शु॒द्धवा॑लः स॒र्वशु॑द्धवालो मणि॒वाल॒स्त आ॑श्वि॒नाः श्येत॑: श्येता॒क्षो॒ऽरु॒णस्ते रु॒द्राय॑ पशु॒पत॑ये क॒र्णा या॒मा अ॑वलि॒प्ता रौ॒द्रा नभो॑रूपाः पार्ज॒न्याः
śuddhávālaḥ sárvaśuddhavālo maṇivā́las ta āśvinā́ḥ | śyetáḥ śyetākṣó 'ruṇás te rudrā́ya paśupátaye | karṇā́ yāmā́ avaliptā́ raudrā́ nabhórūpāḥ pārjanyā́ḥ
清き尾のもの、ことごとく清き尾のもの、宝の尾のもの――これらはアシュヴィン双神(Aśvins)に属す。白きもの、白き眼のもの、赤きもの――これらはルドラ(Rudra)、獣の主(Paśupati)のため。耳に標あるもの、ヤーマ(yāma)の標あるもの、塗りつけられたもの――これらはルドラに属す。天の姿をなすもの――パルジャニヤ(Parjanya)に属す。
शुद्ध-वालः । सर्व-शुद्ध-वालः । मणि-वालः । ते । आश्विनाः । श्येतः । श्येत-अक्षः । अरुणः । ते । रुद्राय । पशु-पतये । कर्णाः । यामाः । अवलिप्ताः । रौद्राः । नभः-रूपाः । पार्जन्याः