
普罗罗私多(Pulastya)劝诫耶耶提(Yayāti)前往“黑天圣渡”Kṛṣṇa-tīrtha,此处恒为黑天/毗湿奴所钟爱,神圣临在不绝。耶耶提请问其缘起,普罗罗私多遂叙述:在大劫毁灭(pralaya)之际,梵天(Brahmā)经无量时后苏醒,遇见戈文达(Govinda),二者争论谁为至上,遂演为久战。 忽有光明无际之林伽(liṅga)显现,空中无形之声命二者分别向上、向下寻其端极,能至尽头者为至尊。毗湿奴下行,遇“劫火鲁陀罗”Kālāgnirudra之相,被烈焰灼烧而成“kṛṣṇatva”(黝黑之态),旋即归来,以吠陀赞颂礼拜林伽。梵天上升不得其终,反携鸡冠花(ketakī)作伪证;大自在天(Mahādeva)遂诅咒梵天之受供地位,并限制ketakī于仪式中之使用,同时称赞毗湿奴守真不妄。 毗湿奴请求林伽缩小以便创世继续;大自在天指示应安置于清净之地。毗湿奴遂于阿尔布达山(Arbuda-parvata)近清泉处建立林伽,此地遂名Kṛṣṇa-tīrtha。章末功德偈(phalaśruti)言:于此沐浴并得见林伽,可获一切圣渡之总功德、布施之果、守斋守夜(Ekādaśī)与祭祖(śrāddha)之利益,灭除重罪;乃至仅以目睹Kṛṣṇa-tīrtha,亦能得清净。
Verse 2
पुलस्त्य उवाच । कृष्णतीर्थं ततो गच्छेत्कृष्णस्य दयितं सदा । यत्र सन्निहितो नित्यं स्वयं विष्णुर्महीपते । ययातिरुवाच । कृष्णतीर्थं कथं तत्र जातं ब्राह्मणसत्तम । कस्मिन्काले मुने ब्रूहि सर्वं विस्तरतो मम
普拉斯提亚说道:“随后应前往克里希那圣渡(Kṛṣṇatīrtha),那是圣克里希那恒常所钟爱之地;大王啊,彼处毗湿奴尊主亲自永恒安住。”耶耶提问道:“最胜婆罗门啊,那里的克里希那圣渡如何出现?圣仙请告知:它是在何时形成的?愿为我详尽开示一切。”
Verse 3
पुलस्त्य उवाच । तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमे । चंद्रार्कपवने नष्टे ज्योतिषि प्रलयं गते
普拉斯提亚说道:“当那可怖的独一大海——劫末溶解之海——遍覆之时;当一切不动与有情众生尽皆灭没;当月、日与诸风消失;当连诸天体光明也归入溶解之时——”
Verse 4
ततो युगसहस्रांते विबुद्धः कमलासनः । एकाकी चिंतयामास कथं सृष्टिर्भवेदिति
随后,在千劫终了之际,莲座之主(梵天)苏醒。独自一人,他沉思道:“创造究竟将如何再度发生?”
Verse 5
भ्रमंश्चापि चतुर्वक्त्रो यावत्पश्यति दूरतः । चतुर्भुजं विशालाक्षं पुरुषं पुरतः स्थितम्
当四面之主(梵天)徘徊寻觅之时,他从远处看见一位神圣的至人(Purusha)立于面前:四臂庄严,双目广大。
Verse 6
तं चोवाच चतुर्वक्त्रः कस्त्वं केन विनिर्मितः । किमर्थमिह संप्राप्तः सर्वं विस्तरतो वद
四面之主对他说道:“你是谁?由谁所造?为何来到此处?请将一切详尽告知。”
Verse 7
तमुवाचाथ गोविंदः प्रहसञ्छ्लक्ष्णया गिरा
于是,戈文达含笑以柔和之语对他说道。
Verse 8
अहमाद्यः पुमानेको मया सृष्टो भवानपि । स्रष्टुमिच्छामि भूयोऽपि भूतग्रामं चतुर्विधम्
“我乃唯一的太初之人(普鲁沙)。连你也是由我所造。我今愿再度生起四类众生之群。”
Verse 9
पुलस्त्य उवाच । तस्य तद्वचनं श्रुत्वा क्रुद्धो देवः पितामहः । अब्रवीत्परुषं वाक्यं भर्त्सयंश्च पुनःपुनः
普拉斯提耶说道:听到那番话,天界的祖父梵天大怒,口出严厉之言,屡屡呵斥于他。
Verse 10
सृष्टस्त्वं हि मया मूढ प्रथमोऽहमसंशयम् । त्वादृशानां सहस्राणि करिष्येऽहमसंशयम्
“愚昧者啊,你乃我所造;我才是第一,毫无疑问。我也必能造出千千万万如你者,毫无疑问!”
