Sukta 4.13
ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा । अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति ॥
ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ । अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ॥
ūrdhvám bhānúṃ savitā́ devó aśret drapsáṃ davídhvad gaviṣó ná satvā́ | ánu vratáṃ váruṇo yanti mítró yát sū́ryaṃ divy ā́rohayanti ||
Savitṛ has lifted the upward beam, the god, setting the shining drop in motion like a vigorous seeker of the Light. Varuṇa and Mitra move according to the Law, when they cause the Sun to mount in heaven.
ऊ॒र्ध्वम् । भा॒नुम् । स॒वि॒ता । दे॒वः । अ॒श्रे॒त् । द्र॒प्सम् । दवि॑ध्वत् । गो॒ऽइ॒षः । न । सत्वा॑ । अनु॑ । व्र॒तम् । वरु॑णः । य॒न्ति॒ । मि॒त्रः । यत् । सूर्य॑म् । दि॒वि । आ॒ऽरो॒हय॑न्ति ॥ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । द्रप्सम् । दविध्वत् । गोइषः । न । सत्वा । अनु । व्रतम् । वरुणः । यन्ति । मित्रः । यत् । सूर्यम् । दिवि । आरोहयन्ति ॥ūrdhvam | bhānum | savitā | devaḥ | aśret | drapsam | davidhvat | go--iṣaḥ | na | satvā | anu | vratam | varuṇaḥ | yanti | mitraḥ | yat | sūryam | divi | ārohayanti