स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते । मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥ तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् । द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥ तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥ तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः ॥
स्वाधिष्ठानम् । तत् । चक्रम् । मेढ्रम् । एव । निगद्यते । मणि-वत् । तन्तुना । यत्र । वायुना । पूरितम् । वपुः । तत् । नाभि-मण्डलम् । चक्रम् । प्रोच्यते । मणि-पूरकम् । द्वादश-अरम् । महा-चक्रे । पुण्य-पाप-नियन्त्रितः । तावत् । जीवः । भ्रमति । एवम् । यावत् । तत्त्वम् । न । विन्दति । ऊर्ध्वम् । मेढ्रात् । अथः । नाभेः । कन्दः । यः । अस्ति । खग-अण्ड-वत् । तत्र । नाड्यः । समुत्पन्नाः । सहस्राणि । द्वि-सप्ततिः । तेषु । नाडी-सहस्रेषु । द्वि-सप्ततिः । उदाहृताः ।
svādhiṣṭhānaṃ tataś cakraṃ meḍhram eva nigadyate | maṇivattantunā yatra vāyunā pūritaṃ vapuḥ || tan nābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam | dvādaśāramahācakre puṇyapāpaniyantritaḥ || tāvaj jīvo bhramaty evaṃ yāvat tattvaṃ na vindati | ūrdhvaṃ meḍhrād atho nābheḥ kando yo'sti khagāṇḍavat || tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ | teṣu nāḍīsahasreṣu dvisaptatir udāhṛtāḥ ||
स्वाधिष्ठान चक्र लिंग के पास है। वहाँ मोती जैसी डोर से शरीर हवा से भरता है। नाभि के चक्र को मणिपूरक कहते हैं। उस बड़े चक्र में बारह स्पोक्स हैं, पुण्य पाप से चलता है। जीव तब तक भटकता है जब तक सच नहीं मिलता। लिंग के ऊपर नाभि के नीचे कंद है, अंडे जैसा। वहाँ से बात्तर हज़ार नाड़ियाँ निकलती हैं, इनमें से बात्तर खास हैं।
Then the wheel called Svādhiṣṭhāna is said to be at the genitals. There, by a thread-like channel resembling a jewel, the body is filled by the vital wind. That wheel at the region of the navel is called Maṇipūraka. In the great wheel with twelve spokes, the (individual) being is controlled by merit and demerit. Thus the jīva wanders so long as it does not find the Reality. Above the genitals and below the navel there is a bulb (kanda) shaped like a bird’s egg. From there the nāḍīs arise—seventy-two thousand. Among those thousands of nāḍīs, seventy-two are especially spoken of.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.