
Īśvara向Devī讲述一段系于普拉婆娑(Prabhāsa)圣地的神学故事。女神萨拉斯瓦蒂(Sarasvatī)得赐与“瓦达瓦那罗”(Vaḍavānala,海底毁灭之火)相关的恩许后,奉神命前往普拉婆娑,召唤大海。大海以神圣庄严之美与随从显现;萨拉斯瓦蒂称颂其为众生原初依止,并请求其为诸天之旨意收纳瓦达瓦之火。 大海思量后允诺受火;火势炽盛,水族惊惧。此时毗湿奴(Viṣṇu,阿周多/灭阿修罗者)降临,安抚水中众生,并命伐楼那/大海将瓦达瓦那罗投于深渊,使其在深水中受控而住,仿佛“饮海”。当大海忧惧海水将竭,毗湿奴令海水无尽,维系宇宙均衡。 随后叙事落实为行持:萨拉斯瓦蒂由一条有名之路入海,献阿尔伽(arghya),并安立阿尔伽耶湿伐罗(Arghyeśvara);又说她在东南方近索梅湿伐罗(Somēśa)处驻立,与瓦达瓦那罗相系。章末给出阿格尼提尔塔(Agnitīrtha)朝圣法:沐浴、礼拜、施衣食于夫妇并敬奉摩诃提婆(Mahādeva);并提及恰克舒沙与毗婆斯瓦特两摩奴期(manvantara),宣说闻此事迹能灭罪、增福德与名闻。
Verse 1
ईश्वर उवाच । सरस्वती वरं प्राप्य वरिष्ठं वडवानलात् । पुनस्तं सागरे क्षेप्तुमुद्यता सा मनस्विनी
自在天(Īśvara)曰:萨拉斯瓦蒂从瓦ḍ瓦那罗(Vāḍavānala)得最胜之愿后,那心志坚决者又准备再将他投入大海。
Verse 2
देवादेशात्प्रभासस्य पुरतः संस्थिता तदा । समुद्रमाहूय तदा वाडवार्पणकांक्षिणी
奉诸天之命,她当时立于普罗婆娑之前;召唤大海,愿将瓦陀婆之火作为供品托付于他。
Verse 3
त्वमादिः सर्वदेवानां त्वं प्राणः प्राणिनां सदा । देवादेशाद्गृहाण त्वमागत्यार्णव वाडवम्
“你是一切诸天之本源;你恒为众生之生命气息。故奉诸天之命,出来吧,噢大海,受纳瓦陀婆。”
Verse 4
एवं संचिंतितो देव्या यदासावंभसांपतिः । तथा जलात्समुत्तीर्य समायातो महाद्युतिः
女神如此思惟之时,众水之主便自海中升起而来,光辉灿然,威耀无比。
Verse 5
तं दृष्ट्वा विस्मिता देवी दिव्यं विष्णुमिवापरम् । श्यामं कमलपत्राक्षं सागरं सुमनोरमम्
女神见之惊叹——他宛如另一位神圣的毗湿奴:肤色幽青,双目如莲瓣;正是大海自身,美丽无比。
Verse 6
विचित्रमाल्याभरणं चित्रवस्त्रानुलेपनम् । आपगाभिः सरूपाभिः स्त्रीरूपाभिः समावृतम्
他佩戴奇妙花鬘与宝饰,身着华服并涂抹香膏;又有诸河同相环绕,皆现为女身之形。
Verse 7
एवंविधं समालोक्य सा देवी ब्रह्मणः सुता । सरस्वती जलनिधिमुवाचेदं शुचिस्मिता
见他现此形相,梵天之女、圣女萨拉斯瓦蒂含净微笑,向大海——万水之宝藏——说道如下之言。
Verse 8
त्वमग्रजः सर्वभवोद्भवानां त्वं जीवितं जन्मवतां नराणाम् । तस्मात्सुराणां कुरु कार्यमिष्टं वह्निं गृहाण त्वमिहोपनीतम्
你是诸有生起之众的长兄;你是凡人有生者的生命本身。是故,当成就诸天所愿——请在此受纳所奉来的此火。
Verse 9
अत्रांतरे सोऽपि विमृश्य सर्वं कार्यं स्वबुद्ध्या किमिहोपपन्नम् । कृत्वाऽनलस्य ग्रहणं मयेदं कार्यं सुराणां विहितं भवेच्च
其间,他亦以自家慧思审度一切:此处何所为最相应。“若我受此火,则诸天所设之事,必由我而成。”
