
Śāva-āśauca and Sūtikā-śauca: Death/Childbirth Impurity, Preta-śuddhi, and Śrāddha Procedure (Chapter 157)
本章系统整理《法论》关于因死亡(śāva)与分娩(sūtikā)而生之不净(aśauca)规条:先以同族亲属(sapinda)为纲,依种姓(varṇa)与情境分级规定不净期限。继而细辨例外:按年龄(婴儿/三岁以下/三岁以上/六岁以上)、按妇女身份(是否行过 cūḍā;已婚妇女与父系亲属之关系)、以及死讯迟至(计算剩余日数;若十夜已过则仅守三夜)。又扩及亡灵净化(preta-śuddhi)与 śrāddha 实修:供奉 piṇḍa、分配器皿、诵念 gotra-nāma、规定仪式度量,并为苏摩(Soma)、阿耆尼(Agni/Vahni)与阎摩(Yama)燃起三火,依次行供。并记闰月(adhimāsa)等历法变通与完成方式(如十二日内毕),继述年年应行之 śrāddha 及其义理:无论亡者死后处境如何,皆得其益。末列 nāśauca(不受不净)之若干情形(某些暴死或非常死),并令性交后或触及火葬烟气即刻沐浴,规定何人可处理二次生(dvija)之遗体,最后说明火化后之行止,包括拾骨时日与恢复身体接触之期限。
Verse 1
इत्य् आग्नेये महापुराणे द्रव्यशुद्धिर्नाम षट्पञ्चाशदधिकशततमो ऽध्यायः अथ सप्तपञ्चाशदधिकशततमो ऽध्यायः शावाशौचादिः पुष्कर उवाच प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च दशाहं शावमाशौचं सपिण्देषु विधीयते
如是,在《阿耆尼摩诃补罗那》中,名为“物品净化”的第一百五十六章告终。今起第一百五十七章:“因尸身而生之不净及相关事”。普什迦罗曰:“我将宣说与亡灵(preta)相关的净化仪轨,并亦说明与产育有关的净化。于同一供团之亲属(sapinda)之间,因死亡而起之尸不净(śāva-āśauca)规定为十日。”
Verse 2
जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम द्वादशाहेन राजन्यः पक्षाद्वैश्यो ऽथ मासतः
而在产育之事亦复如是,噫,婆利古族中之最胜者:婆罗门之净期十日而满;刹帝利十二日;吠舍半月;首陀罗一月。
Verse 3
शूद्रो ऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु
若首陀罗由顺婚(anuloma)而生,且为奴仆(dāsa),则其仪式不净(aśauca)之期与其主同等;又在刹帝利、吠舍、首陀罗诸族系之生育中,不净期依次为六日、三日与一日。
Verse 4
ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च विट्शूद्रयोनेः शुद्धिः स्यात् क्रमात् परशुरामक
婆罗门得以清净,刹帝利亦复如是。若生于吠舍或首陀罗之胎,则当依次第、循等级之法而获净化,噫,帕罗修罗摩。
Verse 5
षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः आदन्तजननात् सद्य आचूडान्नैशिकी श्रुतिः
对首陀罗而言,规定的期限为六夜;对吠舍亦同,为三夜。自牙齿萌生之时起,应立即修习名为“naiśikī śruti”(夜间圣闻)的教诫,并持续至首次剃发礼(cūḍā/caula)。
Verse 6
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते
若所规定之仪式不伴随入戒誓愿(vrata),则净化于三夜完成;若超出此类情形,则为十夜。就首陀罗而言,若亡者未满三岁,则净化被认为于五日圆满。
Verse 7
द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता
当三年已过时,净化于十二日成就;当六年已过时,则宣说净化于一月而得。
Verse 8
स्त्रीणामकृतचूडानां विशुद्धिर् नैशिकी स्मृता तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः
对未行 cūḍā(剃发礼)的女子,教说净化于一夜后成就;而对已行 cūḍā 者,其亲属于三日后得净。
Verse 9
विवाहितासु नाशौचं पितृपक्षे विधीयते पितुर्गृहे प्रसूतानां विशुद्धिर् नैशिकी स्मृता
对已婚女子而言,在父系一方不规定 aśauca(丧产不净期)。至于在父家分娩者,传统上记为净化于一夜后完成。
Verse 10
सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा विवाहिता हि चेत् कन्या म्रियते पितृवेश्मनि
新近分娩的妇人,唯有经过十夜方得清净,别无他法。若已出嫁之女在父家去世,此一规制亦应依例施行。
Verse 11
तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः समानं लब्धशौचन्तु प्रथमेन समापयेत्
其亲族于三夜之后得以清净,此无可疑。然若同等亲属已先得净,则诸仪当以最为首要者——即最近之主丧者——而告终。
Verse 12
असमानं द्वितीयेन धर्मराजवचो यथा देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ
不可作为“第二者”(佐证或扶助)而以不相等之例对抗相等之例——此乃法王之训。即便身在异国者,闻知族亲之死及其后续事宜,亦当依正法而行。
Verse 13
यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत्
十夜期限尚余几何,即当不净几何,分毫不差。若十夜已过,则不净为三夜。
Verse 14
तथा संवत्सरे ऽतीते स्नात एव विशुद्ध्यति मातामहे तथातीते आचार्ये च तथा मृते
