Adhyaya 183
Nagara KhandaTirtha MahatmyaAdhyaya 183

Adhyaya 183

第183章叙述一场持续多日的祭祀(yajña)中发生的扰乱:一位年轻苦行学生(baṭu)嬉戏般把一条无毒的水蛇掷入祭会,令诸司祭者惊惶失措。水蛇又缠绕在hotṛ(或主要仪式职司者)身上,使恐惧与混乱加剧;因而有人脱口而出诅咒,baṭu遂受报而染“蛇身”,显示《普罗那》所强调的仪轨庄严与无心之举亦能招致业果。 为求解脱,受苦者前往求见婆利古(Bhṛgu);并在其慈悲干预中澄清了赤耶伐那(Chyavana)的相关角色,指出此蛇本无毒,惩罚亦嫌过重。随后梵天(Brahmā)降临,将此事重新诠释为天意:baṭu的蛇形将成为在世间建立第九支那伽(nāga)族系的种子,并受约束,不伤持诵真言与行医用药之人。 本章又指明在Hāṭakeśvara原野有一处清丽水源,宣称为Nāgatīrtha,规定应礼拜并行沐浴净身(snāna),尤以Śrāvaṇa月黑半月之第五日(pañcamī;亦并提及Bhādrapada)为胜。经中许诺:可除与蛇相关之恐惧,利益中毒受害者,并得消灾转运、赐福子嗣等吉祥果报。又描写诸大那伽如Vāsuki、Takṣaka、Puṇḍarīka、Śeṣa、Kāliya等集会,梵天分派其护持祭祀之责,并立其在Nāgatīrtha定期受供养之法。末后的果报偈(phalaśruti)更言:听闻、诵读、书写与珍藏此māhātmya者,所在之处皆得护佑。

Shlokas

Verse 1

सूत उवाच । द्वितीये दिवसे प्राप्ते यज्ञकर्मसमुद्भवे । द्वादश्यामभवत्तत्र शृणुध्वं तद्द्विजोत्तमाः । वृत्तान्तं सर्वदेवानां महाविस्मयकारकम्

苏多说道:当第二日到来——在祭祀(yajña)仪轨的进程中——彼处遂成第十二日(Dvādaśī)。诸位最上婆罗门,请聆听一件关乎诸天的事,奇异非常,令人惊叹。

Verse 2

मखकर्मणि प्रारब्ध ऋत्विग्भिर्वेदपारगैः । जलसर्पं समादाय बटुः कश्चित्सुनर्मकृत्

当祭祀(yajña)之事已由通达吠陀的祭官(ṛtvij)开始进行时,有一位顽皮好闹的年轻梵行者(brahmacārin)拿起了一条水蛇。

Verse 3

प्रविश्याथ सदस्तत्र तं सर्पं ब्राह्मणान्तिके । चिक्षेप प्रहसंश्चैव सर्वदुःखभयंकरम्

他进入祭会之中,嬉笑着把那条蛇掷到一位婆罗门近旁;此举遂成恐惧之因,亦为诸苦之源。

Verse 4

ततस्तु डुण्डुभस्तूर्णं भ्रममाण इतस्ततः । विप्राणां सदसिस्थानां सक्तानां यज्ञकर्मणि

于是,Ḍuṇḍubha 急忙在此处彼处奔走徘徊,穿行于坐在会中、专注于祭祀仪轨的婆罗门之间。

Verse 5

अहो होतुः स्थिते प्रैषे दीर्घसत्रसमुद्भवे । स सर्पो वेष्टयामास तस्य गात्रं समंततः

哀哉!当热特利祭官(hotṛ)立于其所指定之位、处在那漫长的祭会之中时,那蛇便从四面八方缠绕其身。

Verse 6

न चचाल निजस्थानात्प्रायश्चित्तविभीषया । नोवाच वचनं सोऽत्र चयनन्यस्तलोचनः

他因惧怕赎罪之仪(prāyaścitta)而不敢离开原处;在那儿也一言不发,双目凝注于眼前正在进行的祭仪。

Verse 7

हाहाकारो महाञ्जज्ञे एतस्मिन्नंतरे द्विजाः । तस्मिन्सदसि विप्राणां विषा ढ्याहिप्रशंकया

其间,诸位二次生者(dvija)中骤起一阵巨大的惊呼;在婆罗门的会众里,人们惶恐那条蛇满含毒液。

Verse 9

हाहाकारो महानासीत्तं दृष्ट्वा सर्पवेष्टितम् । तस्य पुत्रो विनीतात्मा मैत्रावरुणकर्मणि

见他被蛇缠绕,众人便发出一阵巨大的惊呼。他的儿子——心性调伏——正履行祭仪中“迈特拉瓦鲁那”(Maitrāvaruṇa)祭官之职。

Verse 10

यस्मात्पाप त्वया सर्पः क्षिप्तः सदसि दुर्मते । तस्माद्भव द्रुतं सर्पो मम वाक्यादसंशयम्

“既然你这罪人、心怀恶念者,把一条蛇掷入神圣会众;因此凭我之言,毫无疑问,你立刻化为蛇!”

