圣贤之人。
Verse 36
स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् एकं श्लोकं पठेद्यस्तु पापपङ्काद्विमुच्यते
他得至梵天界(Brahmaloka),并能超度其族系百代。然而,凡诵读哪怕一偈者,亦能从罪垢之泥淖中解脱。
Verse 37
तस्माद्व्यास सदा श्राव्यं शिष्येभ्यः सर्वदर्शनं शुकाद्यैर् मुनिभिः सर्धं श्रोतुकामैः पुराणकं
因此,噢毗耶娑,此《普拉那》—综摄诸见、通达一切法门—应当常为弟子宣诵;并与舒迦等牟尼及诸欲闻之圣仙同听此普拉那。
Verse 38
आग्नेयं पठितं ध्यातं शुभं स्याद् भुक्तिमुक्तिदं अग्नये तु नमस्तस्मै येन गीतं पुरानकं
《阿耆尼耶普拉那》若得诵读并观想思惟,即成吉祥,能赐世间受用与解脱(mukti)二者。诚敬礼彼火神阿耆尼,正由其而歌咏此古老普拉那。
Verse 39
व्यास उवाच वसिष्ठेन पुरा गीतं सूतैतत्ते मयोदितं पराविद्यापराविद्यास्वरूपं परमं पदम्
毗耶娑曰:噢苏多,我今已向你宣说此义——昔日由婆悉吒所歌咏者——即上智(parā-vidyā)与下智(aparā-vidyā)的真实体性,以及至上之境、最高归趣。
Verse 40
आग्नेयं दुर्लभं रूपं प्राप्यते भाग्यसंयुतैः ध्यायन्तो ब्रह्म चाग्नेयं पुराणं हरिमागताः
稀有的阿格尼耶(Agneya)之相,唯有具足善福者方能证得。观想梵(Brahman)并忆念《阿格尼耶往世书》,彼等得至诃利(毗湿奴)。
Verse 41
विद्यार्थिनस् तथा विद्यां राज्यं राज्यार्थिनो गताः अपुत्राः पुत्रिणः सन्ति नाश्रया आश्रयं गताः
求学者得学;求王权者得国。无子者得子;无依者得依止之所。
Verse 42
सौभाग्यार्थी च सौभाग्यं मोक्षं मोक्षार्थिनो गताः लिखन्तो लेखयन्तश् च निष्पापश् च श्रियं गताः
求福者得福;求解脱者得解脱。书写此文者与令他人书写者,皆离罪垢而得吉祥与富饶。
Verse 43
शुकपैलमुखैः सूत आग्नेयन्तु पुराणकं रूपं चिन्तय यातासि भुक्तिं मुक्तिं न संशयः
噢,苏多(Sūta),当观想此《阿格尼耶往世书》之形相,此法由舒迦(Śuka)与派罗(Paila)口传而来;你必得世间受用与解脱二者——毫无疑惑。
Verse 44
श्रावय त्वञ्च शिष्येभ्यो भक्तेभ्यश् च पुराणकम् सूत उवाच व्यास प्रसादादाग्नेयं पुराणं श्रुतमादरात्
“你也应令此往世书为弟子与信众诵读。”苏多说道:“承毗耶娑(Vyāsa)之恩,我以恭敬之心聆听了《阿格尼往世书》。”
Verse 45
आग्नेयं ब्रह्मरूपं हि मुनयः शौनकादयः भवन्तो नैमिषारण्ये यजन्तो हरिमीश्वरं
诚然,诸位圣贤——首那迦等——在奈弥沙林中行祭时,礼敬哈利这位自在主;他具“阿格涅耶”(火性、属阿耆尼)之德,其形相即是梵(Brahman)本身。
Verse 46
तिष्ठन्तः श्रद्धया युक्तास्तस्माद्वः समुदीरितम् अग्निना प्रोक्तमाग्नेयं पुराणं वेदसम्मितं
因此,你们以信心坚住不移,我便向你们宣说:此《阿格涅耶往世书》,由阿耆尼所宣讲,完全与诸吠陀相契。
Verse 47
ब्रह्मविद्याद्वयोपेतं भुक्तिदं मुक्तिदं महत् नास्मात्परतरः सारो नास्मात्परतरः सुहृत्
此经具足二重梵智,广大殊胜,能赐世间受用(bhukti)与解脱(mukti)。除此之外无更高之精髓,除此之外亦无更大的施惠者。
Verse 48
नास्मात्परतरो ग्रन्थो नास्मात्परतरो गतिः नास्मात्परतरं शास्त्रं नास्मात्परतरा श्रुतिः
无有经书胜过此者;无有更高的归依与究竟胜过此者。无有更大的教典体系(śāstra)胜过此者;亦无有更高的圣启传统(Śruti)胜过此者。
Verse 49
नास्मात्परतरं ज्ञानं नास्मात्परतरा स्मृतिः नास्मात्परो ह्य् आगमो ऽस्ति नास्माद्विद्या परास्ति हि
无有知识高过此者;无有《忆传》(Smṛti)高过此者。诚然,无有更胜的阿伽摩(Āgama),亦确无更大的明学(Vidyā)。
Verse 50
नास्मात्परः स्यात्सिद्धन्तो नास्मात्परममङ्गलम् नास्मात्परो ऽस्ति वेदान्तः पुराणं परमन्त्विदं
没有比此更高的教义;没有比此更大的吉祥。没有任何吠檀多能超越此;诚然,此《往世书》至为无上。
Verse 51
