
धर्मपक्ष्युपाख्यानम् (Dharmapakṣyupākhyānam)
Birth of the Birds
第3章は、ダルマに帰依する鳥たちダルマパクシ(Dharmapakṣis)が、前世の呪いによって鳥として生を受けた因縁を語る。彼らは鳥の身でありながら智慧と清らかな志を保ち、業(カルマ)とサティヤ(真実)の尊さを示す。さらにインドラが変装して彼らの誠実さを試し、真実と法が最上の守護であることを明らかにする。
Verse 1
इति श्रीमार्कण्डेयपुराणे चटकॊत्पत्तिर्नाम द्वितीयोऽध्यायः । तृतीयोऽध्यायः । मार्कण्डेय उवाच । अहन्यहनि विप्रेन्द्र स तेषां मुनिसत्तमः । चकाराहारपयसाऽ तथा गुप्त्या च पोषणम् ॥
かくして、吉祥なる『マールカṇḍेयプラーナ』第二章「チャタカ(雀)の起源」は終わる。いま第三章が始まる。マールカṇḍेयは語った。「日ごとに、ああブラーフマナの最勝者よ、彼らのうち最も卓越した聖仙は養いを施し—食物と乳粥(pāyasa)を与え—さらに守護と周到な警護によって彼らを支えた。」
Verse 2
मासमात्रेण जग्मुस्ते भानोः स्यन्दनवर्त्मनि । कौतूहलविलोलाक्षैर्दृष्टा मुनिकुमारकैः ॥
わずか一か月のうちに、彼らは太陽の車の道筋に沿って旅をし、好奇心に目を揺らす若き聖仙たちに見出された。
Verse 3
दृष्ट्वा महीं सनगरां साम्भोनिधिसरिद्वराम् । रथचक्रप्रमाणां ते पुनराश्रममागताः ॥
都市を備え、海とすぐれた河川によって荘厳された大地を見終えると、彼らは—あたかも車輪のひと回りで測ったかのように—再び庵(修行林)へと帰った。
Verse 4
श्रमक्लान्तान्तरात्मानो महात्मानो वियोनिजाः । ज्ञानञ्च प्रकटिभूतं तत्र तेषां प्रभावतः ॥
内には努力の疲れを覚えつつも、いかなる胎からも生まれぬその大心の者たちは、自己の霊的威力(タパス)の力によって、そこで智を顕現させた。
Verse 5
ऋषेः शिष्यानुकम्पार्थं वदतो धर्मनिश्चयम् । कृत्वा प्रदक्षिणं सर्वे चरणावभ्यवावदयन् ॥
聖仙が弟子らへの慈悲ゆえに、ダルマに関する確定した決意を説き明かしていたとき、彼らは皆、恭しく周匝し、ひれ伏してその御足に礼拝した。
Verse 6
ऊचुश्च मरणाद्घोरान्मोक्षिताः स्मस्त्वया मुने । आवास-भक्ष्य-पयसां त्वं नो दाता पिता गुरुः ॥
彼らは言った。「おお聖仙よ、あなたは恐るべき死から我らを救い出された。あなたは我らに—庇護と食と乳—を与える施与者であり、我らにとって父でありグル(師)である。」
Verse 7
गर्भस्थानां मृता माता पित्रा नैवापि पालिताः । त्वया नो जीवितं दत्तं शिशवो येन रक्षिताः ॥
我らが胎内にあったとき母は亡くなり、父もまた養ってはくれなかった。命はあなたによって我らに授けられ、幼子であった我らはあなたによって守られた。
Verse 8
क्षितावक्षततेजास्त्वं कृमीणामिव शुष्यताम् । गजघण्टां समुत्पाट्य कृतवान् दुःखरेचनम् ॥
あなたの気力は、干からびる虫のように衰え、消耗している。象の鈴を引き裂いて奪い取ったことで、苦痛を伴う排出(すなわち惨めで痛ましい結末)を招いた。
Verse 9
कथं वर्धेयुरबलाः खस्थान् द्रक्ष्याम्यहं कदा । कदा भूमेर् द्रुमं प्राप्तान् द्रक्ष्ये वृक्षान्तरं गतान् ॥
「無力な者たちは、いかにして成長し得ようか。いつ、天に住まう者たちをわたしは見るのか。いつ、地より樹に至り、さらに別の樹へ移り行った者たちをわたしは見るのか。」
Verse 10
कदा मे सहजा कान्तिः पांशुना नाशमेष्यति । एषां पक्षानिलोत्थेन मत्समीपविचारिणाम् ॥
