Adhyaya 206
Nagara KhandaTirtha MahatmyaAdhyaya 206

Adhyaya 206

本章置于“圣地功德”(tīrtha-māhātmya)的叙事框架中,以毗湿瓦密多(Viśvāmitra)与阿那尔塔(Ānarta)的对话展开。因毗湿奴(Viṣṇu)之指示,因陀罗(Indra)在喜马瓦特山(Himavat)遇见苦行严峻的仙圣,恳请他们前往旃摩特迦罗城(Cāmatkārapura)的伽耶库毗(Gayākūpī)参加祭祖施食的 śrāddha。诸仙踌躇,忧虑与好争之众相处易生嗔怒而损失苦行功德(tapas),又担心接受王者供施会动摇出离清净。 因陀罗说明:此地与哈塔凯湿伐罗(Hāṭakeśvara)相系,威力强盛,确会引发纷争;但他将护持众仙不令嗔心起、仪轨不受障碍,并强调与伽耶相关之 śrāddha 果报殊胜。其后因毗湿维天(Viśvedevas)缺席(赴梵天 Brahmā 的 śrāddha),仪式陷入危机;因陀罗宣告:人间可在无毗湿维天之情况下行“单献祭祖”(ekoddiṣṭa-śrāddha)。空中无形之声证实:功德仍能救济并抵达所愿之受者;但随后梵天重新规制:唯有特定日子(尤以亡灵期 pretapakṣa 之前的十四日 caturdaśī,以及若干特定死亡情形)方可使无毗湿维天之 śrāddha 成为有效。 本章亦叙述毗湿维天之泪化生库什曼陀(kūṣmāṇḍa),并规定在 śrāddha 食器上画护持灰线以防扰乱。最后,因陀罗在婆罗曼陀那(Bālamaṇḍana)附近依历法吉时(摩伽月 Māgha、白半月、普湿耶宿 Puṣya、星期日、十三日 trayodaśī)建立湿婆林伽(Śiva-liṅga),宣说于此沐浴与行祖灵供水(pitṛ-tarpaṇa)之利益,并谈及祭司守护、施主护持,以及忘恩负义所招致的道德危患。

Shlokas

Verse 1

विश्वामित्र उवाच । इंद्रोऽपि विष्णुवाक्येन हिमवंतं समागतः । ऐरावतं समारुह्य नागेद्रं पर्वतोपमम्

毗湿瓦密多罗曰:受毗湿奴之言所劝,因陀罗亦至喜马梵;乘坐爱罗婆多,趋近那山中之主,巍然高耸,宛如一峰自立。

Verse 2

तत्रापश्यदृषींस्तान्स चमत्कार समुद्भवान् । नियमैः संयमैर्युक्तान्सदाचारपरायणान् । वानप्रस्थाश्रमोपेतान्कामक्रोधविवर्जितान्

在那里,他见到那些仙人——以灵性光辉而奇妙——具足戒律与自制,奉行正行,安住林栖期(vānaprastha),远离欲与嗔。

Verse 3

एके विप्राः स्थितास्तेषामेकांतरितभोजनाः । षष्ठकालाशिनश्चान्ये चांद्रायणपरायणाः

其中有些婆罗门隔日方食;另一些只在第六时段进食;还有一些则全心奉持“月行誓”(Cāndrāyaṇa)之戒。

Verse 4

अश्मकुट्टाः स्थिताः केचिद्दंतोलूखलिनः परे । शीर्णपर्णाशनाः केचिज्जलाहारास्तथा परे । वायुभक्षास्तथैवान्ये तपस्तेपुः सुदारुणम्

有些人以捣击石块而行苦行;有些人以牙为臼。有人以落叶为食,有人唯以清水维生,又有人仿佛“以风为粮”——他们由此修行了极其严酷的苦行(tapas)。

Verse 5

अथ शक्रं समालोक्य तत्राऽयांतं द्विजोत्तमाः । पूजितं चारणैः सिद्धैस्तैरदृष्टं कदाचन

随后,见到释迦罗(Śakra)来到此处——那位为迦罗那与悉达所礼敬者——诸位最上二生者惊叹不已,因为他们从未见过他。

Verse 6

ते सर्वे ब्राह्मणाः प्रोक्तास्तदाश्रमसमीपगैः

当时,所有那些婆罗门都被那座精舍附近的居者出言相告。

Verse 7

अयं शक्रः समायातो भवतामाश्रमे द्विजाः । क्रियतामर्हणं चास्मै यच्चोक्तं शास्त्रचिंतकैः

“诸位二生者,这是释迦罗来到你们的精舍。请依通晓圣典(śāstra)者之所教,为他行应有的礼敬(arhaṇa)。”

Verse 8

ततस्ते ब्राह्मणाः सर्वे विस्मयोत्फुल्ललोचनाः । संमुखाः प्रययुस्तूर्णं कृतांजलिपुटाः स्थिताः

于是,那些婆罗门个个惊奇得双目圆睁,迅速上前迎对而立,合掌恭敬。

Verse 9

गृह्योक्तविधिना तस्मै संप्रहृष्टतनूरुहा । प्रोचुश्च विनयात्सर्वे किमागमनकारणम्

他们欢喜得毛发竖立,依《家祭法》(Gṛhya)所传之仪轨迎接他;众人谦恭齐问:“您此来之因缘为何?”

Verse 10

निरीहस्यापि देवेंद्र कौतुकं नो व्यवस्थितम्

噢天主帝释啊,即便对无欲之人而言,您此来之意也未能为我们所明了。

Verse 11

इन्द्र उवाच । कुशलं वो द्विजश्रेष्ठा अनिहोत्रेषु कृत्स्नशः । तपश्चर्यासु सर्वासु वेदाभ्यासे तथा श्रुते

因陀罗说道:“噢诸位最上二生者,你们一切安好么——在不行火供(阿耆尼霍多罗)之诸仪、在诸般苦行与持戒中,以及在诵习吠陀与聆受圣教之事上?”

Verse 12

हाटकेश्वरजं क्षेत्रं त्यक्त्वा तीर्थमयं शुभम् । कस्मादत्र समायाता हिमार्तिजनके गिरौ

“既离开吉祥的哈塔凯湿伐罗圣域——遍满诸渡口(tīrtha)——为何来到此处,这座引生寒苦之山?”

Verse 13

तस्मात्सर्वे मया सार्धं समागच्छंतु सद्द्विजाः । चमत्कारपुरे पुण्ये बहुविप्रसमाकुले

“因此,诸位善良的婆罗门啊,都与我同来,前往圣洁的奇妙城(Camatkārapura),那里聚集着众多博学的祭司。”

Verse 14

वासुदेवसमादेशात्तत्र गत्वाथ सांप्रतम् । गयाकूपे करिष्यामि श्राद्धं भक्त्या द्विजोत्तमाः

奉瓦苏提婆(Vāsudeva)之命,我如今前往彼处,将以虔敬之心在伽耶井(Gayā-kūpa)举行施罗陀(śrāddha)祭,噢,最尊贵的婆罗门们。

Verse 15

युष्मदग्रे चतुर्दश्यां प्रेतपक्ष उपस्थिते । खेचरत्वं समायातं सर्वेषां भवतां स्फुटम्

就在诸位面前,于第十四日当祖灵时节(Pretapakṣa)来临之际,诸位皆已分明获得“行于虚空”的境界。

Verse 16

सबालवृद्धपत्नीकाः साग्निहोत्रा मया सह । तस्माद्गच्छत भद्रं वस्तत्र स्थानं भविष्यति

你们携同孩童、长者与妻室,并带上你们的阿耆尼火供(Agnihotra)圣火,与我同往。因此前行吧,愿吉祥安泰属于你们;在那里,将赐予你们相称的居所。

Verse 17

ब्राह्मणा ऊचुः । न वयं तत्र यास्यामश्चमत्कारपुरं पुनः । अन्येऽपि ब्राह्मणास्तत्र वेदवेदांगपारगाः