Verse 11
एवं विवदमानौ तौ मिथो राजन्महाद्युती । स्पर्धया रोषताम्राक्षौ युयुधाते परस्परम्
于是,王啊,当二者彼此争辩之时,那两位光辉者因争胜而怒目赤红,遂相互交战。
Verse 12
मुष्टिभिर्बाहुभिश्चैव नखैर्दंतैर्विकर्षणैः । एवं वर्षसहस्रं तु तयोर्युद्धमवर्त्तत
他们以拳与臂相搏,以爪与齿相撕,彼此扯裂——如是二者之战延续了一千年。
Verse 13
ततो वर्षसहस्रांते तयोर्मध्ये नृपोत्तम । प्रादुर्भूतं महालिंगं दिव्यं तेजोमयं शुभम्
随后,在一千年期满之时,噢至上之王,在二者之间显现出一座大灵伽——神圣无比,光辉炽盛,吉祥圆满。
Verse 14
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी । युद्धाद्ब्रह्मन्निवर्तस्व त्वं च विष्णो ममाज्ञया
就在那一刻,一道无形之声宣告:“噢梵天啊,退出此战;你也一样,噢毗湿奴——奉我之命,止息吧。”
Verse 15
एतन्माहेश्वरं लिंगं योऽस्य चांते गमिष्यति । स ज्येष्ठः स विभुः कर्त्ता युवयोर्नात्र संशयः
“此乃摩诃伊湿伐罗之灵伽。凡能抵达其尽头者——即为长者,即为遍在之主,乃你们二者之间真正的施为者;对此毫无疑惑。”
Verse 16
अधोभागं व्रजत्वेक एकश्चोर्द्ध्वं ममाज्ञया । तच्छ्रुत्वा सत्वरो ब्रह्मा व्योममार्गं समाश्रितः
“奉我之命,一者前往下方,一者向上而行。”闻此,梵天急速踏上天穹之路。
Verse 17
विदार्य वसुधां कृष्णोऽप्यधस्तात्सत्वरं गतः । स भित्त्वा सप्तपातालानधो यावत्प्रयाति च । तावत्कालाग्निरुद्रस्तु दृष्टस्तेन महात्मना
劈裂大地,黑天(毗湿奴)亦疾速下行。穿破七重帕塔拉幽界,尽其所能下至最深处;在那里,那位大心者得见迦罗阿伽尼鲁陀罗。
Verse 18
गंतुमिच्छंस्ततोऽधस्ताद्यावद्वेगं करोति सः । तावत्तस्यार्चिभिर्दग्धः कृष्णत्वं समपद्यत
他欲更向下行,便竭尽全速;然而被彼者的火焰灼烧,遂变得黝黑,呈现“黑天”之色。
Verse 19
ततो मूर्छाभिसंतप्तो दह्यमानोऽद्भुताग्निना । निवर्त्य सहसा विष्णुर्वैलक्ष्यं परमं गतः
随后他被灼热所逼而昏眩,在那奇异之火中燃烧。毗湿奴顿时折返,陷入至深的惶惶不安。
Verse 20
तथा लिंगं समासाद्य भक्त्या पूजा कृता ततः । वेदोक्तैः परमैः सूक्ष्मैः स्तुतिं चक्रे महीपते
于是他趋近林伽,以虔敬而行供奉;继而,王啊,他以吠陀所传至上而微妙的赞颂之偈,献上称赞。
Verse 21
ब्रह्माऽपि व्योममार्गेण गतो हंसविमानतः । दिव्यं वर्षसहस्रं तु तस्यांतं नाभ्यपद्यत
梵天亦循天路而行,乘坐天鹅之飞车(Haṃsa-vimāna);然而纵历一千天年,仍未能抵达其尽头。
Verse 22
ततो वर्षसहस्रांते केतकीं सोऽप्यपश्यत । आयांतीं व्योममार्गेण तया पृष्टश्चतुर्मुखः
于是,在那一千年终了之时,他看见一朵鸡冠花(Ketakī)沿着天路而来;那四面之主(梵天)也被她发问。
Verse 23
