Mandukya
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवम् ओङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥१२॥
अ-मात्रः । चतुर्थः । अव्यवहार्यः । प्रपञ्च-उपशमः । शिवः । अद्वैतः । एवम् । ओङ्कारः । आत्मा-एव । संविशति । आत्मना । आत्मानम् । यः । एवम् । वेद ॥१२॥
amātraś caturtho 'vyavahāryaḥ prapañcopaśamaḥ śivo 'dvaita evam oṅkāra ātmā eva saṃviśaty ātmanātmānaṃ ya evaṃ veda ||12||
ଚତୁର୍ଥ ଅମାତ୍ର—ମାତ୍ରାବିହୀନ; ଅବ୍ୟବହାର୍ୟ, ପ୍ରପଞ୍ଚୋପଶମ, ଶିବ (ମଙ୍ଗଳମୟ), ଅଦ୍ୱୈତ। ଏହିପରି ଓଂକାର ନିଶ୍ଚୟ ଆତ୍ମା। ଯେ ଏପରି ଜାଣେ, ସେ ଆତ୍ମା ଦ୍ୱାରା ଆତ୍ମାରେ ପ୍ରବେଶ କରେ।
The Fourth is without mora, not an object of transaction, the cessation of phenomenal expansion, auspicious, non-dual. Thus the Oṃkāra is the Self indeed. He enters the Self by the Self—whoever thus knows.