Sukta 7.21
सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र । वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥
सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र । व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥
sákhāyas ta indra viśváha syāma namovṛdhā́so mahinā́ tarutra | vánvantu smā́ te ’vásā samīké ’bhītím aryo vánuṣāṃ śávāṃsi ||
May we be thy comrades always, O Indra, increasing in the power of surrender, crossing beyond by thy greatness. Let the strengths of the striving Arya win, by thy help in the encounter, the onrush of fear.
सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ । व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒मी॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥सखायः । ते । इन्द्र । विश्वह । स्याम । नमःवृधासः । महिना । तरुत्र । वन्वन्तु । स्म । ते । अवसा । समीके । अभिइतिम् । अर्यः । वनुषाम् । शवांसि ॥sakhāyaḥ | te | indra | viśvaha | syāma | namaḥ-vṛdhāsaḥ | mahinā | tarutra | vanvantu | sma | te | avasā | samīke | abhi-itim | aryaḥ | vanuṣām | śavāṃsi