Verse 10
एवं चिंतयतस्तस्य ग्रहणं रुचितं ततः । वाडवाग्नेः समुद्रस्य सुरपीडाकृते यदा
他如是思惟之时,受纳之意便于心中生起欢喜——当大海为解除诸天之苦而将承受瓦ḍ瓦之火之际。
Verse 11
तदा तेन पुरःस्थेन देवी साभिहिता भृशम् । वाडवं संप्रयच्छैनं सुरशत्रुं सरस्वति
于是他立于她前,恳切对女神说道:“萨拉斯瓦蒂,请将此瓦ḍ瓦——诸天之敌——交付于我。”
Verse 12
ततस्तया प्रणम्याशु पितामहपुरःसरान् । चारणांश्चारुचित्रांग्या सरस्वत्या दिवि स्थितान्
于是,形貌华美奇妙的萨拉斯瓦蒂女神,迅速顶礼于以祖父梵天(Brahmā)为首的诸众,并礼敬安住天界的恰罗那(Cāraṇa)诸圣。
Verse 13
पुनश्च करसंस्थोऽसौ वाडवोऽभिहितस्तया । त्वमपो भक्षयस्वेति सुरैरुक्त इमा इति
又一次,当那瓦达瓦(Vāḍava)被她握在手中时,她对他说:“汝当饮尽这些水。”——这是诸天先前对他的训令。
Verse 14
एवमुक्त्वा समुद्रस्य तदा देव्या समर्प्पितः । वाडवोऽग्निः सरस्वत्या सुरादेशान्महाबलः
言毕,遵奉诸天之命,萨拉斯瓦蒂女神便将那大力的瓦达瓦之火,交付于大海。
Verse 15
तं समर्प्य ततस्तस्मि न्नदी भूत्वा सरस्वती । प्रविष्टा सागरं देवी नारदेश्वरमार्गतः
交付之后,萨拉斯瓦蒂化作一条河流;女神循那罗德施瓦罗(Nāradeśvara)之路,汇入大海。
Verse 16
दैत्यसूदनसांनिध्ये दत्त्वार्घ्यं लवणांभसि । अर्घ्येश्वरं प्रतिष्ठाप्य दैत्यसूदन पश्चिमे
在代底耶苏达那(Daityasūdana)之前,她向咸海之水奉献阿尔伽(arghya);并安立阿尔伽耶湿伐罗(Arghyeśvara),置于代底耶苏达那之西。
Verse 17
ततोऽब्धिं संप्रविष्टा सा पंचस्रोता महानदी । स्वरूपेणैव सा पुण्या पुनः पुण्यतमाऽभवत्
于是,那条分作五道水流的大河汇入大海;她本性即为清净圣洁,而在彼处又再度成为更为至圣。
Verse 18
प्रभासक्षेत्रसंपर्कात्समुद्रस्य च संगमात् । सागरोऽपि समासाद्य सरस्वत्यास्तु वाडवम् । निर्धनो वै धनं प्राप्याचिन्तयत्क्व क्षिपाम्यहम्
因与普罗婆娑圣域相触,又与大海作神圣汇合,连海洋也领受了萨拉斯瓦蒂的“瓦达瓦之火”,遂如贫者忽得财富般沉思:“我当把它安置于何处?”
Verse 19
स तेनैव करस्थेन दीप्य मानेन सागरः । वह्निना शिखरस्थेन भाति मेरुरिवापरः
那大海仿佛以手掌托持着那团炽燃之火而光辉灿然,宛如另一座须弥山,峰顶燃着烈焰。
Verse 20
तं तथाविधमालोक्य तत्र ये जलचारिणः । यादोगणास्ते मुमुचुर्दाहभीता महास्वनम्
见大海呈现那般可怖之相,彼处诸水族——海中众生之群——惧怕被灼烧,发出震天巨吼。
Verse 21
तं श्रुत्वा भैरवं शब्दमायातो दैत्यसूदनः । आह यादोगणान्सर्वान्मा भैष्ट सुमहाबलाः
听到那可怖的声响,诛灭阿修罗者(Daityasūdana)来到,对一切海中众生说道:“莫要畏惧,汝等大力者!”