これら(鳥)がわたしの近くを飛び回り、その翼から風が巻き上げる塵によって、わたしの本来の光輝が損なわれることは、いつ終わるのか。
Verse 11
इति चिन्तयता तात भवता प्रतिपालिताः । ते साम्प्रतं प्रवृद्धाः स्मः प्रबुद्धाः करवाम किम् ॥
「かく思案しておられた間、尊き御方よ、わたしたちはあなたに守られておりました。いまや成長し、(理解へと)目覚めました。われらはいかに為すべきでしょうか(報いるために/いま何をなすべきか)。」
Verse 12
इत्यृषिर्वचनं तेषां श्रुत्वा संस्कारवत् स्फुटम् । शिष्यैः परिवृतः सर्वैः सह पुत्रेण शृङ्गिणा ॥
かくして、明晰に語られ、洗練され整った形を備える仙者の言葉を聞き終えると、(彼は)すべての弟子たちに囲まれ、子のシュリンギン(Śṛṅgin)とともに進み行った。
Verse 13
कौतूहलपरो भूत्वा रोमाञ्चपटसंवृतः । उवाच तत्त्वतो ब्रूत प्रवृत्तेः कारणं गिरः ॥
好奇心に満たされ、身は総毛立つさまが衣のごとく覆い、彼は言った。「真実にして現実に即して告げよ——この行為への発動(pravṛtti)の原因は何であるか。」
Verse 14
कस्य शापादियं प्राप्ता भवद्भिर्विक्रिया परा । रूपस्य वचसश्चैव तन्मे वक्तुमिहार्हथ ॥
いかなる者の呪詛によって、汝はこの驚くべき変化—姿形とことば—を受けたのか。ここにて、わたしにその由を告げよ。
Verse 15
पक्षिण ऊचुः विपुलस्वानिति ख्यातः प्रागासीन्मुनिसत्तमः । तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा ॥
鳥たちは言った。「昔、ヴィプラスヴァーナ(Vipulasvāna)と名高いすぐれた聖仙がいた。彼には二人の子—スクリシャ(Sukṛṣa)とトゥンブル(Tumburu)—があった。」
Verse 16
सुकृषस्य वयं पुत्राश्चत्वारः संयतात्मनः । तस्यर्षेर्विनयाचारभक्तिनम्राः सदैव हि ॥
われらは自制の聖者スクリシャ(Sukṛṣa)の四人の子である。まことに、われらは常に謙り—信愛(バクティ)により頭を垂れ—そのリシ(ṛṣi)が教えた規律ある行いに堅く立っている。
Verse 17
तपश्चरणसक्तस्य शास्यमानेन्द्रियस्य च । यथाभिमतमस्माभिस्तदा तस्योपपादितम् ॥
苦行(タパス)の修習に専心し、諸感官を制していた彼のために、われらはその望みを寸分違わず成就させた。
Verse 18
समित्पुष्पादिकं सर्वं यच्चैवाभ्यवहारिकम् । एवं तत्राथ वसतां तस्यास्माकञ्च कानने ॥
「聖なる火のための薪、花など—そして日々の用に要るものは何であれ—(得られる)。ゆえに、その森において、彼のためにも、そこに住まうわれらのためにも……」
Verse 19
आजगाम महावर्ष्मा भग्नपक्षो जरान्वितः । आताम्रनेत्रः स्रस्तात्मा पक्षी भूत्वा सुरेश्वरः ॥
そのとき、神々の主インドラはそこへ来た。大きな身をもつ鳥となり、翼は折れ、老いに苦しみ、眼は銅のように赤く、気力は沈み衰えていた。
Verse 20
सत्यशौचक्षमाचारमतीवोदारमानसम् । जिज्ञासुस्तं ऋषिश्रेष्ठमस्मच्छापभवाय च ॥
彼は真実にして清浄、ふるまいにおいて忍耐深く、きわめて寛大で高貴な心を備えていた。知りたいと願って、彼らはその最勝の聖仙に近づいた—また、我らの呪いからの解放を求めてでもあった。
Verse 21
पक्ष्युवाच द्विजेन्द्र मां क्षुधाविष्टं परित्रातुमिहार्हसि । भक्षणार्थो महाभाग गतिर्भव ममातुला ॥
その鳥は言った。「おお、二度生まれし者のうち最勝の方よ、私は飢えに苦しむゆえ、ここで私を救ってください。おお幸いなる方よ、食を得るためであっても、比類なき帰依処となってください。」
