Sukta 4.13
यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । तं सूर्यं हरितः सप्त यह्वीः स्पशं विश्वस्य जगतो वहन्ति ॥
यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म् । तं सूर्यं॑ ह॒रित॑: स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥
yáṃ sīm ákṛṇvan támase vipṛ́ce dhruvá-kṣemā anava-syánto ártham | táṃ sū́ryaṃ harítaḥ saptá yahvī́ḥ spáśaṃ víśvasya jágato vahanti ||
Him whom they made to be the discerner against the darkness, seeking the aim with steadfast security—this Sun the seven impetuous Harits bear, the spy and witness of all that moves.
यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् । तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥यम् । सीम् । अकृण्वन् । तमसे । विपृचे । ध्रुवक्षेमाः । अनवस्यन्तः । अर्थम् । तम् । सूर्यम् । हरितः । सप्त । यह्वीः । स्पशम् । विश्वस्य । जगतः । वहन्ति ॥yam | sīm | akṛṇvan | tamase | vi-pṛce | dhruva-kṣemāḥ | anava-syantaḥ | atharm | tam | sūryam | haritaḥ | sapta | yahvīḥ | spaśam | viśvasya | jagataḥ | vahanti