Sukta 8.21
अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः । सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥
अच्छा॑ च त्वै॒ना नम॑सा॒ वदा॑मसि॒ किं मुहु॑श्चि॒द्वि दी॑धयः । सन्ति॒ कामा॑सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धिय॑: ॥
ácchā ca tvā enā námasā vádāmasi kím múhuś cid ví dīdhayaḥ | sánti kā́māso harivo dadíṣ ṭváṃ smó vayáṃ sánti no dhíyaḥ ||
Toward thee we speak with this reverence: why should we again and again be scattered in our thoughts? For desires are here, O lord of the tawny steeds; thou art the giver—and in us too there are thoughts that can become luminous.
अच्छ॑ । च॒ । त्वा॒ । ए॒ना । नम॑सा । वदा॑मसि । किम् । मुहुः॑ । चि॒त् । वि । दी॒ध॒यः॒ । सन्ति॑ । कामा॑सः । ह॒रि॒ऽवः॒ । द॒दिः । त्वम् । स्मः । व॒यम् । सन्ति॑ । नः॒ । धियः॑ ॥अच्छ । च । त्वा । एना । नमसा । वदामसि । किम् । मुहुः । चित् । वि । दीधयः । सन्ति । कामासः । हरिवः । ददिः । त्वम् । स्मः । वयम् । सन्ति । नः । धियः ॥accha | ca | tvā | enā | namasā | vadāmasi | kim | muhuḥ | cit | vi | dīdhayaḥ | santi | kāmāsaḥ | hari-vaḥ | dadiḥ | tvam | smaḥ | vayam | santi | naḥ | dhiyaḥ