Adhyaya 92
Nagara KhandaTirtha MahatmyaAdhyaya 92

Adhyaya 92

第九十二章由苏多(Sūta)叙述,从前文的阿伽尼提尔塔(Agnitīrtha)转入梵天池 Brahmakuṇḍa 的起源与功德。经文说圣者摩尔甘德耶(Mārkaṇḍeya)建立此池:安置梵天(Brahmā),并开辟一处清净纯水的圣池。 随后给出依历而行的仪轨:在迦尔提迦月(Kārttika),当月亮处于克利提迦宿(Kṛttikā-yoga)之时,应修持毗湿摩誓(Bhīṣma-vrata/Bhīṣma-pañcaka),于吉祥圣水中沐浴,先礼敬梵天(Padmayoni),再礼敬毗湿奴(Viṣṇu,Janārdana/Puruṣottama)。果报偈(phalaśruti)以再生与所至世界说明功德:即便是首陀罗(śūdra)亦可得更高之生;婆罗门(brāhmaṇa)若如法奉行,则可至梵天界(Brahmaloka)。 为证其言,章中举例:一位牧牛人(paśupāla)听闻摩尔甘德耶教诲,怀信修誓;命终之后,转生于婆罗门之家,并具宿命通忆(jātismara)。他仍眷恋前世父母,为前世之父行丧葬祭祀;亲族询问时,他陈述前生经历与因誓行而得转变之缘由。末尾指出此池在北方声名远播,并重申:于此处屡次沐浴,能令行者屡得尊贵之生,婆罗门修行者尤得反复成就“婆罗门之身”(vīpratva)。

Shlokas

Verse 1

सूत उवाच । अग्नितीर्थस्य माहात्म्यमेतद्वः परिकीर्तितम् । ब्रह्मकुंडसमुत्पत्तिरधुना श्रूयतां द्विजाः

苏多说道:“阿耆尼圣渡(Agnitīrtha)的伟大功德已为汝等宣说。如今,诸位二生者,请聆听梵天池(Brahmakuṇḍa)的起源。”

Verse 2

यदा संस्थापितो ब्रह्मा मार्कंडेन महात्मना । तदा विनिर्मितं तत्र कुण्डं शुचिजलान्वितम्

当大德圣者摩尔坎德耶在彼处安立梵天之时,当下那地方便化现一方圣池,盈满清净之水。

Verse 3

प्रोक्तं च कार्तिके मासि कृत्तिकास्थे निशाकरे । सम्यग्भीष्मव्रतं कृत्वा स्नात्वात्र सलिले शुभे

又宣说:于迦尔提迦月,当月亮住于昴宿(Kṛttikā)之时,应如法修持毗湿摩誓(Bhīṣma-vrata),并在此吉祥之水中沐浴。

Verse 4

पूजयिष्यति यो देवं पद्मयोनिं ततः परम् । स शूद्रोऽपि तनुं त्यक्त्वा ब्रह्मयोनौ प्रयास्यति

此后凡礼敬梵天——莲华所生者——之人,即便为首陀罗,舍身之后亦得至梵天之境(梵胎、Brahma-yoni)。

Verse 5

ब्राह्मणोऽपि यदि स्नानं तत्र कुण्डे करिष्यति । कृत्वा भीष्मव्रतं सम्यग्ब्रह्मलोकं प्रयास्यति

又若即便婆罗门在彼圣池中沐浴,并如法圆满修持毗湿摩誓,亦将得至梵天界(Brahma-loka)。

Verse 6

एवं प्रवदतस्तस्य मार्कंडेयस्य सन्मुनेः । श्रुतं तत्सकलं वाक्यं पशुपालेन केनचित्

当圣贤摩尔坎德耶如此宣说之时,他的一切言辞被某位牧牛人尽皆听闻。

Verse 7

ततः श्रद्धाप्रयुक्तेन तेन तद्भीष्मपंचकम् । यथावद्विहितं सम्यक्कार्तिके मासि संस्थिते

