न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यश॑: । हि॒र॒ण्य॒ग॒र्भ इत्ये॒षः मा मा॑ हिᳪसी॒दित्ये॒षा यस्मा॒न्न जा॒त इत्ये॒ष:
ná tásya pratímā asti yásya nā́ma mahád yáśaḥ | hiraṇyagárbha íty eṣáḥ mā́ mā hiṃsī́d íty eṣā́ yásmān ná jā́ta íty eṣáḥ
彼には比類がない。その名は「大いなる栄光」(mahadyáśas)である。「ヒラニヤガルバ(Hiraṇyagarbha、金胎)」――これがその名であり、「われを害するな」――これが祈りであり、「そこからは誰も生まれない」――これがその称号である。
न । तस्य । प्रतिमा । अस्ति । यस्य । नाम । महत् । यशः । हिरण्यगर्भः । इति । एषः । मा । मा । हिंसीत् । इति । एषा । यस्मात् । न । जातः । इति । एषः