婆罗门们说道:“我们不再前往那奇迹城(Camatkārapura)了。那里也有其他婆罗门,通达吠陀与吠陀支分(Vedāṅga)。”

Verse 18

नागरा याज्ञिकाः संति स्मार्ताः श्रुतिपरायणाः । तेषामग्रे कुरु श्राद्धं श्रद्धा चेच्छ्राद्धजा तव

那里有那伽罗(Nāgara)祭司——精通祭祀(yajña),遵奉《忆念》(Smṛti),笃信《闻传》(Śruti)。若你的信心确为施罗陀(śrāddha)而生,就当在他们面前举行施罗陀。

Verse 19

इन्द्र उवाच । तत्र ये ब्राह्मणाः केचिद्भवद्भिः संप्रकीर्तिताः । तथाविधाश्च ते सर्वे वेदवेदांगपारगाः

因陀罗说道:“你们所提到的那里的婆罗门——确实全都如此:通达《吠陀》与诸《吠陀支》之学的宗师。”

Verse 20

श्रुताध्ययनसंपन्ना याज्ञिकाश्च विशेषतः । परं द्वेषपराः सर्वे तथा परुषवादिनः

“他们具足对《闻传》(Śruti)的研习,尤擅祭祀之业;然而众人却过分沉溺于憎恨,言辞刻薄粗厉。”

Verse 21

अहंकारेण संयुक्ताः परस्परजिगीषवः । तपसा विप्रयुक्ताश्च भोगसक्ता दिवानिशम्

“他们为我慢所缚,彼此争胜,远离苦行,昼夜贪著享乐——此等之人受竞争驱使,而非由达摩所导。”

Verse 22

यूयं सर्वगुणोपेता विष्णुना मे प्रकीर्तिताः । तस्मादागमनं कार्यं मया सार्धं समस्तकैः

“你们具足一切德行,毗湿奴也曾向我称赞你们。因此,你们众人当与我同来——无一遗漏。”

Verse 23

ब्राह्मणा ऊचुः । अस्माभिस्तेन दोषेण त्यक्तं स्थानं निजं हि तत् । बहुतीर्थसमोपेतं स्वर्गमार्गप्रदर्शकम्

婆罗门们说道:“因那过失,我们舍弃了自己的住处——正是那处为众多圣渡(tīrtha)所庄严、并昭示通往天界之路的地方。”

Verse 24

यदि यास्यामहे तत्र त्वया सार्धं पुरंदर । अस्माकं स्वजनाः सर्वे रागद्वेषपरायणाः

“若我们与你同往彼处,噢普兰达罗啊,我等亲族皆沉溺于贪染与嗔恨。”

Verse 25

अपराधान्करिष्यंति नित्यमेव पदेपदे । ईर्ष्याधर्मसमोपेताः परुषाक्षरजल्पकाः

“他们步步常造罪过——怀嫉妒与非法之心,口吐粗厉之言。”

Verse 26

ततः संपत्स्यते क्रोधः क्रोधाच्च तपसः क्षयः । ततो न प्राप्यते मुक्तिस्तद्गच्छामः कथं विभो

“由此将生嗔怒;由嗔怒而苦行之力衰耗。于是解脱不得成就——我等又怎能前往,噢主宰?”

Verse 27

अपरं तत्र भूपोऽस्ति देशे दानपरः सदा । आनर्ताधिपतिः ख्यातः सर्वभूमौ सदैव सः

“又彼方国土有一位国王,恒常乐行布施。其名号为阿那尔塔之主,声闻遍诸大地。”

Verse 28

ददाति विविधं दानं हस्त्यश्वकनकादिकम् । यदि तत्र न गृह्णीमस्तदा कोपं स गच्छति

“他施与种种布施——象、马、黄金等物。若我等在彼处不受,他便生嗔怒。”

Verse 29

भूपाले कोपमापन्ने स्वजनेषु विरोधिषु । सिद्धिर्नो तपसोऽस्माकं तेन त्यक्तं निजं पुरम्

“当国王陷入忿怒,而我等同族反成敌对时,我们的苦行(tapas)之成就便不可得。因此我们舍离了自己的城邑。”

Verse 30

यदि गृह्णीमहे दानं तस्य भूपस्य देवप । तपसः संप्रणाशः स्याद्यद्धि प्रोक्तं स्वयंभुवा

“若我们接受那位国王的布施,噢神圣者,我们的苦行(tapas)将彻底毁坏——此乃自生者斯瓦扬布(梵天)亲自所宣说。”

Verse 31

दशसूनासमश्चक्री दशचक्रिसमो ध्वजी । दशध्वजि समा वेश्या दशवेश्यासमो नृपः

造轮者之罪,据说等同十处屠宰场;执幡者等同十个造轮者;妓女等同十个执幡者;而国王等同十个妓女。

Verse 32

तत्कथं तस्य गृह्णीमो दानं पापरतस्य च । यथाऽन्ये नागराः सर्वे लोभेन महतान्विताः

既然如此,我们怎能接受那沉溺于罪业之人的布施?况且其余城民也都被强烈的贪欲所驱使。

Verse 33

इन्द्र उवाच । प्रभावोऽयं द्विजश्रेष्ठास्तस्य क्षेत्रस्य संस्थितः । हाटकेश्वरसंज्ञस्य सर्वदैव व्यवस्थितः

因陀罗说:“噢,最胜的二生者啊,此乃安立于那圣域之中的恒常威德——名为哈塔凯湿伐罗(Hāṭakeśvara)的刹帝罗——于一切时恒常现前。”

Verse 34

पितॄणां च सुतानां च बंधूनां च विशेषतः । श्वश्रूणां च स्नुषाणां च भगिनीभ्रातृभार्ययोः

为父亲与儿子,尤其为诸亲族;为婆母与儿媳;亦为姊妹与兄弟之妻——

Verse 35

तस्याधस्तात्स्वयं देवो हाटकेश्वरसंज्ञितः । पुरस्य विद्यते तस्य प्रतापेनाखिला जनाः

其下方,神祇亲自安住——名为“哈塔凯湿伐罗”(Hāṭakeśvara);凭此城之威德,众人皆受其感召与摄持。

Verse 36

सन्तप्यंते ततो द्वेषं प्रकुर्वंति परस्परम् । किं न श्रुतं भवद्भिस्तु यथा रामः सलक्ष्मणः । सीतया सह संप्राप्तो विरोधं परमं गतः

于是他们内心灼热,彼此生起憎恨。诸位岂未听闻:罗摩与罗什曼那同来,并携悉多,竟陷入极大的纷争吗?