随后,他以虔诚信心所感,便在迦尔提迦月到来之时,如法而正当地修持“毗湿摩五日戒”(Bhīṣma-pañcaka)。

Verse 8

ततश्च कृत्तिकायोगे पूर्णिमायां यथाविधि । संपूज्य पद्मजं पश्चात्पूजितः पुरुषोत्तमः

随后,在与昴宿(Kṛttikā)相应的满月之日,依照仪轨,先如法礼敬莲华生者(Padmaja,即梵天 Brahmā),继而亦礼拜普鲁绍塔摩(Puruṣottama)。

Verse 9

ततः कालविपाकेन स पंचत्वमुपागतः । ब्राह्मणस्य गृहे जातः पुरेऽत्रैव द्विजोत्तमाः । जातिस्मरः प्रभायुक्तः पितृमातृप्रतुष्टिदः

随后,因时运成熟,他走到了生命的终点。噢,最胜的二次生者啊,他又在此城之中、于一位婆罗门家里再生;能忆前生,身具光辉,且令父母深得欢喜满足。

Verse 10

एवं प्रगच्छतस्तस्य वृद्धिं तत्र पुरोत्तमे । पितृमातृसमुद्भूतो यादृक्स्नेहो व्यवस्थितः

他就这样在那座殊胜之城中长大;由父母而生的天然慈爱,在他心中如其所宜,牢牢安住不移。

Verse 11

अन्यदेहोद्भवे वापि तस्य शूद्रेपरिस्थितः । स तस्य धनसंपन्नः सदैव कुरुते द्विजः

并且,纵然那与他相关之人因在另一身中出生而处于首陀罗(śūdra)的境况,这位二次生者却财资丰足,仍恒常施以扶助与护持。

Verse 12

उपकारप्रदानं च यत्किंचित्तस्य संमतम् । अन्यस्मिन्दिवसे शूद्रः स पिता पूर्वजन्मनः । तस्य पञ्चत्वमापन्नः संप्राप्ते चायुषः क्षये

他便施与一切合其心意、对其有益的援助。后来在另一天,那位首陀罗——在前世曾为他的父亲——当寿命将尽之时,便归于死亡。

Verse 13

अथ तस्य महाशोकं स कृत्वा तदनंतरम् । चकार प्रेतकार्याणि निःशेषाणि प्रभक्तितः

随后,他为其悲恸至极,便立刻以虔敬之心,将亡者应行的一切祭仪(preta-kārya)无遗地圆满完成。

Verse 14

अथ तस्य समालोक्य तादृशं तद्विचेष्टितम् । पृष्टः स कौतुकाविष्टैः पितृमातृसुतादिभिः

随后,众人见他行止如此,便由父亲、母亲、诸子等好奇之人向他发问。

Verse 15

कस्मात्त्वमस्य नीचस्य पशुपालस्य सर्वदा । अतिस्नेहसमायुक्तो निःस्पृहस्यापि शंस नः

“你为何总对这卑微的牧牛人怀有如此深厚的怜爱?你自身既无所贪求,仍请为我们说明缘由。”

Verse 16

तस्यापि प्रेतकार्याणि मृतस्यापि करोषि किम् । एतन्नः सर्वमाचक्ष्व न चेद्गुह्यं व्यवस्थितम्

“而且他既已身亡,你为何还为他行亡者之礼?若此事并非当守秘密,请将一切都告诉我们。”

Verse 17

तेषां तद्वचनं श्रुत्वा किंचिल्लज्जासमन्वितः । तानब्रवीच्छृणुध्वं च कथयिष्याम्यसंशयम्

听了他们的话,他略感惭愧,便对他们说:“且听我言——我必无疑为你们解说。”

Verse 18

अहमस्यान्यदेहत्वे पुत्र आसं सुसंमतः । पशुपालनकर्मज्ञः प्राणेभ्यो वल्लभः सदा

“在他前一身中,我曾为其子——蒙爱而受重——善于牧养牛群,且常为他所珍爱,如同其生命一般。”