Verse 22
विन्ध्यस्य शिखरे तिष्ठन् पत्रिपत्रेरितेन वै । पतितोऽस्मि महाभाग श्वसनेनातिरंहसा ॥
ヴィンドゥヤの峰に立っていたとき、翼の乱舞する突風に打たれ(あるいは追い立てられ)、おお幸いなる方よ、強大な力で吹き動く烈風のために私は落ちた。
Verse 23
सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः । स्थितस्तत्राष्टमेनाह्ना चेतनां प्राप्तवानहम् ॥
かくして私は—迷妄に圧倒され—記憶を失って地に伏し、七日間横たわっていた。そこに留まり、八日目に意識を取り戻した。
Verse 24
प्राप्तचेताḥ क्षुधाविष्टो भवन्तं शरणं गतः । भक्ष्यार्थो विगतानन्दो दूयमानेन चेतसा ॥
我に返り、飢えに苦しめられて、私は汝のもとに帰依して来た——食を求め、歓喜を失い、憂苦に心が焼かれている。
Verse 25
तत् कुरुष्वामलमते मत्त्राणायाचलां मतिम् । प्रयच्छ भक्ष्यं विप्रर्षे प्राणयात्राक्षमं मम ॥
ゆえに、汚れなき理解を具える御方よ、固く決して我を護り給え。食を授け給え、婆羅門の聖仙よ——ただ命をつなぐに足るほど(我が生命を存続させるため)に。
Verse 26
स एवमुक्तः प्रोवाच तमिन्द्रं पक्षिरूपिणम् । प्राणसन्धारणार्थाय दास्ये भक्ष्यं तवेप्सितम् ॥
かく告げられると、鳥の姿を取ったインドラに彼は言った。「命を保つため、汝の望む食を与えよう。」
Verse 27
इत्युक्त्वा पुनरप्येनमपृच्छत् स द्विजोत्तमः । आहारः कस्तवार्थाय उपकल्प्यो भवेन्मया । स चाऽह नरमांसॆन तृप्तिर्भवति मे परा ॥
そう言うと、その優れた婆羅門は再び問うた。「汝のために、いかなる食を調えればよいのか。」彼は答えた。「人肉によって、我が満足は最上となる。」
Verse 28
ऋषिरुवाच कौमारं ते व्यतिक्रान्तमतितं यौवनञ्च ते । वयसः परिणामस्ते वर्तते नूनमण्डज ॥
聖仙は言った。「汝の幼年は過ぎ、若き時もまた去った。まことに、卵生の者(鳥)よ、老いの変化はいま汝に及んでいる。」
Verse 29
यस्मिन्नराणां सर्वेषामशेषेच्छा निवर्तते । स कस्माद्वृद्धभावेऽपि सुनृशंसात्मको भवान् ॥
すべての人々の残余の欲望が完全に滅するその御方において—それなのに、なぜ汝は老いに至ってなお、徹底して残酷な性向を抱くのか。
Verse 30
क्व मानुषस्य पिशितं क्व वयश्चरमं तव । सर्वथा दुष्टभावानां प्रशमो नोपपद्यते ॥
「人の肉はどこにあり、汝の命の終末の段はどこにあるのか。あらゆる意味で、邪悪な性向の者には鎮静(あるいは改心)は真に起こらぬ。」
Verse 31
अथवा किं मयैतॆन प्रोक्तेनास्ति प्रयोजनम् । प्रतिश्रुत्य सदा देयमिति नो भावितं मनः ॥
「さもなくば、私がこれを語ったところで何の益があろう。われらの心は、『約したなら常に与え、必ず果たすべし』という理に鍛えられていない。」
Verse 32
इत्युक्त्वा तं स विप्रेन्द्रस्तथेति कृतनिश्चयः । शीघ्रमस्मान् समाहूय गुणतोऽनुप्रशस्य च ॥
かく彼に語り終えると、心を定めた最勝のバラモンは「然り、そうあれ」と答えた。ついで速やかに我らを召し、さらにその徳に即して讃嘆しつつ、前へと進んだ。
Verse 33
उवाच क्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरम् । विनयावनतान् सर्वान् भक्तियुक्तान् कृताञ्जलीन् ॥