Verse 37

सीतया लक्ष्मणेनैव सार्धं कोपेन संयुतः । अवाच्यं प्रोक्तवान्विप्रास्तौ च तेन समं तदा

他与悉多、罗什曼那同在,却被忿怒所系,说出了不当说之语;而那二人于彼时也以同样的话回敬于他。

Verse 38

अपि मासं वसेत्तत्र यदि कोपविवर्जितः । तदा मुक्तिमवाप्नोति स्वर्गभाक्पञ्चरात्रतः

纵使住于彼处一月,若能离嗔无怒,则得解脱;而仅经五夜,便得分受天界之福。

Verse 39

तस्मात्तत्र प्रगंतव्यं युष्माभिस्तु मया सह । ईर्ष्याधर्मं न युष्माभिस्ते करिष्यंति नागराः

因此,你们当与我一同前往彼处。城中之人不会对你们行“嫉妒之法(达摩)”。

Verse 40

न चैव भवतां कोपस्तत्रस्थानां भविष्यति । प्रसादान्मम विप्रेंद्राः सत्यमेतन्मयोदितम्

你们住在彼处时,亦不会生起嗔怒。凭我的恩佑,噢最尊胜的婆罗门啊,此乃我所宣说的真实之言。

Verse 41

आनर्तः पार्थिवो दाने योजयिष्यति न क्वचित् । युष्माकं पुत्रपौत्रेभ्यो ये दास्यंति च कन्यकाः

阿那尔塔之王在施与之事上,永不强迫任何人。凡嫁与汝等子孙之少女——其家族皆将随自愿而行,非出于逼迫。

Verse 42

सहस्रगुणितं तेषां तत्फलं संभविष्यति । अमावास्यादिने श्राद्धं कन्यासंस्थे दिवाकरे

对他们而言,此举之果报将增至千倍——尤其在无月日(amāvasyā)行施祖祭(śrāddha),且太阳位于处女宫(Kanyā)之时。

Verse 43

युष्मदग्रे द्विजश्रेष्ठा गया कूप्यां करिष्यति । यस्तस्य तत्फलं भावि सहस्रशतसंमितम्

就在你们面前,噢最胜的二次生者啊,将在库皮亚(Kūpyā)举行伽耶(Gayā)之仪。凡行此者——其将来之果报可量为十万倍。

Verse 44

गयाश्राद्धान्न सन्देहः सत्यमेतन्मयोदितम् । यदि श्राद्धकृते तत्र नायास्यथ द्विजोत्तमाः

关于伽耶的施罗陀(祭祖供养)毫无疑虑;我所说的确是真实。若你们,噢最上婆罗门,不为行施罗陀而前往彼处……

Verse 45

ततः शापं प्रदास्यामि तपोविघ्नकरं हि वः । एवं ज्ञात्वा मया सार्धं तत्राऽगच्छत सत्वरम्

那么我将对你们宣下诅咒——那诅咒确会阻碍你们的苦行。既知如此,就与我一同速速前往彼处。

Verse 46

इत्युक्तास्तेन ते सर्वे शक्रेण सह तत्क्षणात् । कश्यपश्चैव कौंडिन्य उक्ष्णाशः शार्कवो द्विषः

他们既被他如此告诫,便在当下与释迦罗(因陀罗)一同启程:迦叶波、拘ṇḍ因尼耶、乌克ṣṇ阿沙、舍尔迦瓦与德维沙。

Verse 47

बैजवापश्चैव षष्ठः कापिष्ठलो द्विकस्तथा । एतत्कुलाष्टकं प्राप्तमिंद्रेण सह पार्थिव

又有第六位拜阇婆波,以及迦毗ṣṭ诃罗与德维迦。噢大王,这八个族系之众与因陀罗一同到达。

Verse 48

अग्निष्वात्तादिकान्सर्वान्पितॄनाहूय कृत्स्नशः । विश्वेदेवांस्तथा चैव प्रस्थितः पाकशासनः

他召集了以阿耆尼湿瓦达等为首的一切祖灵(Pitṛ),并同样召来毗湿维天众(Viśvedevas);随后,帕迦沙娑那(因陀罗)便启程出发。

Verse 49

सम्यक्छ्रद्धासमाविष्टश्चमत्कारपुरं प्रति । एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः

他被正信充满,便前往奇妙城Camatkārapura。就在同一时刻,梵天——诸世界之祖父(Pitāmaha)——也(有所作为)。

Verse 50

गयायां प्रस्थितः सोऽपि श्राद्धार्थं तत्र वासरे । विश्वेदेवाः प्रतिज्ञाय गयायां प्रस्थिता विधिम्

就在那一天,他也为行施祖祭(śrāddha)而启程前往伽耶(Gayā)。诸毗湿毗天(Viśvedevas)既已立誓参与,也依照所定仪轨同赴伽耶。

Verse 51

शक्र श्राद्धं परित्यज्य गता यत्र पितामहः । शक्रोऽपि तत्पुरं प्राप्य गयाकूप्यामुपागतः

昔日皮塔摩诃(梵天)曾至之处,甚至为此暂置祖祭(śrāddha)不行——帝释(Śakra,因陀罗)也抵达那座城,并来到伽耶圣井Gayā-kūpī之前。

Verse 52

ततः स्नात्वाह्वयामास श्राद्धार्थं श्रद्धयान्वितः । विश्वेदेवान्पितॄंश्चैव काले कुतपसंज्ञिते

随后他沐浴净身,怀着虔信,为行祖祭(śrāddha)而召请毗湿毗天(Viśvedevas)与诸祖灵(Pitṛs),于名为“库塔帕”(Kutapa)的时刻。

Verse 53

एतस्मिन्नंतरे प्राप्ताः समाहूताश्च तेन ये । पितरो देवरूपा ये प्रेतरूपास्तथैव च

其间,他所召请者皆已到来——诸祖灵(Pitṛs),有的显现为天神之相,有的则同样显现为饿鬼/亡灵(preta)之形。

Verse 54

प्रत्यक्षरूपिणः सर्वे द्विजोपांते समाश्रिताः । विश्वेदेवा न संप्राप्ता ये गयायां गतास्तदा

众神皆以可见之形现前,依止在婆罗门近旁;唯独毗湿维天众当时未至,因为他们已前往伽耶。

Verse 55

ततो विलंबमकरोत्तदर्थं पाक शासनः । विश्वेदेवा यतः श्राद्धे पूज्याः प्रथममेव च

因此,帕迦沙萨那(因陀罗)为此而延缓仪式——因为在施罗达祭中,毗湿维天众应当最先受供养。

Verse 56

एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः । शक्रं प्राह समागत्य विश्वेदेवाऽभिकांक्षिणम्

正当其间,最胜仙人那罗陀来到;他走近,对渴望毗湿维天众现身的释迦说道。

Verse 57

नारद उवाच । विश्वेदेवा गताः शक्र श्राद्धे पैतामहेऽधुना । गयायां ते मया दृष्टा गच्छमानाः प्रहर्षिताः

那罗陀说道:“噢,释迦啊,毗湿维天众如今已去参加毗多摩诃的施罗达祭。我在伽耶见到他们,欢喜地启程而行。”

Verse 58

तच्छ्रुत्वा तत्र कुपितस्तेषामुपरि तत्क्षणात् । अब्रवीत्परुषं वाक्यं विप्राणां पुरतः स्थितः

闻此,他当即对他们动怒;立于诸婆罗门之前,说出了严厉粗重之言。

Verse 59

विश्वेदेवान्विना श्राद्धं करिष्याम्यहमद्य भोः । तथान्ये मानवाः सर्वे करिष्यंति धरातले

“即使没有毗湿维天众(Viśvedevas),我今日也要举行施罗陀祭(śrāddha);同样,世间一切众人也将如此奉行。”

Verse 61

एवमुक्त्वा सहस्राक्ष एकोद्दिष्टानि कृत्स्नशः । चकार सर्वदेवानां ये हता रणमूर्धनि

说罢,千眼者萨哈斯拉克沙(因陀罗)为一切在战场上殒落的诸天,圆满地举行了“独指供”(ekoddiṣṭa)祭献。

Verse 62

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी । येषामुद्दिश्य तच्छ्राद्धं कृतं तेषां नृपोत्तम

就在那一刻,一道无形之声说道:“噢,诸王之最!凡为其而作此施罗陀祭(śrāddha)者,既已以名号与意向如法回向,必得其所定之果报。”

Verse 63

शक्रशक्र महाबाहो येषां श्राद्धं कृतं त्वया । प्रेतत्वे संस्थितानां च प्रेतत्वेन विवर्जिताः

