Amritnada
व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति । अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् ॥३६॥
व्यानः । सर्वेषु । च । अङ्गेषु । सदा । व्यावृत्य । तिष्ठति । अथ । वर्णाः । तु । पञ्चानाम् । प्राण-आदीनाम् । अनुक्रमात् ॥
vyānaḥ sarveṣu cāṅgeṣu sadā vyāvṛtya tiṣṭhati | atha varṇāstu pañcānāṃ prāṇādīnām anukramāt ||36||
遍行气(Vyāna)周遍一切,恒常扩展而住于诸肢体之中。今当依次宣说五种气——自普拉那(prāṇa)起——各自之色相。
Vyāna, pervading, stands always spread throughout all the limbs. Now (are stated) the colors of the five—beginning with prāṇa—in due order.