पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्य॒: प्लीहा॒कर्ण॑: शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्त ऐ॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जिर्म॒हाञ्जि॒स्त उ॑ष॒स्या॑:
pṛ́śnis tiraścī́napṛśnir ūrdhvápṛśnis te mārutā́ḥ | phalgū́r lohitórṇī palakṣī́ tā́ḥ sārasvatyàḥ | plīhākarṇaḥ śuṇṭhākarṇo 'dhyālohakarṇas te tvā́ṣṭrāḥ | kṛ́ṣṇagrīvaḥ śitikákṣo 'ñjisákthas ta aindrāgnā́ḥ | kṛ́ṣṇāñjir alpā́ñjir mahā́ñjis ta uṣasyā́ḥ
斑のあるもの、横に斑のあるもの、上に斑のあるもの——これらはマルト(Marut)に属する。淡色のもの、赤毛のもの、まだらのもの——これらはサラスヴァティー(Sarasvatī)に属する。脾(ひ)耳のもの、切れ耳のもの、過度に赤い耳のもの——これらはトヴァシュトリ(Tvaṣṭṛ)に属する。黒い首のもの、白い肩のもの、輝く腿のもの——これらはインドラとアグニ(Indra–Agnī)に属する。黒斑のもの、少斑のもの、大斑のもの——これらはウシャスヤー(Uṣasyāḥ、曙光の女神たち)に属する。
पृश्निः । तिरश्चीन-पृश्निः । ऊर्ध्व-पृश्निः । ते । मारुताः । फल्गूः । लोहित-ऊर्णी । पलक्षी । ताः । सारस्वत्यः । प्लीहा-कर्णः । शुण्ठा-कर्णः । अध्यालोह-कर्णः । ते । त्वाष्ट्राः । कृष्ण-ग्रीवः । शिति-कक्षः । अञ्जि-सक्थः । ते । ऐन्द्रा-अग्नाः । कृष्ण-अञ्जिः । अल्प-अञ्जिः । महत्-अञ्जिः । ते । उषस्याः