Sukta 7.21
न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः । स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुॠतं नः ॥
न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभि॑: । स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुॠ॒तं न॑: ॥
ná yātáva indra jūjuvur no ná vándanā śaviṣṭha vedyā́bhiḥ | sá śardhad aryó víṣuṇasya jántor mā́ śiśnádevā́ ápi guḥ ṛtáṃ naḥ ||
Let no wanderers, O Indra, overpower us, nor empty flatteries with their ritual knowings, O most mighty. May the noble one break the onslaught of the perverse being; let not the false-worshippers cover up our ṛta.
न । या॒तवः॑ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द॑ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः॑ । सः । श॒र्ध॒त् । अ॒र्यः । विषु॑णस्य । ज॒न्तोः । मा । शि॒श्नऽदे॑वाः । अपि॑ । गुः॒ । ऋ॒तम् । नः॒ ॥न । यातवः । इन्द्र । जूजुवुः । नः । न । वन्दना । शविष्ठ । वेद्याभिः । सः । शर्धत् । अर्यः । विषुणस्य । जन्तोः । मा । शिश्नदेवाः । अपि । गुः । ऋतम् । नः ॥na | yātavaḥ | indra | jūjuvuḥ | naḥ | na | vandanā | śaviṣṭha | vedyābhiḥ | saḥ | śardhat | aryaḥ | viṣuṇasya | jantoḥ | mā | śiśna-devāḥ | api | guḥ | ṛtam | naḥ