Verse 22
यस्मादनेन प्रथमा आपो भक्ष्या न तत्रगाः । प्राणिनस्तन्न भेतव्यं भवद्भिस्तु ममाज्ञया
由于此火,那里的水不再像最初那样可被吞噬。因此一切众生不必畏惧——依我之命,你们当安住无惧。
Verse 23
एवमुक्तस्तु कृष्णेन तूष्णींभूता जलेचराः
众水族既蒙克里希纳如此告诫,便都默然无声。
Verse 24
तूष्णींभूतेषु सर्वेषु जलजेषु जलेश्वरम् । प्राहाच्युतः प्रक्षिप त्वमपां मध्ये तु वाडवम्
当一切水生众类尽皆寂然时,阿周陀对水之主说道:“将瓦达瓦之火投于众水之中。”
Verse 25
अगाधेम्भसि तेनासौ निक्षिप्तो वाडवोऽनलः । वरुणेन पिबन्नास्ते तज्जलं सुमहाबलः
于是瓦达瓦之火被投入深不可测的水中;它威力宏大而受制约,安住其间——借由伐楼那,恒常饮取那水。
Verse 26
तस्योच्छ्वासानिलोद्धूतं तत्तोयं सागराद्बहिः । निर्मर्यादेव युवतिरितश्चेतश्चधावति
被其呼出之风所驱,那水被抛掷出海之外,四方奔走,如无拘无界的少女般纵逸。
Verse 27
अथ काले गते देवि शुष्यत्यंबु शनैःशनैः । विदित्वा क्षीयमाणास्ता अपो जलनिधिस्ततः
时日推移,女神啊,诸水渐渐干涸。觉知那水量日益减少,大海于是心生惊惧。
Verse 28
आहैवं पुंडरीकाक्षमपः कुरु त्वमक्षयाः । अन्यथा सर्वनाशेन जलानां मामिहाग्रतः । भक्षयिष्यत्यसौ वह्निर्वाडवो हि जनार्द्दन
他对莲眼之主说道:“请令诸水无尽不竭。否则,就在我眼前,那瓦ḍ瓦之火必将把我尽数吞噬,使水界尽遭毁灭,哦,阇那尔达那。”
Verse 29
एतच्छ्रुत्वा वचस्तस्य समुद्रस्य तु भीषणम् । कृतं तदक्षयं तोयमा त्मनो भयनाशनम्
听闻大海那骇人的言辞,他便令水成为不竭之源,从而消除威胁其自身存续的恐惧。
Verse 30
ज्ञात्वा सुराः सर्वमिदं विचेष्टितं कृत्यानलस्यास्य निबंधनं तथा । प्रलोभनं तोयपुरःसरा द्विषः पुपूजिरे केशवमत्र चारिणम्
诸天明了这一切经过——那凶火如何被系缚制伏,仇敌又如何被以水为先导而诱引前行——便在彼处礼敬供奉行止其间的凯沙瓦。
Verse 31
एवं सरस्वती प्राप्ता प्रभासं क्षेत्रमुत्तमम् । ब्रह्मलोकान्महादेवि सर्वपापप्रणाशिनी
于是,萨拉斯瓦蒂自梵天界而来,抵达至上的圣域普拉婆娑,伟大女神啊——她能摧灭一切罪垢。
Verse 32
सोमेशाद्दक्षिणाग्नेये सागरस्य समी पतः । संस्थिता तु महादेवी वडवानलधारिणी
在苏摩伊沙(Someśa)之东南、近大海处,伟大的女神安住其地——她执持瓦达瓦那拉(海底之火)。
Verse 33
स्नात्वाऽग्नितीर्थे पूर्वं तां पूजयेद्विधिना नरः । दंपत्योर्भोजनं तत्र परिधानं सकञ्चु कम्
先在阿耆尼圣渡(Agni-tīrtha)沐浴后,行者应依正仪礼敬拜女神。于彼处亦当供养一对夫妇饮食,并施赠衣服与贴身上衣(kāñcuka)。
Verse 34
दत्त्वा ततो महादेवं पूजयेच्च कपर्द्दिनम् । इति वृत्तं पुरा देवि चाक्षुषस्यांतरेऽभवत्
献供之后,当再礼拜大自在天(Mahādeva)——卡帕尔丁(Kaparddin,结发之主)。如是,女神啊,此事发生于上古,在恰克舒沙(Cākṣuṣa)摩奴劫之中。
Verse 35
दधीच्यन्वयजातस्य वाडवस्य महा त्मनः । अस्मिन्पुनर्महादेवि प्राप्ते वैवस्वतेंऽतरे । और्वस्तु भार्गवे वंशे समुत्पन्नो महाद्विजः
达提奇(Dadhīci)之族系中,诞生了大心之士瓦达瓦(Vāḍava)。其后又一次,伟大女神啊,当毗婆斯瓦特(Vaivasvata)摩奴劫到来时,奥尔瓦(Aaurva)这位大婆罗门,生于婆尔伽瓦(Bhārgava)一脉。
Verse 36
संक्षिप्तोऽसौ सरस्वत्या देवमात्रा महाप्रभः । तावत्स्थास्यत्यपां गर्भे यावन्मन्वतरावधिः
那位威德之者被圣母萨拉斯瓦蒂(Sarasvatī)收摄压藏。直至摩奴劫终了,他将安住于水之胎藏之中。
Verse 37
इति ते कथितं देवि सरस्वत्याः समुद्भवम् । श्रुतं पापहरं नृणां कीर्त्तिदं पुण्यवर्द्धनम्
如是,女神啊,我已向你宣说萨拉斯瓦蒂(Sarasvatī)的显现。此事若得闻听,能除众生罪垢,赐予名声,并增长福德功德。