同样地,若一年已满,仅以沐浴便得清净。此例亦适用于外祖父之事:一年既过,亦复如是;师长(阿阇梨)亡故之时,亦同此则。
Verse 15
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं सपिण्दे ब्राह्मणे वर्णाः सर्व एवाविशेषतः
若发生流产(garbha-srāva),应依怀胎之月数,守相应之夜数以行净化。若为同族近亲(sapiṇḍa)或为婆罗门(Brāhmaṇa),则一切种姓(varṇa)皆同此法,无有差别。
Verse 16
आचडान्नैशिकी तथेति ट दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव
由食用所谓“ācāḍa”之物及夜间(接触/行为)所生之不净,亦当如前所说而处置。彼等十夜得净;诸王(刹帝利)十二日得净;吠舍十五日得净;首陀罗一月得净,噢,婆尔伽瓦(Bhārgava)。
Verse 17
उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः
于自身食余(uccaṣṭa)之前,亦当奉献一枚 piṇḍa(团食供);并当摄心安住,同样称诵彼祖先之名与 gotra(族系)。
Verse 18
भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः
当最尊贵之二次生者(婆罗门)已食毕,并以财施受礼敬;又当米粒(akṣata)与清水依法奉献,并随之称诵诸 gotra 之名时——[仪轨即依所制而继续进行]。
Verse 19
चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं
其制当广四指(aṅgula),中间凿一同量之凹槽;其长当为一拃(vitasti);又于 vikarṣū 亦同,规定三(种度量/规格)。
Verse 20
विकर्षूणां समीपे च ज्वालयेज् ज्वलनत्रयं सोमाय वह्नये राम यमाय च समासतः
在所牵引划定的仪式线(vikarṣūṇām)附近,也应点燃三重圣火;略言之:为苏摩(Soma)、为瓦赫尼(Vahni,即阿耆尼 Agni)、并为阎摩(Yama),噢罗摩。
Verse 21
जुहुयादाहुतीः सम्यक् सर्वत्रैव चतुस्त्रयः पिण्डनिर्वपणं कुर्यात् प्राग्वदेव पृथक् पृथक्
应当如法奉献供火之供物(āhuti);在一切情形下,皆应以四份为一组。又应依先前所述,分别逐一安置团食供(piṇḍa)。
Verse 22
अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् मध्ये चेदधिमासः स्यात् कुर्यादभ्यधिकन्तु तत्
应以谷食、凝乳(酸乳)、蜂蜜以及肉类来圆满(所规定的供献或施与)。若在规定期间之中出现闰月(adhimāsa),则应以加增之量行此仪轨。
Verse 23
अथवा द्वादशाहेन सर्वमेतत् समापयेत् संवत्सरस्य मध्ये च यदि स्यादधिमासकः
或者,也可在十二日之内完成这一切;即便在一年之中出现闰月(adhimāsa),此规定亦同样适用。
Verse 24
तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत्
于是,在第十二次所行之施祖祭(śrāddha)中,应以加增供品而行其仪;而当满一年之时,应依正当的施祖祭法度,如法举行 śrāddha。
Verse 25
प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः
随后,为亡灵(preta)以及其上诸更高祖灵之位,应当如法向同一组“三位”(父系三祖)奉献食团(piṇḍa)。同样地,行者当摄心安住,亦应依次奉献四枚食团。
Verse 26
सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ धनेषु चेति क , ख , घ , ङ , छ , ज , ञ च योजयेत् प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव
既已如法礼敬并施献供物,诵念“pṛthivī samānā”与“dhaneṣu”等真言之后,婆尔伽婆啊,应将亡灵食团(preta-piṇḍa)置于诸食团之中,并依所示字母组(ka、kha、gha、ṅa、cha、ja、ña)加以分配安置。
Verse 27
प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् पृथक् पृथक् प्रकर्तव्यं कर्मैतत् कर्मपात्रके
同样,也应将“亡灵之器”(preta-pātra)安置于诸仪器之中。在仪器之组内,此项作法必须分别施行(即对每一器皿作各自的分配与处理)。
Verse 28
मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्
此项仪轨,对首陀罗(Śūdra)规定为不诵真言而行。又对妇女,亦应以同样方式行“同食团归祖礼”(sapīṇḍīkaraṇa),即将亡者纳入同一祖系之列;如此方为如法成就。
Verse 29
श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं गङ्गायाः सिकता धारा यथा वर्षति वासवे
应当每年为亡者举行施食祭(śrāddha);并且每年亦应奉献“壶食”(kumbhānna),即依仪以水壶(或陶罐)相伴而施的食物。正如恒河倾注如沙之流,亦如是为瓦萨瓦(因陀罗)而降雨。
Verse 30
शक्या गणयितुं लोके नत्वतीताः पितामहाः काले सततगे स्थैर्यं नास्ति तस्मात् क्रियां चरेत्
在此世间,连已逝的祖先尚可计数;然而“时”(kāla)不停流转,毫无恒定。故当迅速奉行所规定的宗教仪轨与行持(kriyā)。
Verse 31
देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा
