Adhyaya 41
Prabhasa KhandaDvaraka MahatmyaAdhyaya 41

Adhyaya 41

本章以普罗诃罗陀(Prahlāda)之名展开一段神学与仪轨的开示,赞叹在德瓦拉卡(Dvārakā)所行的奉爱与祖先祭仪功德倍增,尤以戈摩蒂河(Gomatī)为关键。经文称:于戈摩蒂沐浴后,以鸡蛋花(ketakī)与圣罗勒(tulasī)等供品礼拜克里希纳(Kṛṣṇa)者,得无比吉祥,并蒙护佑免受严酷轮回(saṃsāra)之缠缚;以果报颂(phala-śruti)的语气,更说其功德近乎趋向“不死”。 又言:在德瓦拉卡供养哪怕一人,其果胜过他处供养无量众;仅以心念忆持德瓦拉卡,亦能焚除过去、现在与未来之罪业。于迦利时代(Kali-yuga),常令身心归向德瓦拉卡,被视为人身目的已得圆满的标志。 本章并将德瓦拉卡与祖灵安乐相连:称诸祖灵众(pitṛ-gaṇa)居于其地;先浴戈摩蒂,再以芝麻水(tila-water)作供,并行施食祭(śrāddha)与团食供(piṇḍa-dāna),其功德无尽,令祖先长久满足。文中亦提及日月食、vyatīpāta、saṅkrānti、vaidhr̥ti 等时标与历法斋期,以明示择时之义,并在诸圣地(tīrtha)的广阔版图中凸显德瓦拉卡之殊胜。

Shlokas

Verse 1

श्रीप्रह्लाद उवाच । धन्यास्तु नरलोकास्ते गोमत्यां तु कृतोदकाः । पूजयिष्यंति ये कृष्णं केतकीतुलसीदलैः

圣·普罗诃罗陀曰:人间之中,凡于戈摩提河沐浴净身者,实为有福;又以鸡蛋花(ketakī)与圣罗勒叶(tulasī)供奉克里希纳者,亦同蒙祝福。

Verse 2

न तेषां संभवोऽस्तीह घोरसंसा रगह्वरे । तेषां मृत्युः पुनर्नास्ति ह्यमरत्वं हि ते गताः

于彼等而言,不复再入可怖的轮回深窟;于彼等而言,死亡不再重临,实已证得不死之境。

Verse 3

अन्यत्र वै यतीनां तु कोटीनां यत्फलं भवेत् । द्वारकायां तु चैकेन भोजितेन ततोऽधिकम्

在他处供养千万苦行者所得之福果——于德瓦拉卡,哪怕仅供养一位,也胜过彼处之果报。

Verse 4

अतीतं वर्त्तमानं च भविष्यद्यच्च पातकम् । निर्द्दहेन्नास्ति संदेहो द्वारका मनसा स्मृता

过去、现在,乃至将来可能生起的罪业——毫无疑问——只要心中忆念德瓦拉卡,皆被焚尽。

Verse 5

ज्ञात्वा कलियुगे घोरे हाहाभूतमचेतनम् । द्वारकां ये न मुञ्चन्ति कृतार्थास्ते नरोत्तमाः

知晓在可怖的迦梨时代,人们迷乱失智,哀号“哈啊、哈啊”,丧失正辨;而那些不舍离德瓦拉卡的至善之人,方是真正圆满此生者。

Verse 6

मृतानां यत्र जंतूनां श्वेतद्वीपे स्थितिः सदा

于彼处,凡已逝之众生,恒得安住于白岛(Śvetadvīpa)之定所。

Verse 7

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपाश्च ये । एकविंशतिः पितृगणा द्वारकायां वसंति ते

诸祖灵众(Pitṛ)——阿耆尼湿瓦塔、婆梨湿达、阿阇耶波与苏摩波等——确然,二十一类祖灵群皆居于德瓦拉卡。

Verse 8

पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा । कुरुक्षेत्रादि क्षेत्राणि काश्यादीन्यूषराणि च

普什迦罗等诸圣地渡口,恒河等诸圣河,俱卢之野等诸神圣区域,以及迦尸等著名圣境——皆在此处汇聚呈现。

Verse 9

गयादिपितृतीर्थानि प्रभासाद्यानि यानि च । स्थानानि यानि पुण्यानि ग्रामाश्च निवसंति वै

从伽耶起的祖灵圣渡(Pitṛ-tīrtha),以及从普罗婆娑起的诸圣地——凡一切福德圣处、清净驻地与被祝圣的村落,确实都在此处安住。

Verse 10

काश्यादिपुर्यो या नित्यं निवसंति कलौ युगे । नित्यं कृष्णस्य सदने पापिनां मुक्तिदे सदा

以迦尸等为首的圣城,即使在迦利时代亦恒常存续;同样,在克里希纳自身的居处——堕罗迦——也恒常施与解脱,纵使罪人亦蒙其恩。

Verse 11

वैशाखशुक्लद्वादश्यां प्रबोधिन्यां शेषतः । वैशाख्यां दैत्यशार्दूल कल्पादिषु युगादिषु

在毗舍佉月白分第十二日——神圣的“普罗菩提尼”(觉醒之日)——以及在毗舍佉月之中亦然;噫,代底耶之虎!在诸劫与诸时代的开端亦复如是。

Verse 12

चंद्रसूर्योपरागेषु मन्वादिषु न संशयः । व्यतीपातेषु संक्रांतौ वैधृतौ दैत्यनायक

在月食与日食之时,在诸摩奴时代(Manvantara)的交接之际——毫无疑问——并且在毗耶提波多(Vyatīpāta)、在桑克兰提(Saṅkrānti)、以及在毗陀利底(Vaidhṛti)之时亦然,噫,代底耶之主。

Verse 13

तिलोदकं च यद्दत्त तत्स्थले पितृभक्तितः । तत्सर्वमक्षयं प्रोक्तं गोमत्यां स्नानपूर्वकम्

在彼处,凡以孝敬祖灵之心所施的芝麻水供(tilodaka)——若先于戈摩提河中沐浴——其一切功德皆被宣说为果报不坏、永不耗尽。

Verse 14

येऽत्र श्राद्धं प्रकुर्वंति पिंडदानपुरःसरम् । तेषामत्राक्षया तृप्तिः पितॄणामुपजायते

凡在此处修行施食祭祖之礼(śrāddha),以供奉团食(piṇḍa)为首要者——在此地,他们的祖灵便生起不坏不尽的满足与安慰。

Verse 41

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थ द्वारकामाहात्म्ये गोमतीस्नान कृष्णपूजन यतिभोजन दान श्राद्धादिसत्फलवर्णनंनामैकचत्वारिंशोऽध्यायः

如是,在神圣的《室建陀摩诃补罗那》——八万一千颂之集(saṃhitā)中——第七卷普罗婆娑分部(Prabhāsa-khaṇḍa)、第四分《堕罗迦圣迹》(Dvārakā Māhātmya)之《第四十一章》至此终了,章名为:“叙述于戈摩提沐浴、礼敬克里希那、供养苦行者、布施、施食祭祖(śrāddha)及相关仪轨之吉祥果报”。