Sukta 3.13
स यन्ता विप्र एषां स यज्ञानामथा हि षः । अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥
स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः । अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥
sá yantā́ vípra eṣā́ṃ sá yajñā́nām áthā hí ṣáḥ | agníṃ táṃ vo duvasyata dā́tā yó vánitā mágham ||
He is the guide, the seer of these workings; he is indeed the leader of the sacrifices. Serve that Agni: he is the giver who wins for us the plenitude of delight and power.
सः । य॒न्ता । विप्रः॑ । ए॒षा॒म् । सः । य॒ज्ञाना॑म् । अथ॑ । हि । सः । अ॒ग्निम् । तम् । वः॒ । दु॒व॒स्य॒त॒ । दाता॑ । यः । वनि॑ता । म॒घम् ॥सः । यन्ता । विप्रः । एषाम् । सः । यज्ञानाम् । अथ । हि । सः । अग्निम् । तम् । वः । दुवस्यत । दाता । यः । वनिता । मघम् ॥saḥ | yantā | vipraḥ | eṣām | saḥ | yajñānām | atha | hi | saḥ | agnim | tam | vaḥ | duvasyata | dātā | yaḥ | vanitā | magham