Mandukya
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वम् अपीतिश्च भवति य एवं वेद ॥११॥
सुषुप्त-स्थानः । प्राज्ञः । मकारः । तृतीया । मात्रा । मितेः । अपीतेः-वा । मिनोति । ह । वा । इदम् । सर्वम् । अपीतिः-च । भवति । यः । एवम् । वेद ॥११॥
suṣuptasthānaḥ prājño makāras tṛtīyā mātrā miter apīter vā minoti ha vā idaṃ sarvam apītiś ca bhavati ya evaṃ veda ||11||
ସୁଷୁପ୍ତିସ୍ଥାନର ପ୍ରାଜ୍ଞ ‘ମ୍’ ଅକ୍ଷର—ଓଂକାରର ତୃତୀୟ ମାତ୍ରା। ମିତି (ମାପ) କିମ୍ବା ଅପୀତି (ଲୟ) ହେତୁ ସେ ଏହି ସବୁକୁ ମାପେ/ଅବଗାହନ କରେ; ଏବଂ ଲୟ (ପ୍ରଲୟ) ରୂପ ହୁଏ—ଯେ ଏପରି ଜାଣେ।
The Prājña, whose sphere is deep sleep, is the letter M, the third mora. Because of measure (miti), or because of absorption (apīti), he indeed measures (or comprehends) all this; and he becomes the absorption (dissolution)—whoever thus knows.