य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑ः । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ᳪहो॑श्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥
yajñó devā́nāṃ práty eti sumnám ādityāso bhávata mṛḍayántaḥ | ā́ vo 'rvā́cī sumatír vavṛtyād áṃhoś cid yā́ varivovíttarāsat ||
ଯଜ୍ଞ ଦେବମାନଙ୍କର ଅନୁଗ୍ରହ ପ୍ରତି ଯାଏ; ହେ ଆଦିତ୍ୟମାନେ, କୃପାଳୁ ହୁଅ, ଦୟା ପ୍ରଦର୍ଶନ କର। ତୁମ ସୁମତି ଆମ ପାଖକୁ ଫେରିଆସୁ, ଯାହା ଦୁଃଖରୁ ମଧ୍ୟ ଆମକୁ ଅଧିକ ବରିବସ୍ (ବିସ୍ତୃତ ଅବକାଶ/ମୁକ୍ତି) ଦେଉ।
यज्ञः । देवानाम् । प्रति-एति । सुम्नम् । आदित्याः । भवत । मृडयन्तः । आ । वः । अर्वाची । सु-मतिḥ । ववृत्यात् । अंहः । चित् । या । वरिवः-वित्-तरा । असत् ।