Sukta 6.21
यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु । कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥
यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्र॒: कमा जनं॑ चरति॒ कासु॑ वि॒क्षु । कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥
yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu | kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā ||
He who has done these deeds—where indeed is that Indra? To which people does he move, in what clans? Which offering brings peace to your mind for the choosing? Which hymn is it, Indra—and which is the priest who bears it?
यः । ता । च॒कार॑ । सः । कुह॑ । स्वि॒त् । इन्द्रः॑ । कम् । आ । जन॑म् । च॒र॒ति॒ । कासु॑ । वि॒क्षु । कः । ते॒ । य॒ज्ञः । मन॑से । शम् । वरा॑य । कः । अ॒र्कः । इ॒न्द्र॒ । क॒त॒मः । सः । होता॑ ॥यः । ता । चकार । सः । कुह । स्वित् । इन्द्रः । कम् । आ । जनम् । चरति । कासु । विक्षु । कः । ते । यज्ञः । मनसे । शम् । वराय । कः । अर्कः । इन्द्र । कतमः । सः । होता ॥yaḥ | tā | cakāra | saḥ | kuha | svit | indraḥ | kam | ā | janam | carati | kāsu | vikṣu | kaḥ | te | yajñaḥ | manase | śam | varāya | kaḥ | arkaḥ | indra | katamaḥ | saḥ | hotā