Verse 19

कस्यचित्त्वथ कालस्य मार्कंडस्य महामुनेः । श्रुतं प्रवदतो वाक्यं ब्रह्मकुण्डसमुद्भवम्

在某一时刻,人们听闻大圣者摩尔坎达所宣说之语——那与梵摩昆达(Brahmakuṇḍa)相关而起的言辞。

Verse 20

कार्तिक्यां कृत्तिकायोगे भीष्मपञ्चककृन्नरः । सम्यक्छ्रद्धासमुत्पन्नो योऽत्र स्नानं करिष्यति

凡于迦尔提迦月,在昴宿(Kṛttikā)合会之时,怀具正信而觉醒者,于此沐浴,并守持毗湿摩五日誓戒者——

Verse 21

दृष्ट्वा पितामहं देवं पूजयित्वा जनार्दनम् । स भविष्यति शूद्रोऽपि ब्राह्मणश्चान्यजन्मनि

既得瞻礼皮塔摩诃天(梵天 Brahmā),又礼敬阇那尔达那(毗湿奴 Viṣṇu),则纵为首陀罗,来世亦得成婆罗门。

Verse 22

तन्मया विहितं सम्यक्स्नात्वा तत्र शुभावहे । सुकुण्डे कार्तिके मासि तेन जातोऽस्मि सद्द्विजः

此事我已如法成就:于迦尔蒂迦月,在那吉祥施福的善池中如仪沐浴;以此功德,我得生为真正的“二生者”(dvija)。

Verse 23

चन्द्रोदयस्य विप्रर्षेरन्वये भुवि विश्रुते । संस्मरन्पूर्विकां जाति तेन स्नेहो मम स्थितः । तस्योपरि महान्नित्यं शूद्रस्यापि निरर्गलः

在世间著名的婆罗门圣者“月升”(Candrodaya)之族系中,我忆念前生,情爱便安住不移。并且对他,那宏大而恒常的眷恋——即便对一位首陀罗——也无拘无碍地流注。

Verse 24

अतोऽहं कृत्तिकायोगे कार्तिक्यां भक्तिसंयुतः । ज्ञात्वा करोमि भीष्मस्य पंचकं व्रतमुत्तमम्

因此,在迦尔蒂迦月、克利提迦相合之时,我怀着虔敬,知其殊胜,便奉行毗湿摩的最上“五日誓戒”(pañcaka)。

Verse 25

सूत उवाच । एवं तस्य वचः श्रुत्वा ते चान्ये च द्विजोत्तमाः । भीष्मस्य पञ्चकं चक्रुः सम्यक्छ्रद्धासमन्विताः

苏多说道:诸位最胜婆罗门听闻他这番话后,连同其他人,也都以正信具足,如法修行毗湿摩的“五日行持”(pañcaka)。

Verse 26

ततःप्रभृति तत्कुण्डं विख्यातं धरणीतले । स्थितमुत्तरदिग्भागे ब्रह्मकुण्डमिति स्मृतम्

自那时起,此池便在大地上声名远播;位于北方之域,世人忆念称之为“梵池”(Brahmakuṇḍa)。

Verse 27

यः स्नानं सर्वदा तत्र ब्राह्मणः प्रकरोति वै । स संभवति विप्रेंद्रो जायमानः पुनः पुनः

凡婆罗门恒常在彼处沐浴者,实能成为婆罗门之最胜者(viprendra),并于一生又一生中以殊胜身分再生。

Verse 92

इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम द्विनवतितमोध्यायः

至此,《圣·斯坎达大往世书》八万一千颂集成中,第六部《那伽罗分卷》(Nāgara-khaṇḍa)之《哈塔凯湿伐罗圣域功德》(Hāṭakeśvara-kṣetra Māhātmya)内,名为《梵摩昆达(Brahmakuṇḍa)功德之描述》的第九十二章圆满结束。