Sukta 9.13
वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः । दधन्विरे गभस्त्योः ॥
वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नव॑: । द॒ध॒न्वि॒रे गभ॑स्त्योः ॥
vāśrā́ arṣántī́ndavo ’bhí vatsáṃ ná dhenávaḥ | dadhanviré gabhástyoḥ ||
The bright Soma drops stream, like lowing cows toward the calf; they settle and uphold themselves in the two hands—finding a firm hold in the grasp of the offering and the seeker.
वा॒श्राः । अ॒र्ष॒न्ति॒ । इन्द॑वः । अ॒भि । व॒त्सम् । न । धे॒नवः॑ । द॒ध॒न्वि॒रे । गभ॑स्त्योः ॥वाश्राः । अर्षन्ति । इन्दवः । अभि । वत्सम् । न । धेनवः । दधन्विरे । गभस्त्योः ॥vāśrāḥ | arṣanti | indavaḥ | abhi | vatsam | na | dhenavaḥ | dadhanvire | gabhastyoḥ