न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभि॑: सु॒गेभि॑: । यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु
ná vā́ u etán mriyase ná ríṣyasi devā́ṃ2 íd eṣi pathíbhiḥ sugébhiḥ | yátrāsate sukṛ́to yátra te yayús tátra tvā deváḥ savitā́ dadhātu ||
แท้จริงแล้ว ท่านมิได้ตายเพราะสิ่งนี้ และมิได้ถูกทำร้าย; ท่านไปสู่เหล่าเทพด้วยหนทางอันราบรื่นเป็นสุข. ณ ที่ซึ่งผู้กระทำความดีนั่งอยู่ ณ ที่ซึ่งบรรพชนของท่านได้ไปถึง—ขอให้เทพสวิตฤ (Savitar) ประดิษฐานท่านไว้ ณ ที่นั้น.
न । वै । उ । एतत् । म्रियसे । न । रिष्यसि । देवान् । इत् । एषि । पथिभिः । सुगेभिः । यत्र । आसते । सुकृतः । यत्र । ते । ययुः । तत्र । त्वा । देवः । सविता । दधातु ।