नास्मात्परतरं भूमौ विद्यते वस्तु दुर्लभम् आग्नेये हि पुराणे ऽस्मिन् सर्वविद्याः प्रदर्शिताः
在大地之上,再无比此更为稀有之物;因为在此《阿耆尼往世书》中,一切学艺诸支皆已昭示。
Verse 52
सर्वे मत्स्यावताराद्या गीता रामायणन्त्विह हरिवंशो भारतञ्च नव सर्गाः प्रदर्शिताः
于此,凡自摩蹉(Matsya)化身起的一切叙事,以及《薄伽梵歌》、 《罗摩衍那》、 《哈利वं沙》、 《婆罗多》,并九种主要创生/分章(nava-sarga),皆已陈述。
Verse 53
आगमो वैष्णवो गीतः पूजादीक्षाप्रतिष्ठया पवित्रारोहणादीनि प्रतिमालक्षणादिकं
此处宣说了毗湿奴派之阿伽摩(Vaiṣṇava Āgama)——涵摄礼拜供养、灌顶入门(dīkṣā)与安置开光(pratiṣṭhā);并及举设 pavitra(圣线/圣花鬘)等仪轨与诸行持,以及圣像(pratimā)之相好特征与相关细目。
Verse 54
प्रासादलक्षणाद्यञ्च मन्त्रा वै भुक्तिमुक्तिदाः शैवागमस्तदर्थश् च शाक्तेयः सौर एव च
诸咒法自寺庙殿堂(prāsāda)之相状等起,实能赐予世间受用(bhukti)与解脱(mukti)。其旨趣在湿婆派阿伽摩(Śaiva Āgama)中阐明,亦同样见于性力派(Śākta)与太阳派(Saura)诸阿伽摩。
Verse 55
मण्डलानि च वास्तुश् च मन्ताणि विविधानि च प्रतिसर्गश्चानुगीतो ब्रह्माण्डपरिमण्डलं
经中亦叙述了曼荼罗(仪式图式)、婆娑都/瓦斯图(建筑之学)、种种真言,以及再生再造之理(pratisarga);并同样说明了梵卵(brahmāṇḍa,宇宙之卵)的形相与量度范围。
Verse 56
गीतो भुवनकोषश् च द्वीपवर्षादिनिम्नगाः गयागङ्गाप्रयागादि तीर्थमाहात्म्यमीरितं
由是已述及布婆那拘舍(bhuvanakośa,宇宙地理)、诸洲与诸域、江河等类;并且也宣说了圣地朝礼处(tīrtha)的功德与伟大,如伽耶、恒河与普罗耶伽等。
Verse 57
ज्योतिश् चक्रं ज्योतिषादि गीतो युद्धजयार्णवः मन्वन्तरादयो गीताः धर्मा वर्णादिकस्य च
经中歌咏了《占星之轮》(Jyotiṣa-cakra),以及以占星学(Jyotiṣa)为首的诸学科;亦歌咏《战争胜利之海》(Yuddha-jayārṇava);又歌咏诸摩奴劫(Manvantara)及相关主题;并歌咏关于四姓(varṇa)等社会阶序之法与义务。
Verse 58
अशौचं द्रव्यशुद्धिश् च प्रायश्चित्तं प्रदर्शितं राजधर्मा दानधर्मा व्रतानि विविधानि च
经中阐明了不净(aśauca)、财物与所有物之净化,以及赎罪忏悔之仪(prāyaścitta);并同样开示了王法之责(rājadharma)、布施之法(dānadharma)与种种誓戒苦行(vrata)。
Verse 59
व्यवहाराः शान्तयश् च ऋग्वेदादिविधानकं सूर्यवंशः सोमवंशो धनुर्वेदश् च वैद्यकं
亦叙述了诉讼与法度之程序(vyavahāra)及息灾安抚之仪(śānti);并述及以《梨俱吠陀》为首的诸般规制;太阳王系(Sūryavaṃśa)与月亮王系(Somavaṃśa);以及《弓术吠陀》(Dhanurveda,兵器武艺)与医方(Vaidyaka,阿育吠陀医学)。
Verse 60
गान्धर्ववेदो ऽर्थशास्त्रं मीमांसा न्यायविस्तरः पुराणसंख्यामाहत्म्यं छन्दो व्यकरणं स्मृतं
亦被忆念为诸学支者有:乾闼婆吠陀(音乐与表演之学)、《阿尔塔沙斯特拉》(治国与政略)、弥曼萨(吠陀诠释学)、广大的正理派体系(逻辑学)、诸《往世书》的编目与赞颂、韵律学(Chandas),以及语法学(Vyākaraṇa)。
Verse 61
अलङ्कारो विघण्डुश् च शिक्षाकल्प इहोदितः स्मृतः नैमित्तिकः प्राकृतिको लय आत्यन्तिकः
此处已述及阿兰迦罗(修辞学)与毗伽ṇḍu,并说到《尸迦沙—劫波》(Śikṣā-kalpa)。溶解/归寂(laya)被忆念为三类:因缘性的(naimittika)、自然/元素性的(prākṛtika)、以及绝对终极的(ātyantika)。
Verse 62
वेदान्तं ब्रह्मविज्ञानं योगो ह्य् अष्टाङ्ग ईरितः स्तोत्रं पुराणमाहात्म्यं विद्या ह्य् अष्टादश स्मृताः
吠檀多(Vedānta)、证知梵(Brahman)之学,以及被宣说为八支的瑜伽(aṣṭāṅga),并诸赞颂偈(stotra)与《往世书》功德之赞扬:这些都被忆念为十八种学支(vidyā)之一部分。
Verse 63
ऋग्वेदाद्याः परा ह्य् अत्र पराविद्याक्षरं परं सप्रपञ्चं निष्प्रपञ्चं ब्रह्मणो रूपमीरितं
