Sukta 4.13
प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम् । यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेय॑म् । या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥
práti agnír uṣásām ágram akhyad vibhātīnā́ṃ su-manā́ ratna-dhéyam | yā́tam aśvinā su-kṛ́to duroṇám ut sū́ryo jyótiṣā devá eti ||
Agni has looked forth to the forefront of the Dawns, among the breakings of light, with a happy mind bearing the treasure. Come, O Aśvins, to the well-built home; and the Sun, the god, rises upward with his light.
प्रति॑ । अ॒ग्निः । उ॒षसा॑म् । अग्र॑म् । अ॒ख्य॒त् । वि॒ऽभा॒ती॒नाम् । सु॒ऽमनाः॑ । र॒त्न॒ऽधेय॑म् । या॒तम् । अ॒श्वि॒ना॒ । सु॒ऽकृतः॑ । दु॒रो॒णम् । उत् । सूर्यः॑ । ज्योति॑षा । दे॒वः । ए॒ति॒ ॥प्रति । अग्निः । उषसाम् । अग्रम् । अख्यत् । विभातीनाम् । सुमनाः । रत्नधेयम् । यातम् । अश्विना । सुकृतः । दुरोणम् । उत् । सूर्यः । ज्योतिषा । देवः । एति ॥prati | agniḥ | uṣasām | agram | akhyat | vi-bhātīnām | su-manāḥ | ratna-dheyam | yātam | aśvinā | su-kṛtaḥ | duroṇam | ut | sūryaḥ | jyotiṣā | devaḥ | eti