Sukta 6.21
इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः । ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥
इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः । ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥
idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ puru-kṛt sakhāyaḥ | ye madyamāsa uta nūtanāsa uta avamasya puruhūta bodhi ||
For even now, your eager companions are there—ancient-born allies, doers of many works. Those of the middle time, and those who are new, and even of the last: become aware of them, O much-invoked.
इ॒दा । हि । ते॒ । वेवि॑षतः । पु॒रा॒ऽजाः । प्र॒त्नासः॑ । आ॒सुः । पु॒रु॒ऽकृ॒त् । सखा॑यः । ये । म॒द्य॒मासः॑ । उ॒त । नूत॑नासः । उ॒त । अ॒व॒मस्य॑ । पु॒रु॒ऽहू॒त॒ । बो॒धि॒ ॥इदा । हि । ते । वेविषतः । पुराजाः । प्रत्नासः । आसुः । पुरुकृत् । सखायः । ये । मद्यमासः । उत । नूतनासः । उत । अवमस्य । पुरुहूत । बोधि ॥idā | hi | te | veviṣataḥ | purājāḥ | pratnāsaḥ | āsuḥ | puru-kṛt | sakhāyaḥ | ye | madyamāsaḥ | uta | nūtanāsaḥ | uta | avamasya | puru-hūta | bodhi