ए॒षो ह॑ दे॒वः प्र॒दिशोऽनु॒ सर्वा॒: पूर्वो॑ ह जा॒तः स उ॒ गर्भे॑ अ॒न्तः । स ए॒व जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ् जना॑स्तिष्ठति स॒र्वतो॑मुखः
eṣó ha deváḥ pradíśo'nu sárvāḥ pū́rvo ha jā́taḥ sá u gárbhe antáḥ | sá evá jā́taḥ sá janiṣyámāṇaḥ pratyáṅ jánās tiṣṭhati sárvatomukhaḥ
まことにこの神は、あらゆる方域に従い巡りゆく。まことに彼は先に生まれ、また胎内に在す。彼はすでに生まれ、またまさに生まれんとしつつ、人々に向かって立ち、四方に面を具える。
एषः । ह । देवः । प्रदिशः । अनु । सर्वाः । पूर्वः । ह । जातः । सः । उ । गर्भे । अन्तः । सः । एव । जातः । सः । जनिष्यमाṇः । प्रत्यङ् । जनान् । तिष्ठति । सर्वतः-मुखः