“噢,释迦罗(Śakra),大臂勇者!凡你为之举行施罗陀祭(śrāddha)者,即便曾住于饿鬼(preta)之境,也已脱离饿鬼之身。”

Verse 64

गताः स्वर्गप्रसादात्ते दिव्यरूपवपुर्धराः । ये पुनः स्वर्गताः पूर्वं युध्यमाना महाहवे

“蒙引向天界之恩佑,他们已升至天界,具足天妙之身。而那些先前在大决战中奋战时便已得生天者……”

Verse 65

ते च मोक्षं गताः सर्वे प्रसादात्तव वासव । तच्छ्रुत्वा वासवो वाक्यं तोषेण महतान्वितः

“他们也都已得解脱,噢婆娑婆(Vāsava),皆因你的恩德。”闻此言,婆娑婆(因陀罗)心中充满极大的欢喜与满足。

Verse 66

अहो तीर्थमहो तीर्थं शंसमानः पुनःपुनः । एतस्मिन्नन्तरे प्राप्ता विश्वे देवाः समुत्सुकाः

他一再赞叹道:“啊!何等圣渡处(tīrtha)——何等圣渡处!”就在此时,毗湿维天众(Viśvedevas)怀着热切期待来到那里。

Verse 67

निर्वृत्य ब्रह्मणः श्राद्धं गयायां तत्र पार्थिव । प्रोचुश्च वृत्रहंतारं कुरु श्राद्धं शतक्रतो

大王啊,他们在伽耶如法完成为梵天所作的施祭追荐(śrāddha)后,便对诛灭弗栗陀罗者说道:“噢百祭主(Śatakratu),请行施祭追荐。”

Verse 68

भूयोऽपि न विनाऽस्माभिर्लभ्यते श्राद्धजं फलम् । वयं दूरात्समायातास्तव श्राद्धस्य कारणात् । निर्वर्त्य ब्रह्मणः श्राद्धं येन पूर्वं निमंत्रिताः

“再者,若无我们,施祭追荐(śrāddha)所生之果不可得。我们为你的śrāddha自远方而来——先完成了先前受邀的梵天之śrāddha。”

Verse 69

तच्छ्रुत्वा वचनं तेषां कुपितः पाकशासनः । अब्रवीत्परुषं वाक्यं मेघगम्भीरया गिरा

听了他们的话,罚酒主(Pākaśāsana,因陀罗)勃然大怒,以如雷云般深沉的声音说出严厉之语。

Verse 70

अद्यप्रभृति यः श्राद्धं मर्त्यलोके करिष्यति । अन्योऽपि यो भवत्पूर्वं वृथा तस्य भविष्यति

(因陀罗言:)“自今日起,凡在凡世行施罗陀祭(śrāddha)者——若仍依你之前的他法而行——于彼皆成徒然,无有果报。”

Verse 71

एकोद्दिष्टानि श्राद्धानि करिष्यंत्यखिला जनाः । सांप्रतं मर्त्यलोकेऽत्र मर्यादेयं कृता मया

(因陀罗言:)“今后众人皆当修行一指施罗陀(ekoddiṣṭa-śrāddha)。此刻在此人间,我已立下此界限与法则。”

Verse 72

भूताः प्रेताः पिशाचाश्च ये चान्ये श्राद्धहारकाः । विश्वेदेवैः प्ररक्ष्यंते रक्षयिष्यामि तानहम्

“至于诸般部多(bhūta)、饿鬼(preta)、毗舍遮(piśāca)及一切夺取施罗陀供品者——凡为毗湿维天众(Viśvedevā)所护者,我亦将亲自护持他们。”

Verse 73

यजमानस्य काये च श्राद्धं संयोज्य यत्नतः । मया हताः प्रयास्यंति सर्वे ते दूरतो द्रुतम्

“当施罗陀祭被谨慎地系护于祭主之身时,彼等诸类——为我所击——必将迅疾远遁。”

Verse 74

एवमुक्त्वा सहस्राक्षो विश्वेदेवांस्ततः परम् । प्रोवाच ब्राह्मणान्सर्वान्विश्वेदेवैर्विना कृतम् । श्राद्धकर्म भवद्भिस्तु कार्यमन्यैश्च मानवैः

言毕,千眼者(因陀罗)复又告诫毗湿维天众,并向一切婆罗门宣示:“施罗陀之仪,当由汝等及诸人修行;然其行持,当不依(毗湿维天众之应有参与)而作。”

Verse 76

तेषामुष्णाश्रुणा तेन यत्पृथ्वी प्लाविता नृप । भूतान्यंडान्यनेकानि संख्यया रहितानि च

大王啊,由于他们炽热的泪水,大地被淹没;又有无量无数众生之卵,超越一切计数。

Verse 77

ततोंऽडेभ्यो विनिष्क्रांताः प्राणिनो रौद्ररूपिणः । कृष्णदंताः शंकुकर्णा ऊर्ध्वकेशा भयावहाः । रक्ताक्षाश्च ततः प्रोचुर्विश्वेदेवांश्च ते नृप

随后,从那些卵中走出形貌可怖的众生:黑齿、尖耳、发竖、令人战栗,且赤目。于是,大王啊,他们向毗湿维天众(Viśvedevā)开口说道。

Verse 78

वयं बुभुक्षिताः सर्वे भोजनं दीयतां ध्रुवम् । भवद्भिर्विहिता यस्माद्याचयामो न चापरम्

我们众皆饥饿——务必赐予食物。既然我们由你们所任命,我们只求此事,别无他求。

Verse 79

तथेत्युक्ते द्विजेंद्रैश्च विश्वेदेवाः सुदुःखिताः । रुरुदुर्बाष्पपूरेण प्लावयन्तो वसुन्धराम्

当最尊贵的婆罗门说“如是”之时,毗湿维天众(Viśvedevā)悲恸难当,泪如洪流,淹没大地。

Verse 80

एवमुक्त्वा तु ते श्राद्धं विश्वेदेवा नृपोत्तम । ब्रह्मलोकं गताः सर्वे दुःखेन महताऽन्विताः । प्रोचुश्च दीनया वाचा प्रणिपत्य पितामहम्

如此谈及祭祖施食之礼(śrāddha)之后,大王中之最,毗湿维天众(Viśvedevā)皆怀大悲,前往梵天界(Brahmaloka)。他们俯伏礼敬祖父神(Pitāmaha,梵天 Brahmā),以谦卑之声启白。

Verse 81

वयं बाह्याः कृता देव श्राद्धानां बलविद्विषा । तव श्राद्धे गता यस्माद्गयायां प्राङ्निमंत्रिताः

噢,主尊啊,我们被巴拉之敌(因陀罗)逐出诸般施食祭(śrāddha)。因为我们先受邀请,曾前往伽耶参加您的施食祭。

Verse 82

तेन रुष्टः सहस्राक्षस्तव चांते समागताः । तस्मात्कुरु प्रसादं नः श्राद्धार्हाः स्याम वै यथा

因此,千眼者(因陀罗)震怒,我们便来到您面前。愿您赐予慈恩,使我们确能成为堪受施食祭(śrāddha)供品之者。

Verse 83

तच्छ्रुत्वा सत्वरं ब्रह्मा कृपया परयान्वितः । विश्वेदेवान्समादाय कूप्माण्डैस्तैः समन्वितान्

闻此言,梵天立刻以无上悲悯之心,召集诸毗湿维天(Viśvedevas),并携同那些库什曼达(Kūṣmāṇḍas)而来。

Verse 85

एतस्मिन्नेव काले तु ब्रह्मा तत्र समागतः । विश्वेदेवसमायुक्तो हंसयानसमाश्रितः

就在那时,梵天来到彼处,偕同诸毗湿维天(Viśvedevas),安坐于其天鹅乘车之上。

Verse 86

शक्रोऽपि सहसा दृष्ट्वा संप्राप्तं कमलासनम् । अर्घ्यमादाय पाद्यं च सत्वरं सम्मुखो ययौ

