Sukta 8.21
नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः । विद्मा पुरा परीणसः ॥
नूत्ना॒ इदि॑न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते॑ अद्रिवः । वि॒द्मा पु॒रा परी॑णसः ॥
nū́tnā íd índra te vayám ūtī́ abhūma náhi nū́ te adrivaḥ | vidmā́ purā́ parī́ṇasaḥ ||
New indeed are we become in thy protection, O Indra; for truly, O wielder of the stone, we know thy former widenesses—thy powers that encompassed us before.
नूत्नाः॑ । इत् । इ॒न्द्र॒ । ते॒ । व॒यम् । ऊ॒ती । अ॒भू॒म॒ । न॒हि । नु । ते॒ । अ॒द्रि॒ऽवः॒ । वि॒द्म । पु॒रा । परी॑णसः ॥नूत्नाः । इत् । इन्द्र । ते । वयम् । ऊती । अभूम । नहि । नु । ते । अद्रिवः । विद्म । पुरा । परीणसः ॥nūtnāḥ | it | indra | te | vayam | ūtī | abhūma | nahi | nu | te | adri-vaḥ | vidma | purā | parīṇasaḥ