क्व त्वया गम्यते ब्रह्मन्निरालंबे महापथि । शून्ये तत्त्वं समाचक्ष्व परं कौतूहलं हि मे
“梵天啊,你在这无所依凭的广大大道上要往何处去?请为我宣说这空寂的真实,因为我的好奇实在深切。”
Verse 24
ब्रह्मोवाच । मम स्पर्धा समुत्पन्ना विष्णुना सह शोभने । लिंगस्यास्य हि पर्यंतं यो लभिष्यति चावयोः
梵天说道:“美丽者啊,我与毗湿奴之间生起了争胜:我们二者之中,谁能寻得此灵伽的边际,谁便将被承认为尊。”
Verse 25
स ज्यायानितरो हीनो ह्येतदुक्तं पिनाकिना । प्रस्थितोऽहं ततश्चोर्द्ध्वमधोमार्गं गतो हरिः
“一者为大,一者为小”——执弓者(湿婆,持Pināka者)如此宣告。于是我向上出发,而诃利(毗湿奴)循向下之路而行。
Verse 26
लब्ध्वा लिंगस्य पर्यंतं यास्यामि क्षितिमंडले । तस्य तद्वचनं श्रुत्वा तत्पुष्पमभ्यभाषत
“待我寻得此灵伽的边际,便将回归大地之环。”那花听了他的话,便开口对他说道。
Verse 27
व्यर्थश्रमोऽसि लोकेश नांतो लिंगस्य विद्यते । चतुर्युगसहस्राणां कोटिरेका पितामह
噢,诸世界之主,你的劳作终归徒然;此林伽无有尽际。纵历一俱胝又一千次四瑜伽之轮回,噢,祖父(毗多摩诃),亦不能至其边界。
Verse 28
लिंगमूर्ध्नः पतंत्या मे कालो जातो महाद्युते । तथापि क्षिति पृष्ठं तु न प्राप्तास्मि कथंचन
噢,大放光明者,当我自林伽之顶坠落时,漫长岁月于我已逝;然而即便如此,我仍未曾抵达大地之表。
Verse 29
यावत्कालेन हंसस्ते योजनं संप्रगच्छति । तावत्कालेन गच्छामि योजनानामहं शतम्
在你的天鹅(哈姆萨)行一由旬之时,于同一时刻,我能行百由旬。
Verse 30
तस्मान्निवर्तनं युक्तं मम वाक्येन ते विभो । दर्शयित्वा च मां विष्णोर्ज्येष्ठत्वं व्रज सांप्रतम्
因此,噢,大能者,依我之言而回返乃为相宜。携我为证,今当往而确立你在毗湿奴之上的长上之位。
Verse 31
ततो हृष्टमना भूत्वा गृहीत्वा तां चतुर्मुखः । पुनर्वर्षसहस्रांते भूमिपृष्ठमुपागतः । दर्शयामास तां विष्णोरेषा लिंगस्य मूर्धतः
于是四面梵天心生欢喜,取了那花;经千年之后,复至大地之表。他将其示于毗湿奴,说道:“此乃林伽之顶所来。”
Verse 32
मयाऽनीता शुभा माला लब्धश्चांतं चतुर्भुज । त्वया लब्धो न चासत्यं वद मे पुरुषोत्तम
(梵天说道:)“我已带来这吉祥的花鬘,并且已寻得尽头,噢四臂者。你却未能寻得——因此请如实告诉我,噢至上之人(Puruṣottama)。”
Verse 33
विष्णुरुवाच । अनंतस्याप्रमेयस्य देवदेवस्य शूलिनः । नाहं शक्तः परं पारं गंतुं ब्रह्मन्कथंचन
毗湿奴说道:“对于那无尽、不可度量的主宰——诸神之神、执三叉戟者——噢梵天,我无论如何也不能到达那最远的极限。”
Verse 34
यदि त्वयाऽस्य पर्यंतो लब्धो ब्रह्मन्कथंचन । तत्ते तुष्टिं गतो नूनं देवदेवो महेश्वरः
噢梵天,若你以任何方式确已寻得祂的界限,那么诸神之神大自在天(Maheśvara)必定已对你生起欢喜。
Verse 35
