Sukta 3.13
ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः । हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥
ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तय॑: । ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥
ṛtā́vā yásya ródasī dákṣaṃ sácanta ūtáyaḥ | havíṣmantas tám īḷate táṃ saniṣyánto ávase ||
He is the keeper of Ṛta: for him Heaven and Earth join their skill and their help. Those who bear the offering adore him, seeking to win him for protection and the right guidance.
ऋ॒तऽवा॑ । यस्य॑ । रोद॑सी॒ इति॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ । ह॒विष्म॑न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः॑ । अव॑से ॥ऋतवा । यस्य । रोदसी इति । दक्षम् । सचन्ते । ऊतयः । हविष्मन्तः । तम् । ईळते । तम् । सनिष्यन्तः । अवसे ॥ṛta-vā | yasya | rodasī iti | dakṣam | sacante | ūtayaḥ | haviṣmantaḥ | tam | īḷate | tam | saniṣyantaḥ | avase