Amritnada
रक्तवर्णो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः । अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः ॥३७॥
रक्त-वर्णः । मणि-प्रख्यः । प्राणः । वायुः । प्रकीर्तितः । अपानः । तस्य । मध्ये । तु । इन्द्रगोप-सम-प्रभः ॥
raktavarṇo maṇiprakhyaḥ prāṇo vāyuḥ prakīrtitaḥ | apānastasya madhye tu indragopasamaprabhaḥ ||37||
普拉那风(prāṇa-vāyu)被宣说为赤红之色,灿然如宝珠。其间的下行气(apāna)则光泽如因陀罗瞿波虫。
Prāṇa-vāyu is declared to be red in color, resembling a jewel. And apāna, in its midst, is of a luster like that of an indragopa (insect).