नान्यथा चास्य पर्यंतो दृश्यते केन चित्क्वचित् । तस्माज्ज्येष्ठो भवाञ्छ्रेष्ठः कनिष्ठोऽहमसंशयम्
确实,祂的界限不可能以别的方式被任何人于任何处见到。因此你是长者,是 śreṣṭha(最胜者);而我是幼者——毫无疑问。
Verse 36
पुलस्त्य उवाच । एतस्मिन्नेव काले तु भगवान्वृषभध्वजः । कोपं चक्रे महाराज ब्रह्माणं प्रति तत्क्षणात्
普拉斯提耶说道:就在那一刻,噢大王,具福的世尊——旗帜饰以神牛者——立刻对梵天生起忿怒。
Verse 37
अथाह दर्शनं गत्वा धिग्धिग्व्यर्थप्रजल्पक । मिथ्या प्रजल्पमानेन किमिदं साहसं कृतम्
随即他现于眼前,说道:“可耻!可耻!你这空谈无益之人!以虚妄之言欺诳,竟做出这般鲁莽的狂妄之举?”
Verse 38
यस्मात्त्वया मृषा प्रोक्तं मम पर्यंतदर्शनम् । तस्मात्त्वं सर्ववर्णानां पूजार्हो न भविष्यसि
因你妄言称见到我的极限,故自此你不再配受一切种姓(varṇa)之礼敬供养。
Verse 39
ये च त्वां पूजयिष्यंति मानवा मोह संयुताः । ते कृच्छ्रं परमं प्राप्य नाशं यास्यंति कृत्स्नशः
凡被迷妄所缠而来礼拜供奉你的人,必遭极重苦难,终将尽皆败亡。
Verse 40
केतक्या च तथा प्रोक्तं यस्मात्तस्मात्सुदुष्टया । अस्या हि स्पर्शनाल्लोकः श्वपाकत्वं प्रयास्यति
又因凯塔姬(Ketakī)亦如此言说,极其恶毒,故但凡触及她者,世人将堕为“śvapāka”(贱民、弃族)之境。
Verse 41
एवं शापो तयोर्दत्त्वा देवः प्रोवाच केशवम् । प्रसन्नवदनो भूत्वा तदा तुष्टो महेश्वरः
如是对那二者降下诅咒后,主对凯沙瓦(Keśava)说道;其时大自在天(Maheśvara)面容安宁,心满意足。
Verse 42
भगवानुवाच । वासुदेव महाबाहो तुष्टस्तेऽहं महामते । सत्यसंभाषणादेव वरं वरय सुव्रत
世尊说道:噢,婆苏提婆,臂力雄伟、智慧宏深者——我已悦纳于你。唯因你所言真实无欺,汝当自择一愿,善誓之人。
Verse 43
श्रीवासुदेव उवाच । एष एव वरः श्लाघ्यो यत्त्वं तुष्टो महेश्वरः । न चापुण्यवतां देव त्वं तुष्टिमधिगच्छसि । अवश्यं यदि मे देयो वरो देवेश्वर त्वया
圣者婆苏提婆说道:最堪称颂的恩赐唯此一事——大自在天啊,唯愿你心生欢喜。因为,神啊,你不悦纳无功德之人。然而若你必定要赐我一愿,诸天之主啊……
Verse 44
लिंगमेतदनंताख्यं लघुतां नय मा चिरम् । येन सृष्टिर्भवेल्लोके व्याप्तं विश्वमनेन तु
“请使此名为‘无尽(Ananta)’的林伽收摄变小,勿再迟延;因为凭此威力,世间的创造得以发生,而整个宇宙亦由它遍满贯通。”
Verse 45
पुलस्त्य उवाच । ततः संक्षिप्य तल्लिंगं लघु कृत्वा महेश्वरः । अब्रवीत्केशवं भूयः शृणु वाक्यमिदं हरे
普罗罗私底耶说道:于是大自在天收摄那林伽,使之变小,又对计沙婆说道:“哈利啊,听我此言。”
Verse 46
एतन्मेध्यतमे देशे लिंगं स्थापय मे हरे । पूजय त्वं विधानेन परं श्रेयः प्रपत्स्यसे