その聖仙は心を揺さぶられ、きわめて苛烈な言葉を発した—それでも人々は皆、謙って頭を垂れ、信敬をもって合掌し、礼拝して立っていた。
Verse 34
कृतात्मानो द्विजश्रेष्ठा ऋणैर्युक्ता मया सह । जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः ॥
おお、二度生まれのうち最勝の者よ、汝は自制している。しかも我と共に、汝は聖なる負債(義務)によって縛られている。汝には高貴なる子孫が生まれた—おお婆羅門たちよ、我にとって汝らは我が実の子らのごとし。
Verse 35
गुरुः पूज्यो यदि मतो भवतां परमोऽथ पिता । ततः कुरुत मे वाक्यं निर्व्यलीकेन चेतसा ॥
もし汝が、師(グル)を敬うべきであり、父こそ最上に尊ぶべき者であると認めるなら、欺きなき心をもって我が言葉を実行せよ。
Verse 36
तद्वाक्यसमकालञ्च प्रोक्तमस्माभिरादृतैः । यद्वक्ष्यति भवान्स्तद्वै कृतमेवावधार्यताम् ॥
そしてその言葉が語られたまさにその時、我らもまた—恭敬して—そのように宣言した。汝がこれから何を言おうとも、それはすでに成就していると確かに知れ。
Verse 37
ऋषिरुवाच मामेष शरणं प्राप्तो विहगः क्षुत्तृषान्वितः । युष्मन्मांसॆन येनास्य क्षणं तृप्तिर्भवेत् वै ॥
聖仙(リシ)は言った。「この鳥は飢えと渇きに苦しみ、我に庇護を求めて来た。汝の肉によって、まことにしばしの間は満たされ得よう。」
Verse 38
तृष्णाक्षयञ्च रक्तेन तथा शीघ्नं विधीयताम् । ततो वयं प्रव्यथिताः प्रकम्पोद्भूतसाध्वसाः । कष्टं कष्टमिति प्रोच्य नैतत् कुर्मेति चाब्रुवन् ॥
「『渇きもまた、血によって速やかに鎮めよ』。」それを聞くや、我らは深く動揺し—恐怖が痙攣のごとく湧き起こり、震えた。「ああ、ああ!」と叫んで彼らは言った。「我らはこれを行わぬ。」
Verse 39
कथं परशरीरस्य हेतोर्देहं स्वकं बुधः । विनाशयेद् घातयेद्वा यथा ह्यात्मा तथा सुतः ॥
賢者が、他者の身体のために自らの身体を滅ぼし、あるいは自分の身体を殺させるなど、どうしてできようか。子は自己そのものに等しいからである。
Verse 40
पितृदेवमनुष्याणां यान्युक्तानि ऋणानि वै । तान्यपाकुरुते पुत्रो न शरीरप्रदः सुतः ॥
祖霊・神々・人々に対して定められた負債のうち、それらを果たす者こそ真に「子」と呼ばれる。単に(父に)身体を与える者、すなわち生物学的な子にとどまる者ではない。
Verse 41
तस्मान्नैतत् करिष्यामो नीचीर्णं यत् पुरातनैः । जीवन् भद्राण्यवाप्नोति जीवन् पुण्यं करोति च ॥
「ゆえに我らはこれをなさぬ。これは卑しきことであり、古人の行いにもなかった。生きている間にこそ吉祥の果を得、生きている間にこそ功徳を積むのだ。」
Verse 42
मृतस्य देहनाशश्च धर्माद्युपरतिस्तथा । आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः ॥
人が死ねば身体は滅び、同様にダルマをはじめとする(人生の目的と実践)も止む。ゆえにダルマを知る者は、あらゆる手段で自己を護るべきだと説く。
Verse 43
इत्त्थं श्रुत्वा वचोऽस्माकं मुनिः क्रोधादिव ज्वलन् । प्रोवाच पुनरप्यस्मान् निर्दहन्निव लोचनैः ॥
我らの言葉をそのように聞くと、聖仙は—怒りに燃えるかのように—再び我らに語り、まるでその眼差しで我らを灼くかのようであった。
Verse 44
प्रतिज्ञातं वचो मह्यं यस्मान्नैतत् करिष्यथ । तस्मान्मच्छापनिर्दग्धास्तिर्यग्योनौ प्रयास्यथ ॥
お前は私との約束を果たさないゆえに、私の呪いに焼かれ、人間以外の胎内(畜生道)へ落ちるであろう。
