Sukta 3.13
स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा । यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥
स न॒: शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा । यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥
sá naḥ śármāṇi vītáye ’gnír yacchatu śáṃtamā | yáto naḥ pruṣṇávad vásu diví kṣitíbhyó apsv ā́ ||
May Agni grant us the most peace-giving shelters for our enjoyment; from him may there come to us the shining wealth—here on earth, in the heaven above, and in the waters within—so our being is made full.
सः । नः॒ । शर्मा॑णि । वी॒तये॑ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्ऽत॑मा । यतः॑ । नः॒ । प्रु॒ष्णव॑त् । वसु॑ । दि॒वि । क्षि॒तिऽभ्यः॑ । अ॒प्ऽसु । आ ॥सः । नः । शर्माणि । वीतये । अग्निः । यच्छतु । शम्तमा । यतः । नः । प्रुष्णवत् । वसु । दिवि । क्षितिभ्यः । अप्सु । आ ॥saḥ | naḥ | śarmāṇi | vītaye | agniḥ | yacchatu | śam-tamā | yataḥ | naḥ | pruṣṇavat | vasu | divi | kṣiti-bhyaḥ | ap-su | ā