释迦(因陀罗)亦然,忽见莲座者到来,便迅速取来阿尔伽供水(arghya)与洗足之水(pādya),上前迎接。

Verse 87

ततः प्रणम्य शिरसा साष्टांगं विनयान्वितः । प्रोवाच प्रांजलिर्भूत्वा स्वागतं ते पितामह

随后,他俯首顶礼,谦恭地作八体投地之礼;合掌说道:“欢迎您,噢毗多摩诃(至上祖父)。”

Verse 88

तव संदर्शनादेव ज्ञातं जन्मत्रयं मया । द्रुतं पूर्वं शुभं कर्म करोमि च यथाऽधुना

仅凭得见您的圣容(darśana),我便知晓自己三世之生;如今我迅速奉行那本应先前完成的吉祥善业。

Verse 89

करिष्यामि परे लोके व्यक्तमेतदसंशयम्

我将在彼世行此事——分明无疑,毫无疑惑。

Verse 90

निःस्पृहस्यापि ते देव यदागमनकारणम् । तन्मे द्रुततरं ब्रूहि येन सर्वं करोम्यहम्

噢天神,纵然您无所希求,也请速告我您降临之因,使我得以尽办一切应行之事。

Verse 91

ब्रह्मोवाच । यैर्विना न भवेच्छ्राद्धं ममापि सुरसत्तम । विश्वेदेवास्त्वया तेऽद्य श्राद्धबाह्या विनिर्मिताः

梵天说道:“噢诸天之最胜者,没有他们,连我自己的施罗陀(Śrāddha)亦无法举行;而今日,你竟使那些毗湿维天(Viśvedevas)立于施罗陀之外(被排除在外)。”

Verse 92

तत्त्वया न कृतं भद्रं तेन कर्म वितन्वता । अप्रमाणं कृता वेदा यतश्च स्मृतयस्तथा

你扩张那种行为,并未成就任何善;因此《吠陀》以及同样的《忆念书》(Smṛti),竟被弄得仿佛失去权威,变得不可靠。

Verse 93

एते पूर्वं मया शक्र श्राद्धार्थं विनिमंत्रिताः । पश्चात्त्वया न दोषोऽस्ति तस्माच्चैषां महात्मनाम्

“噢,释迦罗(Śakra)啊,这些人先前是我为施行祭祖供养(Śrāddha)而邀请的。其后,你并无过失;因此,关于这些大德之士……”

Verse 94

तस्माच्छापप्रमोक्षार्थं त्वं यतस्व सुरेश्वर । येन स्युः श्राद्धयोग्याश्च सर्वेऽमी दुःखिता भृशम्

因此,噢诸天之主啊,请努力促成解除此诅咒,使这些众生都能再度成为堪受祭祖供养(Śrāddha)之人;因为他们正深受忧苦折磨。

Verse 95

पुरा ह्येतन्मया प्रोक्तं सर्वेषां च द्विजन्मनाम् । एतत्पूर्वं च यच्छ्राद्धं सफलं तद्भविष्यति

确实,我早已为一切“再生者”(两次生者)宣告过此事;并且,在此之前所行的一切祭祖供养(Śrāddha),都将结成果报,圆满有效。

Verse 96

तत्कथं मम वाक्यं त्वमसत्यं प्रकरोषि च

既如此,你怎能把我的话变成虚妄不实之言?

Verse 97

इंद्र उवाच । मयाऽपि कोपयुक्तेन शप्ता एते पितामह । तद्यथा सत्यवाक्योऽहं प्रभवामि तथा कुरु

因陀罗说道:噢,尊贵的祖父(毗多摩诃),我在嗔怒所摄时也曾诅咒他们。故请安排使我仍为真实之语者,使我所言确能成就。

Verse 98

ब्रह्मोवाच । तव वाक्यं यथा सत्यं प्रभविष्यति वासव । तथाऽहं संविधास्यामि विश्वेदेवार्थमेव ह

梵天说道:噢,婆娑婆(Vāsava),我将作出安排,使你的言语确然成真——尤其是在毗湿维天众(Viśvedevā)之事上。

Verse 99

विश्वेदेवैर्विना श्राद्धं यत्त्वया समुदाहृतम् । एकोद्दिष्टं नराः सर्वे करिष्यंति धरातले

你所宣告的、无需毗湿维天众(Viśvedevā)而行的施罗陀(śrāddha)祭——在大地上,众人都将把它作为“埃科迪什塔”(ekoddiṣṭa,单一意向)施罗陀来奉行。

Verse 100

तस्मिन्नहनि देवेंद्र त्वया यत्र विनिर्मितम् । प्रेतपक्षे चतुर्दश्यां शस्त्रेण निहतस्य च

就在那一天,噢天神之王因陀罗——即你所制定之日:亡灵半月(preta-pakṣa)之第十四日;并且也适用于被兵刃所杀之人——

Verse 101

क्षयाहे चाऽपि संजाते विश्वेदेवैर्विना कृतम् । नागरस्य शुभं श्राद्धं वचनान्मे भविष्यति

即便遇到“刹耶阿诃”(kṣayāha,历法所减之日),不依毗湿维天众(Viśvedevā)而行的吉祥那伽罗施罗陀(Nāgara śrāddha),也将因我之宣令而得其效验。

Verse 102

शेषकाले तु यः श्राद्धं प्रकरिष्यति तैर्विना । व्यर्थं संपत्स्यते तस्य मम वाक्यादसंशयम्

然而在其他时候,凡是不依诸毗湿维天(Viśvedevā)而行施祖祭(śrāddha)者,其功德必归于徒然——凭我之言,此事决定无疑。

Verse 104

मुक्त्वा शस्त्रहतं चैकं तस्मिन्नहनि यो नरः । करिष्यति तथा श्राद्धं भूतभोज्यं भविष्यति । विश्वामित्र उवाच । तथेत्युक्ते तु शक्रेण ब्रह्मा लोकपितामहः । विश्वेदेवैस्ततः प्रोक्तो विनयावनतैः स्थितैः

除了一种情形——唯有被兵刃所杀者——若在那一日有人以不当之法行施祖祭(śrāddha),其供品将化为诸鬼灵(bhūta)之食。毗湿瓦密多罗(Viśvāmitra)说道:当释迦罗(Śakra,因陀罗)言“如是”之后,世界之祖父梵天(Brahmā)便被诸毗湿维天(Viśvedevā)以谦恭俯首之姿启请陈言。

Verse 105

एते पुत्राः समुत्पन्ना अस्मदश्रुभ्य एव च । तेषां तु भोजनं दत्तं क्षुधार्तानां मया विभो

“这些儿子确实由我自身的泪水而生;而我,噢主宰,在他们为饥饿所逼之时,曾赐予他们食物。”

Verse 106

अस्मद्विवर्जितं श्राद्धं कुपितैर्वासवोपरि । तद्यथा जायते सत्यं वाक्यमस्मदुदीरितम्

“有人正在行施祖祭(śrāddha)而将我们排除在外——因此诸天神力对婆娑婆(Vāsava,即因陀罗)生起忿怒。愿我们所宣说之言,如其所出,皆成真实。”

Verse 107

अस्माकं वासवस्यापि तथा कुरु पितामह । निरूपय शुभाहारं येन स्यात्तृप्तिरुत्तमा

“同样地,噢祖父(Pitāmaha),也请为我们——并为婆娑婆(Vāsava,因陀罗)——作此安排。请制定吉祥的食供,使得最上满足得以生起。”