Verse 45
एवमुक्त्वा तदा सोऽस्मास्तं विहङ्गमथाब्रवीत् । अन्त्येष्टिमात्मनः कृत्वा शास्त्रतश्चोर्ध्वदेहिकम् ॥
かく語りて、彼はその鳥に告げた。「自らのアンティエシュティ(葬儀)を行い、聖典(シャーストラ)に従ってウールドヴァ・デーヒカ(死後の儀礼)を済ませた後……」
Verse 46
भक्षयस्व सुविश्रब्धौ मामत्र द्विजसत्तम । आहारीकृतमेतत्ते मया देहमिहात्मनः ॥
「ためらうことなく、ここで私を食せよ、再生族(ドヴィジャ)の最良の者よ。其方のために、私は自らの体を食物としたのだ。」
Verse 47
एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्ष्यते । यावत् पतगजात्यग्र्य स्वसत्यपरिपालनम् ॥
鳥類の中の最良の者よ、ヴィプラ(賢者)のバラモン性とは、これのみであると宣言されている。すなわち、自らの真実(サティヤ)を守り、忠実に維持することである。
Verse 48
न यज्ञैर्दक्षिणावद्भिस्तत् पुण्यं प्राप्यते महत् । कर्मणान्येन वा विप्रैर्यत् सत्यपरिपालनात् ॥
その偉大な功徳は、布施を伴う祭祀によっても、バラモンによる他のいかなる行為によっても、真実を堅固に守ることによって得られるのと同じ程度には得られない。
Verse 49
इत्यृषेर्वचनं श्रुत्वा सोऽन्तर्विस्मयनिर्भरः । प्रत्युवाच मुनिं शक्रः पक्षिरूपधरस्तदा ॥
聖仙の言葉を聞くや、彼は内心に驚嘆を満たし、ついで牟尼に答えた――その時、シャクラ(インドラ)は鳥の姿を取っていた。
Verse 50
योगमास्थाय विप्रेन्द्र त्यजेदं स्वं कलेवरम् । जीवज्जन्तुं हि विप्रेन्द्र न भक्षामि कदाचन ॥
おお、婆羅門のうち最勝なる者よ。もし我がヨーガの修行に入るなら、この身そのものを捨て去ろう。なぜなら、おお最勝の婆羅門よ、我は生き物を決して食さぬからである。
Verse 51
तस्मैतद्वचनं श्रुत्वा योगयुक्तोऽभवन्मुनिः । तं तस्य निश्चयं ज्ञात्वा शक्रोऽप्याह स्वदेहभृत् ॥
その言葉を自らに向けて聞くや、聖仙はヨーガにおいて堅固となった。シャクラ(インドラ)もまた、その決意の確かさを悟り、なお身を帯びたまま彼に語りかけた。
Verse 52
भो भो विप्रेन्द्र बुध्यस्व बुद्ध्या बोध्यं बुधात्मक । जिज्ञासार्थं मयायं ते अपराधः कृतोऽनघ ॥
「おお、婆羅門のうち最勝なる者よ、目覚めよ(理解へと)。知らるべきものは知性によって知られねばならぬ、智慧を本性とする者よ。問い究めのために、我は汝に対してこの過ちを犯した、咎なき者よ。」
Verse 53
तत् क्षमस्वामलमते का चेच्छा क्रियतां तव । पालनात् सत्यवाक्यस्य प्रीतिर्मे परमा त्वयि ॥
ゆえに、汚れなき理解を具える者よ、どうか(我を)赦したまえ。汝の望むことは何であれ—成就せしめよう。汝が真実の言葉を守り抜いたがゆえに、我が最高の敬愛と尊崇は汝に向かう。
Verse 54
अद्यप्रभृति ते ज्ञानमैन्द्रं प्रादुर्भविष्यति । तपस्यथ तथा धर्मे न ते विघ्नो भविष्यति ॥
今日より、インドラに等しい神聖なる知が汝のうちに顕現するであろう。苦行を修し、ダルマに確立して住せよ。汝にはいかなる障碍も起こらぬ。
Verse 55
इत्युक्त्वा तु गते शक्रे पिता कोपसमन्वितः । प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः ॥
かく語り終えてシャクラ(インドラ)が去ると、怒りに満ちた我らの父は(敬意をもって)頭を垂れ、我らはその大聖仙に次のように申し上げた。
Verse 56