无论亡者已达天界之位,或堕入受苦之处,亡灵(preta)皆能领受所行之施祭(śrāddha)。因此,人不应因哀伤而停止此有益之仪式——无论是为亡者,还是为自身。
Verse 32
भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां पतितानां च नाशौचं विद्युच्छस्त्रहताश् च ये
凡因坠落、火焚、绳索勒缢、溺水而死者;自尽者;堕落为弃民者(patita);以及遭雷击或兵刃所杀者——皆无 nāśauca,即家族因死亡而起之不净。
Verse 33
यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः राजाज्ञाकारिणो ये च स्नायाद्वै प्रेतगाम्यपि
出家苦行者(yati)、持戒愿者(vrata)、梵行学生(brahmacārin)、国王、工匠、受灌顶入门者(dīkṣita),以及奉王命行事者——皆应沐浴。即便是前往丧仪之人,也应沐浴。
Verse 34
मैथुने कटधूमे च सद्यः स्नानं विधीयते द्विजं न निर्हरेत् प्रेतं शूद्रेण तु कथञ्चन
行房之后,以及触及火葬柴堆之烟后,皆规定须立刻沐浴。又,首陀罗(Śūdra)在任何情况下都不可搬运、移除或经手二次生者(dvija)之尸身(preta)。
Verse 35
न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते अनाथविप्रप्रेतस्य वहनात् स्वरगलोकभाक्
即使是再生者(dvija)也不应回避首陀罗,因为对双方都不会生起过失。若有人抬运无依无护之已故婆罗门之遗体,便得分受诸天界之福分。
Verse 36
कार्यमेव तथा भवेदिति छ , ङ , ञ च कार्यमेतत्तथा भवेदिति झ राजाज्ञाकारका इति ट न निर्दहेदिति ख तयोर्दोषो ऽभिजायते इति ङ सङ्ग्रामे जयमाप्नोति प्रेते ऽनाथे च काष्ठदः सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं
“确应如是而行”,诸权威如是说;“此事必须完全如此施行”。奉王命而行者亦在其内。不可不如法或未经许可而火葬,否则双方皆生过失。为无亲属之亡者供给葬柴者,于战阵中得胜;当于心中认亡者为亲属,并以圣线反向佩戴(apasavya)而趋近火葬柴堆。
Verse 37
परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः प्रेताय च तथा दद्युस्त्रींस्त्रींश् चैवोदकाञ्जलीन्
绕行仪处之后,众人皆应仍着衣而沐浴;并同样向亡灵(preta)奉献三次、每次三捧之水(añjali 供水)。
Verse 38
द्वार्यश्मनि पदं दत्वा प्रविशेयुस् तथा गृहं अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च
在门口以足踏门槛石而后入室。应将完整米粒(akṣata)投入火中,并咀嚼一片楝树(neem)叶。
Verse 39
पृथक् शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः
应当独自而眠,卧于地上,并仅以购得之食为生。于十日之期,只取一份 piṇḍa;并在行剃发/剃须之仪(śmaśru-karman)后,便成就仪式上的清净。
Verse 40
सिद्धार्थकैस्तिलैर् विद्वान् मज्जेद्वासोपरं दधत् अजातदन्ते तनये शिशौ गर्भस्रुते तथा
有学之人应以白芥子(siddhārthaka)与芝麻(tila)随身浸浴,然后更着洁净上衣;同样适用于未出牙之子、婴儿,以及流产(胎体排出)之情形。
Verse 41
कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया चतुर्थे च दिनेकार्यस् तथास्थ्नां चैव सञ्चयः
不应再为其施行火仪(agni-saṃskāra,火葬之礼),亦不应为其作水仪(udaka-kriyā,奠水之行);而应于第四日行收集遗骨之事。
Verse 42
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते
在收集遗骨之后,经典规定可以触及身体(即恢复身体接触)之行。
Ten days is prescribed as the standard death-impurity period among sapiṇḍa relatives.
It presents graded completion periods by varṇa (with additional sub-cases such as anuloma births, dāsa status, and age-based rules), emphasizing that duration depends on social-ritual category and specific circumstance.
Key elements include gotra/name recitation, piṇḍa placement separately, assignment of a preta-vessel among vessels, measured ritual layout, kindling three fires (Soma–Agni–Yama), sets of four oblations, and completion rules including adhimāsa adjustments and annual repetition.
Yes; it explicitly states the preta receives the śrāddha whether in a divine state or in a place of torment, urging timely performance of kriyā.