此处说《梨俱吠陀》及其余诸吠陀为较高之学(apara)。然而,至上且不坏之学(akṣara)——胜义智(Parāvidyā)——被宣说为梵(Brahman)之形相:既具显现之相(saprapañca),亦超越一切显现(niṣprapañca)。
Verse 64
इदं पञ्चदशसोहस्रं शतकोटिप्रविस्तरं देवलोके दैवतैश् च पुराणं पठ्यते सदा
此《往世书》由一万五千颂组成,而其详尽铺陈之广,至于百俱胝(koṭi)。在天界(Devaloka),诸天亦恒常诵读此《往世书》。
Verse 65
लोकानां हितकामेन संक्षिप्योद्गीतमग्निना सर्वं ब्रह्मेति जानीध्वं मुनयः शौनकादयः
为诸世界之利益,火神阿耆尼略说而歌曰:“当知一切皆是梵(Brahman)。”噢诸牟尼——首那迦等。
Verse 66
शृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि लिखेल्लेखापयेद्वापि युजयेत्कीर्तयेदपि
凡听闻(此普罗那教法)者,或令他人得闻者;凡诵读者,或令他人诵读者;凡书写者,或令他人书写者;凡奉行其实践者,或高声宣扬称颂者——皆得所说之法功德。
Verse 67
पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः गोभूहिरण्यदानाद्यैर् वस्त्रालङ्कारतर्पणैः
并且国王当自持谨慎,礼敬诵读《普罗那》者——以牛、田地、黄金等布施,并以衣服、饰物及怛尔帕那(tarpaṇa,仪式性满足供养)等供献。
Verse 68
तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं पुराणान्ते च वै कुर्यादवश्यं द्विजभोजनं
如法恭敬供养彼人,便确实获得听闻《普罗那》所生之圆满功德;并且在《普罗那》终了之时,务必行供食婆罗门(再生族,dvija)之仪。
Verse 69
निर्मलः प्राप्तसर्वार्थः सकुलः स्वर्गमाप्नुयात् शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं
既得清净,复成就一切所求,彼人—与其家族同在—得至天界。(为成书当备)缚册之具 śarayantra、线绳,以及叶页(折叶、folio)之聚集。
Verse 70
पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् यो दद्याद्ब्रह्मलोकी स्यात् पुस्तकं यस्य वै गृहे
凡布施衣服等物——如带系带或扣结的布帛——者,得生天界。凡施舍经典书卷者,得住梵天世界;诚然,家中安置圣典之人,实为有福。
Verse 71
तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् यूयं समरत चाग्नेयं पुराणं रूपमैश्वरं सूतो गतः पुजितस्तैः शौनकाद्या हरिं यायः
对他而言,不再畏惧凶兆(乌波塔,utpāta);他既得世间受用,亦得解脱。汝等当忆念《阿耆尼耶往世书》(Agneya Purāṇa),此即主宰神威之形相。其后,苏多在众人礼敬中离去;绍那迦等诸贤前往诣见哈利(毗湿奴)。
A structured taxonomy of knowledge: Vedas and Vedāṅgas (Śikṣā, Chandas, Vyākaraṇa, Nirukta/Nighaṇṭu, Jyotiṣa), plus śāstric systems (Nyāya, Mīmāṃsā, Dharmaśāstra), applied sciences (Ayurveda, Arthaśāstra, Dhanurveda, Gandharvaveda), and ritual-architectural domains (Āgamas, Pratimā-lakṣaṇa, Prāsāda-lakṣaṇa, Vāstu, Maṇḍala).
It defines parāvidyā as realization of the supreme Akṣara while positioning aparā disciplines as supportive; it then centers practice on Viṣṇu-bhakti—meditation on Govinda/Keśava—as the unifying sādhanā that purifies sin, protects from Kali, and culminates in bhukti and mukti.
Yes. It repeatedly asserts no text, doctrine, knowledge, or refuge is higher, while also claiming Veda-concordance (veda-sammita) and presenting the Purāṇa as an all-aim illuminator (sarvārtha-darśaka).