बिभ्यतां मरणात् तात त्वमस्माकं महामते । क्षन्तुमर्हसि दीनानां जीवितप्रियता हि नः ॥
「愛しき御方よ、我らは死を恐れます。大いなる心の持ち主よ、哀れな我らをお赦しください。命はまことに我らにとって愛惜すべきものなのです。」
Verse 57
त्वगस्थिमांससङ्घाते पूयशोणितपूरिते । कर्तव्या न रति॒र्यत्र तत्रास्माकमियं रतिः ॥
皮と骨と肉の寄せ集めで、膿と血に満ちたこの身—本来は喜びを求むべきでないところに、まさに我らの喜びがあるのです。
Verse 58
श्रूयतां च महाभाग यथा लोको विमुह्यति । कामक्रोधादिभिर्दोषैरवशः प्रबलारिभिः ॥
「聞き給え、気高き御方よ。世間がいかに迷妄に陥るか—欲望と怒りなど、強大で敵のごとき過失に圧倒され、無力となり頼るところを失うのである。」
Verse 59
प्रज्ञाप्राकारसंयुक्तमस्थिस्थूणं परं महत् । चर्मभित्तिमहारोधं मांसशोणितलेपनम् ॥
(この身体は)きわめて大いなるもの。知性を堡塁として備え、骨を柱とし、皮膚を壁として、広大な囲いをめぐらし、肉と血とで塗り固められている。
Verse 60
नवद्वारं महायामं सर्वतः स्नायु वेष्टितम् । नृपश्च पुरुषस्तत्र चेतनावानवस्थितः ॥
(この身体は)九つの門をもつ大いにして長き「都」であり、腱によって四方から縛られている。その内に、覚知を具えた王なる人格プルシャ(puruṣa)が住まう。
Verse 61
मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ । यतेते वैरनाशाय तावुभावितरेतरम् ॥
その王の二人の「大臣」—知性(buddhi)と心(manas)—は互いに対立していた。怨みを滅ぼそうと努めたが、かえって両者は互いの敵意をいよいよ強めた。
Verse 62
नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः । कामः क्रोधस्तथा लोभो मोहश्चान्यस्तथा रिपुः ॥
その王には、滅びを望む四つの敵対勢力がある。すなわち欲、怒り、貪り、迷妄—それぞれが別の敵である。
Verse 63
यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति । सदा सुस्थबलश्चैव निरातङ्कश्च जायते ॥
しかしその王が、かの門々を確かに(閉じ/守り)固めたのち自らを据えるなら、常に健やかで強くなり、危難と動揺から解き放たれる。
Verse 64
जातानुरागो भवति शत्रुभिर्नाभिभूयते ।
親愛と執着が起こり、その者は敵に打ち負かされない。
Verse 65
यदा तु सर्वद्वाराणि विवृतानि स मुञ्चति । रागो नाम तदा शत्रुर्नेत्रादिद्वारमृच्छति ॥
しかし、諸感官の門をすべて開け放つと、「執着」と名づけられた敵が、眼の門および他の感官の門から入り込む。
Verse 66
सर्वव्यापी महायामः पञ्चद्वारप्रवेशनः । तस्यानुमार्गं विशति तद्वै घोरं रिपुत्रयम् ॥
遍在する原理と、生命/時の大いなる流れは、五つの門(諸感官)を通って入る。その跡を追って、まことに恐るべき三重の敵が入り込む。
Verse 67
प्रविश्याथ स वै तत्र द्वारैरिन्द्रियसंज्ञकैः । रागः शंश्लेषमायाति मनसा च सहैतरैः ॥
そのとき、身体をもつ自己は、感官と呼ばれる門を通ってそこへ入る。さらに rāga(貪愛・執着)は、心を介して対象に触れ、他の諸機能とともに働く。
Verse 68
इन्द्रियाणि मनश्चैव वशे कृत्वा दुरासदः । द्वाराणि च वशे कृत्वा प्राकारं नाशयत्यथ ॥
感官と心を制御し—(敵は)攻め難いとはいえ—彼は諸門を統御し、その後に防壁を打ち破る。
Verse 69
