Tripura
तिस्रश्च रेखाः सदनानि भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः । एतत्पुरं पूरकं पूरकाणामत्र प्रथते मदनो मदन्या॥५॥
तिस्रः । च । रेखाः । सदनानि । भूमेः । त्रि-विष्टपाः । त्रि-गुणाः । त्रि-प्रकाराः । एतत् । पुरम् । पूरकम् । पूरकाणाम् । अत्र । प्रथते । मदनः । मदन्या ॥५॥
tisraś ca rekhāḥ sadanāni bhūmes trivisṭapās triguṇās triprakārāḥ | etat-puraṃ pūrakaṃ pūrakāṇām atra prathate madano madanyā ||5||
また三つの線があり、それは大地の住処である。三つの天、三つのグナ、三種の相。これは成就を成就させる都であり、ここにマダナ(欲望)はマダニーとともに栄える。
And there are three lines—abodes of the earth; (there are) three heavens, three guṇas, threefold forms. This city is the fulfiller of fulfillers; here Madana (Desire) flourishes with Madanī.