“在这最为清净之地,哈利啊,为我安立此林伽。依正法仪轨而供奉礼拜,你将获得至上的吉祥与善果。”
Verse 47
मम तेजोविनिर्दग्धः कृष्णत्वं हि यतो गतः । कृष्ण एव ततो नाम लोके ख्यातिं गमिष्यति
“因你被我炽烈的神辉所灼,遂成黝黑之色;因此‘克里希那(Kṛṣṇa)’这一圣名必将在世间广为传扬。”
Verse 48
कृष्णकृष्णेति ते नाम प्रातरुत्थाय मानवः । कीर्तयिष्यति यो भक्त्या स याति परमां गतिम्
“凡人清晨起身,以虔敬之心称念汝名:‘克里希那,克里希那’,此人必得至上归趣。”
Verse 49
पुलस्त्य उवाच । एवमुक्त्वा तमीशानस्तत्रैवांतरधीयत । वासुदेवोऽपि तल्लिंगं गृहीत्वाऽर्बुदपर्वते । निर्झरे स्थापयामास सुपुण्ये विमलोदके
普拉斯提亚说道:“如此说罢,伊沙那(Īśāna)当场隐没不见。瓦苏德瓦(Vāsudeva)亦取彼灵伽,携至阿尔布达山,于一处至圣清泉旁安置;其水澄澈洁净。”
Verse 50
कृष्णतीर्थं ततो जातं नाम्ना हि धरणीतले । शृणु पार्थिवशार्दूल तत्र स्नातस्य यत्फलम्
“由此,在大地之上,此处得名为‘克里希那圣渡(Kṛṣṇatīrtha)’。请听吧,诸王之虎啊,凡在彼处沐浴者将得何等果报。”
Verse 51
स्नात्वा कृष्णह्रदे पुण्ये तल्लिंगं पश्यते तु यः । सर्वतीर्थोद्भवं श्रेयः स मर्त्त्यो लभतेऽखिलम्
“在圣洁的克里希那赫拉达(Kṛṣṇahrada)沐浴后,凡瞻礼彼灵伽者,虽为凡人,亦能圆满获得由一切圣地(tīrtha)所生的吉祥功德。”
Verse 52
तथा च सर्वदानानां निष्कामः प्राप्नुयात्फलम् । सकामोऽपि फलं चेष्टं यद्यपि स्यात्सुदुर्ल्लभम्
同样地,无所求而行布施者,得一切布施之果报;即便有所求者,也能得其所愿之果,虽在他处极难获得。
Verse 53
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् । य इच्छेच्छाश्वतं श्रेयो नात्र कार्या विचारणा
因此,当竭尽一切努力在彼处行沐浴净身。凡欲求永恒吉祥者,于此不应有任何疑虑与踌躇。
Verse 54
एकादश्यां महाराज निराहारो जितेन्द्रियः । यस्तत्र जागरं कृत्वा लिंगस्याग्रे सुभक्तितः
大王啊,于持斋日Ekādaśī,若有人断食、摄伏诸根,并在彼处于湿婆林伽之前以至诚奉爱守夜通宵——
Verse 55
प्रभाते कुरुते श्राद्धं यस्तु श्रद्धासमन्वितः । पितृन्संतारयेत्सर्वान्पूर्वजैः सह धर्मवित्
并且,若有人具足信心,于黎明在彼处修行施食祭祖之礼(śrāddha)——通达法者——便能度脱一切祖灵(Pitṛ),并及诸先祖。
Verse 56
तिलान्कृष्णान्नरस्तत्र ब्राह्मणेभ्यो ददाति यः । ब्रह्महत्यादिभिः पापैः स मर्त्त्यो मुच्यते ध्रुवम्
凡在彼处以黑芝麻供施诸婆罗门者,此人必定解脱一切罪业,乃至以梵杀罪(brahmahatyā)等为首的重罪。
Verse 57
दर्शनादेव राजेन्द्र कृष्णतीर्थस्य मानवः । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
噢,诸王之主!仅仅瞻礼克里希纳圣渡处(Kṛṣṇa-tīrtha),人便能解脱一切罪业——对此无需怀疑或再作思量。