Verse 108

एतेषामेव सर्वेषां प्रसादात्तव पद्मज

噢莲华生者(梵天)!唯因汝之恩德,诸此众生方得蒙受垂佑。

Verse 109

पद्मज उवाच । श्राद्धकाले तु विप्राणां भोज्यपात्रेषु कृत्स्नशः । भस्मरेखां प्रदास्यंति ह्येतैस्तत्त्याज्यमेव हि

莲华生者(梵天)说道:“在施行施罗达(śrāddha)之时,这些众生将以灰烬在婆罗门的食器周围遍画灰线;因此,对他们而言,那供食与安排确应回避。”

Verse 111

एतेभ्यश्चैव तद्दत्तं मया तुष्टेन सांप्रतम् । एवमुक्त्वा ततो नाम तेषां चक्रे पितामहः

“并且也赐予他们:我今已满足,现已授与其份。”言毕,毗多摩诃(梵天)遂为他们立名。

Verse 112

कुशब्देन स्मृता भूमिः संसिक्ता चाश्रुणा यतः । ततोंऽडानि च जातानि तेभ्यो जाता अमी घनाः । कूष्मांडा इति विख्याता भविष्यंति जगत्त्रये

“因大地以‘ku’之词被忆念,又为泪水所润,遂由此生出卵;由诸卵而生此等形体稠密之众。他们将在三界中以‘Kūṣmāṇḍa’之名而著称。”

Verse 113

ततस्तांश्च त्रिधा कृत्वा क्रमेणैवार्पयत्तदा । अग्नेर्वायोस्तथार्कस्य वाक्यमेतदुवाच ह

随后,他将他们分为三类,依次奉献——予阿耆尼(火神)、予伐由(风神)、以及予阿尔迦(太阳神)。并说出如下言辞。

Verse 114

यजुर्वेदे प्रविख्यातं यद्देवति ऋचां त्रयम् । तेन भागः प्रदातव्य एतेषां भक्तिहोमतः

那在《夜柔吠陀》中著称、奉献给诸天的三句《梨俱》颂——依此仪轨,应以虔敬之心行火供(homa)而奉上他们应得之分。

Verse 115

कोटिहोमोद्भवे चैव निजभागस्य मध्यतः । तेन तृप्तिं प्रयास्यंति मम वाक्यादसंशयम्

又由一亿次火供所生之功德——确然,从他们自有份额的核心之中——凭此他们将得满足。以我之言,毫无疑惑。

Verse 116

एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः । विश्वेदेवास्तथा हृष्टाः कूष्माण्डाश्च विशेषतः

如是言毕,四面者(梵天)遂从视野中隐没。毗湿毗天众欢喜,而库湿曼陀众尤为欣悦。

Verse 117

एतस्मात्कारणाद्रक्षा क्रियते भस्मसम्भवा । विप्राणां भोज्यपात्रेषु श्राद्धे कूष्मांडजाद्भयात् । नागराणां न वांछंति श्राद्धे छिद्रं यतः शृणु

因此,因惧库湿曼陀所生之祸患,人们在施行施罗陀(śrāddha)时,于婆罗门的食器上行以灰(bhāsma)所成的护持仪式。故那伽罗之民不愿施罗陀中出现任何“缺口”与过失;且听其由。

Verse 118

तेषां स्थाने यतो जाता दाक्षिण्येन समन्विताः । निषिद्धा भस्मजा रक्षा भर्तृयज्ञेन तेजसा

因为在他们之处,出现了具足慈和与如法恭敬者,故由灰而生的护持之法遂被禁止——为婆特哩祭(Bhartṛ-yajña)之光辉所压伏。

Verse 119

तदर्थं नागराः सर्वे न कुर्वन्ति हि कर्हिचित् । इन्द्रोऽपि च गते तस्मिंश्चतुर्वक्त्रे निजालयम्

因此,所有那伽罗人从不在任何时候行此事。及至四面者已归于自家宫所,因陀罗亦随之而行。

Verse 120

अब्रवीद्ब्राह्मणान्सर्वांश्चमत्कारपुरोद्भवान् । कृतांजलिपुटो भूत्वा विनयावनतः स्थितः

他对那奇妙城中出现的一切婆罗门说道;合掌作阿阇梨礼,谦恭而立,俯身致敬。

Verse 121

श्रूयतां मद्वचो विप्राः करिष्यथ ततः परम् । स्थापयिष्याम्यहं लिंगं देवदेवस्य शूलिनः

“婆罗门们,且听我言;随后你们当依此而行。我将安立手持三叉戟者——诸神之神——的林伽。”

Verse 122

ततस्तैर्ब्राह्मणैस्तस्य दर्शितं स्थानमुत्तमम् । सोऽपि लिंगं च संस्थाप्य प्रहृष्टस्त्रिदिवं ययौ

于是那些婆罗门为他指示了一处最胜之地。他亦安立林伽,心怀欢喜,遂往三天界而去。

Verse 123

विश्वामित्र उवाच । एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप । गयाकूप्याश्च माहात्म्यं सर्वकामप्रदायकम्

毗湿瓦密多罗说道:“大王,我已将你所问尽皆详述——即伽耶库毗之大功德,能赐予一切所愿。”

Verse 124

आनर्त उवाच । गयाकूप्याश्च माहात्म्यं भवता मे प्रकीर्तितम् । बालमंडनजं वापि सांप्रतं वक्तुमर्हसि

阿那尔塔说道:“你已向我宣说了伽耶库毗(Gayākūpī)的伟大功德。如今也请你开示与孩童剃发礼(bāla-maṇḍana)相关的圣地功德(tīrtha)。”

Verse 126

विश्वामित्र उवाच । सहस्राक्षेण ते विप्रा लिंगार्थं याचिता यदा । स्थानं शुभं पवित्रं च सर्वक्षेत्रस्य मध्यगम्

毗湿瓦密多说道:“当千眼者(因陀罗)为建立林伽之故请求那些婆罗门时,他们指示了一处吉祥清净之地,正位于整个圣域的中央。”

Verse 127

ततस्तैर्दर्शितं लिंगं सुपुण्यं बालमंडनम् । यत्र बालाः पुरा जाता मरुदाख्या दितेः सुताः

随后他们指给他看那至极殊胜的林伽,名为“童剃”(Bālamaṇḍana)——正是在那处,远古时被称为马鲁特的诸少年,曾作为底蒂(Diti)之子诞生。

Verse 128

तेनैव च पुरा ध्वस्ता न च मृत्युमुपागताः । तच्च मेध्यतमं ज्ञात्वा स्थानं दृष्टं पुरा च यत्

正凭那同一威力,他们昔日虽被击倒,却未至于死。知此处为最能净化之地——自古以来所见所敬之圣所——(他们便如此说道)。

Verse 129

यत्र दित्या तपस्तप्तं सुसुतं कांक्षमाणया । तद्दृष्ट्वा परमं स्थानं जीवं प्रोवाच देवपः

在那地方,底蒂(Diti)为求贤善之子而修苦行。天神之主见到那至上的圣地,便对其师长吉瓦(Jīva)开口说道。

Verse 130

गुरो ब्रूहि ममाशु त्वं सुमुहूर्तं च सांप्रतम् । दिवसं यत्र सल्लिंगं स्थापयामि हरोद्भवम् । प्रलयेऽपि समुत्पन्ने न नाशो यत्र जायते

“噢,师尊,请即刻告诉我当下的吉时——我应在何日安立这由哈罗(湿婆)所生的真实林伽;在那处,即使宇宙大劫的毁灭(pralaya)降临,也不会发生任何毁坏。”

Verse 131

ततः सोऽपि चिरं ध्यात्वा तं प्रोवाच शचीपतिम् । माघमासे सिते पक्षे पुष्यर्क्षे रविवासरे

随后他也久加禅思,便对舍契之主(因陀罗)说道:“在摩伽月,于白半月之时,值普舍耶星宿,当在星期日……”

