Sukta 3.21
घृतवन्तः पावक ते स्तोकाः श्चोतन्ति मेदसः । स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
घृ॒तव॑न्तः पावक ते स्तो॒काः श्चो॑तन्ति॒ मेद॑सः । स्वध॑र्मन्दे॒ववी॑तये॒ श्रेष्ठं॑ नो धेहि॒ वार्य॑म् ॥
ghṛtávantaḥ pāvaka te stokā́ḥ ścotanti médasaḥ | svádharman devávītaye śréṣṭhaṃ no dhehi vā́ryam ||
O Purifier, your drops—laden with clarified light—drip with concentrated essence. O you of your own true law, for the welcoming of the gods establish in us the best desirable plenitude.
घृ॒तऽव॑न्तः । पा॒व॒क॒ । ते॒ । स्तो॒काः । श्चो॒त॒न्ति॒ । मेद॑सः । स्वऽध॑र्मन् । दे॒वऽवी॑तये । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् ॥घृतवन्तः । पावक । ते । स्तोकाः । श्चोतन्ति । मेदसः । स्वधर्मन् । देववीतये । श्रेष्ठम् । नः । धेहि । वार्यम् ॥ghṛta-vantaḥ | pāvaka | te | stokāḥ | ścotanti | medasaḥ | sva-dharman | deva-vītaye | śreṣṭham | naḥ | dhehi | vāryam