Sukta 8.21
त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि । संस्थे जनस्य गोमतः ॥
त्वया॑ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं॑ वृषभ ब्रुवीमहि । सं॒स्थे जन॑स्य॒ गोम॑तः ॥
tváyā ha svíd yujā́ vayám práti śvasántaṃ vṛṣabha bruvīmahi | saṃsthé jánasya gómatáḥ ||
With thee as yoked companion, we answer the panting resistance, O Bull of strength; we speak back to it. In the firm station of the people’s luminous abundance, establish us.
त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । प्रति॑ । श्व॒सन्त॑म् । वृ॒ष॒भ॒ । ब्रु॒वी॒म॒हि॒ । सं॒स्थे । जन॑स्य । गोऽम॑तः ॥त्वया । ह । स्वित् । युजा । वयम् । प्रति । श्वसन्तम् । वृषभ । ब्रुवीमहि । संस्थे । जनस्य । गोमतः ॥tvayā | ha | svit | yujā | vayam | prati | śvasantam | vṛṣabha | bruvīmahi | saṃsthe | janasya | go--mataḥ