Verse 132

त्रयोदश्यामभीष्टे तु संजातेऽ भ्युदये शुभे । संस्थापय विभो लिंगं मम वाक्येन सांप्रतम्

“在所愿的十三日(Trayodaśī),当吉祥的升起已至之时,噢大能者——依我之言,即刻安立此林伽。”

Verse 133

आकल्पांतसमं दिव्यं स्थिरं ते तद्भविष्यति । तच्छ्रुत्वा देवराजस्तु हर्षेण महताऽन्वितः

“它将为你成为神圣而坚固,恒存直至劫尽。”天神之王闻此,心中充满极大的欢喜。

Verse 134

बालमंडनसांनिध्ये स्थापयामास तत्तदा । विप्रपुण्याहघोषेण गीतवादित्रनिस्वनैः

于是,当着巴拉曼达那(Bālamaṇḍana)的面,他就在那时安立了它——在婆罗门宣诵吉祥祝祷(puṇyāha)之声,以及歌咏与乐器回响之中。

Verse 135

ततो होमावसाने तु तर्पयित्वा द्विजोत्तमान् । दक्षिणायां ददौ तेषामाघाटं स्थानमुत्तमम्

随后,在火供(homa)圆满之时,他以供养(tarpaṇa)使最尊贵的再生者满足,并赐予他们供施(dakṣiṇā),将名为“阿伽塔(Āghāṭa)”的殊胜之地授与之。

Verse 136

मांकूले संस्थितं यच्च दिव्यप्राकारभूषितम् । सर्वेषामेव विप्राणां सामान्येन नृपोत्तम

而那位于“曼库拉(Māṃkūla)”、以神圣围墙庄严装饰之处,乃为一切婆罗门所共用,噢,诸王之最胜者。

Verse 137

ततोऽष्टकुलिकान्विप्रान्समाहूयाब्रवीदिदम् । युष्माभिस्तु सदा कार्या चिंता लिंगसमुद्भवा

于是,他召集八族系的婆罗门,说道:“你们当恒常守持由奉事湿婆圣林伽而生的神圣戒行与护持之心。”

Verse 138

अस्य यस्मान्मया दत्ता वृत्तिश्चन्द्रार्ककालिका । सा च ग्राह्या तदर्थे च द्वादशग्रामसंभवा

“因为我已赐予他如月如日般长久的生计,所以这份供给当予受持;并且正为此事,应从十二个村落中拨出。”

Verse 139

ब्राह्मणा ऊचुः । न वयं विबुधश्रेष्ठ करिष्यामो वचस्तव । लिंगचिंतासमुद्भूतं श्रूयतामत्र कारणम्

婆罗门们说道:“噢,诸天之最胜者,我们不将奉行你的言命。请在此听其缘由——此乃出于我们对圣林伽的忧念。”

Verse 140

ब्रह्मस्वं विबुधस्वं च तडागोत्थं विशेषतः । भक्षितं स्वल्पमप्यत्र नाश येत्सर्वपूर्वजान्

婆罗门之财与诸天之财——尤其是源自池塘供养之资——若在此哪怕吞用一丝,也将毁灭其一切祖先。

Verse 141

यदि कश्चित्कुलेऽस्माकं जातस्तद्भक्षयिष्यति । पातयिष्यति नः सर्वांस्तदस्माकं महद्भयम्

若我族中有人生而食用此物,必使我等尽皆沉沦败亡;此乃我等大惧。

Verse 142

अथ तं मध्यगः प्राह कृतांजलिर्द्विजोत्तमः । दृष्ट्वाऽन्यमनसं शक्रं कृतपूर्वोपकारिणम्

于是,一位最上婆罗门立于众中,合掌启言于释迦罗;见其心神纷乱,虽往昔曾施恩于人。

Verse 143

देवशर्माभिधानस्तु विख्यातः प्रवरैस्त्रिभिः । अहं चिंतां करिष्यामि तव लिंगसमुद्भवाम्

“我名提婆舍摩(Devaśarmā),以三位卓越者之一而闻名。我将代你承担与林伽相关的清净行持。”

Verse 144

अपुत्रस्य तु मे पुत्रं यदि यच्छसि वासव । यस्मात्संजायते वंशो यावदाभूतसंप्लवम्

“但若你,噢婆娑婆(Vāsava),赐我这无子之人以一子,使族脉得以兴起并延续,直至时代大毁灭之终(我便为你行之)。”

Verse 145

धर्मज्ञस्तु कृतज्ञस्तु देवस्वपरिवर्जकः । तच्छ्रुत्वा वासवो हृष्टस्तमुवाच द्विजोत्तमम्

他通达正法,知恩报德,并且不滥用诸天之财。听闻此事,婆娑婆(因陀罗)欢喜,便对那位最上婆罗门说道。

Verse 146

इन्द्र उवाच । भविष्यति शुभस्तुभ्यं पुत्रो वंशधरः परः । धर्मात्मा सत्यवादी च देवस्वपरिवर्जकः

因陀罗说道:“你将得一位吉祥之子——卓越的宗族继承者——其心归于正法,言语真实,并且不滥用诸天之财。”

Verse 147

तस्यान्वये तु ये पुत्रा भविष्यंति महात्मनः । ते सर्वेऽत्र भविष्यंति तद्रूपा वेदपारगाः

而在那位大心者的族系中将出生的诸子——他们都将住在此处,秉承其性情,圆满而博学,已渡越吠陀之彼岸。

Verse 148

अपरं शृणु मे वाक्यं यत्ते वक्ष्यामि सद्द्विज । तथा शृण्वंतु विप्रेंद्राः सर्वे येऽत्र समागताः

善哉婆罗门,请再听我之言——我将向你宣说之事。也愿此处聚集的一切最上婆罗门同来谛听。

Verse 149

बालमण्डनके तीर्थे मयैतल्लिंगमुत्तमम् । चतुर्वक्त्र समादेशाच्चतुर्वक्त्रं प्रतिष्ठितम्

在婆罗曼陀那迦圣渡处,我安立了这至上灵伽。奉四面者(梵天)之命,它被奉安为“Caturvaktra”——四面灵伽。

Verse 150

योऽत्र स्नानविधिं कृत्वा तीर्थेऽत्र पितृतर्पणम् । आजन्म पितरस्तेन प्रभविष्यंति तर्पिताः

凡在此依仪轨沐浴,并于此圣渡处(tīrtha)向祖灵行供水祭(tarpaṇa)者,由此功德,其历代先祖必得满足,世世相续。

Verse 151

ग्रामा द्वादश ये दत्ता मया देवस्य चास्य भोः । वसिष्यंति च ये विप्रा वृद्धिश्राद्ध उपस्थिते । ते श्राद्धं प्रथमं चास्य कृत्वा श्राद्धं ततः परम्

先生啊,我已将十二个村落布施奉献给此主尊、此神祇。待到举行“增益施罗陀”(vṛddhi-śrāddha,祈兴盛之祭)的时节,那些居于其间的婆罗门将先为此神祇行施罗陀祭,随后再行其余施罗陀诸仪。

Verse 152

तत्कृत्यानि करिष्यन्ति ते विघ्नेन विवर्जिताः । वृद्धिः संपत्स्यते तेषां नो चेद्विघ्नं भविष्यति

他们将无碍成就当行之事;福增财盛必在其身上兴起,且不复有任何阻滞出现。

Verse 153

माघमासे सिते पक्षे त्रयो दश्यां दिने स्थिते । तद्ग्रामसंस्थिता लोका येऽत्रागत्य समाहिताः

于摩伽月(Māgha)之白半月,当第十三月日到来时,居于那些村落而以专注之心前来此地的人们——

Verse 154

बालमण्डनके स्नात्वा लिंगमेतत्समाहिताः । पूजयिष्यंति सद्भक्त्या ते यास्यंति परां गतिम्