मनस्तस्याश्रितं दृष्ट्वा बुद्धिर्नश्यति तत्क्षणात् । अमात्यरहितस्तत्र पौरवर्गोज्झितस्तथा ॥
そのように心が固着しているのを見れば、その瞬間に識別の智慧は滅びる。そこにおいて彼はまた大臣を失い、同様に城邑の民衆にも見捨てられる。
Verse 70
रिपुभिर्लब्धविवरः स नृपो नाशमृच्छति । एवं रागस्तथा मोहः लोभः क्रोधस्तथैव च ॥
敵が隙を見いだした王は滅亡に至る。同様に、貪愛(執着)、迷妄、貪欲、そして怒りも、心に入り込む隙を得れば破滅をもたらす。
Verse 71
प्रवर्तन्ते दुरात्मानो मनुष्यस्मृतिनाशकाः । रागात्तु क्रोधः प्रभवति क्रोधाल्लोभोऽभिजायते ॥
邪悪な心の者たちが起こり、人の道徳の記憶を滅ぼす。貪愛(執着)より怒りが生じ、怒りより貪欲が生起する。
Verse 72
लोभाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥
貪欲より迷妄が生じ、迷妄より記憶の錯乱が起こる。記憶の失われるところから識別の智慧は滅び、識別の智慧の滅びより人は破滅する。
Verse 73
एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनाम् । जीविते च सलोभानां प्रसादं कुरु सत्तम ॥
かくして、理解を失い、貪愛と貪欲に追随し、渇愛をもって命に執着する者たちのために、ああ衆生の最勝者よ、どうか御慈悲(恩寵)をお授けください。
Verse 74
योऽयं शापो भगवता दत्तः स न भवेत् तथा । न तामसीं गतिं कष्टां व्रजेम मुनिसत्तम ॥
尊き主より授けられたこの呪詛が、そのような形では成就しませんように。さらに、苦痛に満ちたタマス的な運命の道へと我らが赴きませんように——おお、賢者の中の最勝者よ。
Verse 75
यन्मयोक्तं न तन्मिथ्या भविष्यति कदाचन । न मे वागनृतं प्राह यावदद्येति पुत्रकाः ॥
わたしが語ったことは、いかなる時にも虚偽となることはない。わたしの言葉は不真実を口にしたことがない——今日に至るまで、子らよ。
Verse 76
दैवमात्रं परं मन्ये धिक् पौरुषमनर्थकम् । अकार्यं कारितो येन बलादहमचिन्तितम् ॥
わたしはただ運命のみを至上と見る。むなしい人の努力よ、恥ずべきかな。なぜなら、その(運命)によって、為すべからざる、思いもよらぬ行いを、わたしは強いられたからである。
Verse 77
यस्माच्च युष्माभिरहं प्रणिपत्य प्रसादितः । तस्मात् तिर्यक्त्वमापन्नाः परं ज्ञानमवाप्स्यथ ॥
汝らが我に礼拝して我を喜ばせ(なだめ)たゆえに、たとえ獣の身に堕ちていようとも、汝らは最上の智を得るであろう。
Verse 78
ज्ञानदर्शितमार्गाश्च निर्धूतक्लेशकॢमषाः । मत्प्रसादादसन्दिग्धाः परां सिद्धिमवाप्स्यथ ॥
また汝らは、真実の智によって道を示され、苦悩と垢れを振り払い、我が恩寵により疑いなく、無上の成就に到達するであろう。
Verse 79
एवं शप्ताः स्म भगवन् पित्रा दैववशात् पुरा । ततः कालेन महता योन्यन्तरमुपागताः ॥
「かくして、ああ福徳なる御方よ、われらはかつて宿命の力により父から呪詛を受けた。やがて非常に長い時が過ぎたのち、われらは別の胎(すなわち別の生、別の具身の状態)に入ったのである。」
Verse 80
जाताश्च रणमध्ये वै भवता परिपालिताः । वयमित्थं द्विजश्रेष्ठ खगत्वं समुपागताः । नास्त्यसाविह संसारे यो न दिष्टेन बाध्यते ॥
「戦いのただ中に生まれたわれらは、まことに汝によって守護された。ゆえに、ああ二度生まれの中の最勝者よ、われらは鳥の身という境地に至った。この輪廻の世において、定め(宿命)に悩まされぬ者は一人もいない。」
