Sukta 6.21
स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार । कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥
स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार । क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ॥
sa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavat cakāra | kadā te martā amṛtasya dhāma iyakṣanto na minanti svadhāvaḥ ||
He indeed stretched out the darkness that is without right discernment; with the Sun he made it full of luminous order. When shall your mortals, offering into the home of immortality, no longer diminish—O self-powered One?
सः । इत् । तमः॑ । अ॒व॒यु॒नम् । त॒त॒न्वत् । सूर्ये॑ण । व॒युन॑ऽवत् । च॒का॒र॒ । क॒दा । ते॒ । मर्ताः॑ । अ॒मृत॑स्य । धाम॑ । इय॑क्षन्तः । न । मि॒न॒न्ति॒ । स्व॒धा॒ऽवः॒ ॥सः । इत् । तमः । अवयुनम् । ततन्वत् । सूर्येण । वयुनवत् । चकार । कदा । ते । मर्ताः । अमृतस्य । धाम । इयक्षन्तः । न । मिनन्ति । स्वधावः ॥saḥ | it | tamaḥ | avayunam | tatanvat | sūryeṇa | vayuna-vat | cakāra | kadā | te | martāḥ | amṛtasya | dhāma | iyakṣantaḥ | na | minanti | svadhāvaḥ