他们在巴拉曼达那迦(Bālamaṇḍanaka)沐浴后,摄心专一,以至诚信敬礼拜此灵伽(Liṅga),便将证得至上归趣。

Verse 155

ग्रामाणां मम लिंगस्य ये करिष्यंति पीडनम् । कालांतरेऽपि संप्राप्तास्ते यास्यंति च संक्षयम्

然而,凡伤害为此地所奉献之村落,或损害我之林伽者——纵使在后世出现——终将走向覆灭。

Verse 156

पृथिव्यां यानि तीर्थानि ह्यासमुद्रसरांसि च । बालमण्डनके तीर्थ आगमिष्यंति तद्दिने

大地上一切圣渡处——乃至与海洋与湖泊相连者——都将在那一天来到巴拉曼达那迦圣地。

Verse 157

विश्वामित्र उवाच । एतदुक्त्वा सहस्राक्षस्ततश्चाष्टकुलान्द्विजान् । अग्रतः कोपसंयुक्तस्ततोवचनमब्रवीत्

毗湿瓦密多罗说道:说罢此言,千眼者(因陀罗)怒气充盈,召集八族系的婆罗门至其前,并以如下言辞告之。

Verse 158

एतैः सप्तकुलैर्विप्रैर्यत्कृतं वचनं न मे । कृतघ्नैस्ता ञ्छपिष्यामि कृतघ्नत्वान्न संशयः

“既然这七族系的婆罗门未奉行我的命令,既是忘恩负义之辈,我将诅咒他们——其忘恩之罪,毫无疑问。”

Verse 159

यस्मादिदंपुरा प्रोक्तं मनुना सत्यवादिना । स्वायंभुवेन प्रोद्दिश्य कृतघ्नं सकलं जनम्

“因为此事早已由自生摩奴——真实语者——在古时宣说,指出忘恩负义会玷污世间众人。”

Verse 160

ब्रह्मघ्ने च सुरापे च चौरे भग्नवते शठे । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः

对于杀害婆罗门者、饮酒者、盗贼、背信者与欺诳者,善人皆已制定赎罪之法;唯独忘恩负义之人,毫无赎罪可言。

Verse 161

अवध्या ब्राह्मणा गावः स्त्रियो बालास्तपस्विनः । तेनाऽहं न वधाम्येताञ्छिद्रेऽपि महति स्थिते

婆罗门、母牛、妇女、孩童与苦行者,皆不可杀害。因此,纵有重大过失现前,我也不杀他们。

Verse 162

ततस्तोयं समादाय सदर्भं निजपाणिना । शशाप तान्द्विजश्रेष्ठान्कृतघ्नान्पाकशासनः

于是,帕迦沙娑那(因陀罗)亲手取水并执达婆草,因其忘恩负义而诅咒那些最上等的婆罗门。

Verse 163

मम वाक्यादपि प्राप्य एते लक्ष्मीं द्विजोत्तमाः । निर्धनाः संभविष्यंति नीत्वा यद्द्वारतो ऽखिलम्

“虽因我亲口之命,这些最胜婆罗门得享福泽;然他们必将陷于贫乏——把凡到门前的一切尽皆搬走之后。”

Verse 164

भक्तानां च पीरत्यागमेतेषां वंशजा द्विजाः । करिष्यंति न सन्देहो यथा मम सुनिष्ठुराः । दाक्षिण्यरहिताः सर्वे तथा बह्वाशिनः सदा

“并且,生于其族系的婆罗门必将舍弃受苦的信众——毫无疑问——如同他们对我一般冷酷:尽皆无有慈心,且常常贪食过度。”

Verse 165

एवमुक्त्वाऽथ तान्विप्रान्सप्तवंशसमुद्भवान् । पुनः प्रोवाच तान्विप्राञ्छेषान्नगरसंभवान्

他如此对那出自七支族系的婆罗门说罢,又再度向其余在城中出生的婆罗门开口。

Verse 166

ममात्र दीयतां स्थानं स्थानेऽत्रैव द्विजोत्तमाः । येन संवत्सरस्यांते पंचरात्रं वसाम्यहम्

“诸位最上婆罗门,请在此赐我一处所在——就在此地给我安立一处定居之所——使我每年岁终得以居住五夜。”

Verse 167

देवस्यास्य प्रपूजार्थं मर्त्यलोकसु खाय च । ब्राह्मणानां प्रपूजार्थं सर्वेषां भवतामिह

“为使此神明得受圆满供奉,并令世间众生安泰;亦为如法敬奉婆罗门——愿你们在此众人共同成办此事。”

Verse 168

विश्वामित्र उवाच । ततस्ते ब्राह्मणाः सर्वे तदर्थं स्थानमुत्तमम् । दर्शयामासुः संहृष्टाः प्रोचुश्च तदनंतरम्

毗湿瓦密多罗说道:“于是那些婆罗门众皆欢喜,指示了为此事最为殊胜相应之处;随即他们又开口说道。”

Verse 169

ब्रह्मस्थाने त्वया शक्र पंचरात्रमुपेत्य च । स्थातव्यं मर्त्यलोकस्य सुखमासेव्यतां प्रभो

“噢,释迦罗(因陀罗)啊,既至梵天之处,当住五夜;主宰啊,愿由此行持,使人世之乐得以受用。”

Verse 170

अत्र स्थाने तवाऽग्रे तु करिष्यामो महोत्सवम् । गीतवादित्रनिर्घोषैर्गंधमाल्यानुलेपनैः । द्विजानां तर्पणैश्चैव सर्वकामसमृद्धिदम्

就在此处,于尊前我们将举行盛大的庆典——歌咏与乐器之声轰然回响,陈设香料、花鬘与涂香,并以塔尔帕那供养使诸“二生者”(dvija)得以满足;此庆典赐予一切所愿之丰足。

Verse 171

विश्वामित्र उवाच । तच्छ्रुत्वा वचनं तेषां प्रहृष्टः पाकशासनः । पूजयित्वा द्विजान्सर्वान्गतोऽथ त्रिदिवालयम्

毗湿瓦密多罗说道:听闻他们的话语,帕迦沙娑那(因陀罗)欣喜非常;礼敬供养一切二生者(dvija)之后,便前往自己的天界宫殿。

Verse 206

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्ड हाटकेश्वरक्षेत्रमाहात्म्ये बालमण्डनतीर्थमाहात्म्यवर्णनंनाम षडुत्तर द्विशततमोऽध्यायः

至此,在《圣·斯坎达摩诃往世书》——八万一千颂之汇编(Saṃhitā)中——第六部、那伽罗分卷(Nāgarakhaṇḍa)里、哈塔凯湿瓦罗圣域(Hāṭakeśvara-kṣetra)功德赞(Māhātmya)之中,名为《巴拉曼达那圣渡处(Bālamaṇḍana Tīrtha)殊胜功德之叙述》的第二百零六章圆满结束。

Verse 215

कस्मिन्स्थाने च शक्रेण तच्च लिंगं प्रतिष्ठितम । वदास्माकं महाभाग तस्मिन्दृष्टे तु किं फलम्

那尊林伽(Liṅga)是由释迦罗(因陀罗)安立于何处?大福德者啊,请告知我们;若得瞻礼见此林伽,其果报为何?

Verse 984

शक्रोऽपि श्राद्धकर्माणि कृत्वा तेषां दिवौकसाम् । तीर्थयात्रापरो भूत्वा तथैव च व्यवस्थितः

释迦罗(因陀罗)亦然:为那些天界众生行毕施罗陀(śrāddha)祭仪之后,便专心致志于诸圣渡处(tīrtha)的朝圣之行,并恒常安住于此道。