Verse 81
मार्कण्डेय उवाच इति तेषां वचः श्रुत्वा शमीको भगवान् मुनिः । प्रत्युवाच महाभागः समीपस्थायिनो द्विजान् ॥
マールカṇḍेयは言った。かく彼らの言葉を聞き終えると、尊き聖仙シャーミカ—大いなる魂を具えた者—は、近くに立つ二度生まれ(バラモン)たちに答えた。
Verse 82
पूर्वमेव मया प्रोक्तं भवतां सन्निधाविदम् । सामान्यपक्षिणो नैते केऽप्येते द्विजसत्तमाः । ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥
「われはすでに汝らの面前で言った。これらは尋常の鳥ではない、ああ二度生まれの中の最勝者よ。これらは稀有なる存在であり、戦いにおいてさえ、超人的なあり方により『五の状態』(すなわち死)に至らなかったのだ。」
Verse 83
ततः प्रीतिमता तेन तेऽनुज्ञाता महात्मना । जग्मुः शिखरिणां श्रेष्ठं विन्ध्यं द्रुमलतायुतम् ॥
それから、満足したその大いなる魂の者より慈しみ深く許しを得て、彼らは退出し、樹木と蔓草に満ちた山々の第一たるヴィンディヤ山へと赴いた。
Verse 84
यावदद्य स्थितास्तस्मिन्नचले धर्मपक्षिणः । तपः स्वाध्यायनिरताः समाधौ कृतनिश्चयाः ॥
今日に至るまで、ダルマパクシンの鳥たちはその山にとどまり、苦行(タパス)とヴェーダの自習(スヴァーディヤーヤ)に励み、三昧(サマーディ)という深い観想の没入に堅く住している。
Verse 85
इति मुनिवरलब्धसत्क्रियास्ते मुनितनया विहगत्वमभ्युपेताः । गिरिवरगहनेऽतिपुण्यतोये यतमनसो निवसन्ति विन्ध्यपृष्ठे ॥
かくして、最勝の聖仙たちより相応の敬意と饗応を受けたその仙人の子らは、鳥としての境涯を受け入れた。心を制し、ヴィンドゥヤ山の斜面に住し、きわめて聖なる水を湛える壮麗な山林に憩う。
The chapter centers on a dharma-conflict between satya-vākya (keeping a pledged word) and the moral limits of fulfilling that pledge through हिंसा/self-destruction. The birds argue that a son is not obliged to “pay debts” by surrendering his body for another’s promise, while Indra frames the episode as a test that clarifies the hierarchy and intent of dharmic action.
This Adhyāya is not a Manvantara-catalogue segment; it advances the Purāṇic frame-tale by explaining the origin, curse, and spiritual trajectory of the dharmapakṣiṇaḥ, thereby setting up later didactic exchanges rather than detailing Manu lineages or cosmic durations.
It does not belong to the Devī Māhātmya cycle (Adhyāyas 81–93). Its distinctive contribution is the lineage-and-causality account (vaṃśa/karma) behind the ‘wise birds’ framework and a compact moral psychology of the inner enemies (kāma, krodha, lobha, moha) that later Purāṇic and śāstric traditions frequently reuse.