Verse 11

बटुरुवाच । हास्येन जलसर्पोऽयं मया मुक्तोऽत्र लीलया । न ते तातं समुद्दिश्य तत्किं मां शपसि द्विज

男孩说道:“我只是戏耍,才在此放出这条水蛇。并非指向你的父亲——婆罗门啊,你为何要咒诅我?”

Verse 12

एतस्मिन्नंतरे मुक्त्वा तस्य गात्रं स पन्नगः । जगामान्यत्र तस्यापि सर्पत्वं समपद्यत

就在那一刻,那条蛇舍弃其身,前往他处;而那冒犯者也同样堕入化为蛇的境地。

Verse 13

सोऽपि सर्पत्वमापन्नः सनातनसुतो बटुः । दुःखशोकसमापन्नो ब्राह्मणैः परिवेष्टितः

那男孩亦然——圣者萨那塔那之子——也化作蛇;为痛苦与忧伤所压倒,站在婆罗门众的环绕之中。

Verse 14

अथ गत्वा भृगुं सोऽपि बाष्पव्याकुललोचनः । प्रोवाच गद्गदं वाक्यं प्रणिपत्य पुरःसरः

随后他前往拜见婆利古;双眼为泪所扰。俯伏在前,他以哽咽之声陈述。

Verse 15

सनातनसुतश्चास्मि पौत्रस्तु परमेष्ठिनः । शप्तस्तव सुतेनास्मि च्यवनेन महात्मना

“我乃萨那塔那之子,亦是帕拉梅什提因之孙;然而我竟被你的儿子、大德恰瓦那所诅咒。”

Verse 16

निर्दोषो ब्राह्मणश्रेष्ठ तस्माच्छापात्प्ररक्ष माम् । तच्छ्रुत्वा च्यवनं प्राह कृपाविष्टो भृगुः स्वयम्

“我本无过,噢婆罗门中最尊者;愿护我脱离此咒。”闻此,婆利古亲自——为慈悲所动——对恰瓦那说道。

Verse 17

अयुक्तं विहितं तात यच्छप्तोऽयं बटुस्त्वया । न मां धर्षयितुं शक्तो विषाढ्योऽपि भुजंगमः

婆利古说道:“孩子啊,你诅咒这位年轻的梵行者并不相宜。即使毒液胀满的蛇,也无力来侵犯我。”

Verse 19

किं पुनर्जलसर्पोऽयं निर्विषो रज्जुसंनिभः । न मामुद्दिश्य निर्मुक्तः सर्पोऽनेन द्विजन्मना । शापमोक्षं कुरुष्वास्य तस्माच्छीघ्रं द्विजन्मनः

“更何况这条水蛇——无毒,宛如一根绳索——又能做什么呢?这位二生者放出蛇形,并非以我为目标。因此,二生者啊,请速赐他脱离诅咒的解脱。”

Verse 20

तच्छ्रुत्वा वचनं तस्य स्वयमेव पितामहः । तत्रायातः स्थितो यत्र स पौत्रः सर्परूपधृक्

听到他的话,祖父尊(Pitāmaha)亲自来到那里,站在那位化作蛇形的孙儿所在之处。

Verse 21

प्रोवाच न विषादस्ते पुत्र कार्यः कथंचन । यत्सर्पत्वमनुप्राप्तः शृणुष्वात्र वचो मम

他说:“孩子啊,切莫以任何方式怀忧。既已得蛇之身,便在此聆听我的话。”

Verse 22

पुरा संस्रष्टुकामोऽहं नागानां नवमं कुलम् । तद्भविष्यति त्वत्पार्श्वात्समर्यादं धरातले

“往昔我欲开显那伽的第九支系,便如此安立:由你这一侧,它将在大地上兴起,具足应有的界限与秩序。”

Verse 23

मन्त्रौषधियुजां पुंसां न पीडामाचरिष्यति । संप्राप्स्यति परां पूजां समस्ते जगतीतले

他不会加害于具足真言与药法之人;并将于遍满大地之上获得至高的敬奉与礼赞。

Verse 24

अत्राऽस्ति सुशुभं तोयं हाटकेश्वरसंज्ञिते । क्षेत्रे तत्र समावासः पुत्र कार्यस्त्वया सदा

此处在名为哈塔凯湿伐罗(Hāṭakeśvara)的圣域中,有一泓殊胜庄严的圣水。吾子啊,你当常住于彼。

Verse 25

तत्रस्थस्य तपस्थस्य नागः कर्कोटको निजम् । तव दास्यति सत्कन्यां ततः सृष्टिर्भविष्यति

对你这常住彼处、修行苦行者,龙族(Nāga)迦尔科塔迦(Karkoṭaka)将把自己贤善的少女赐与你;由此结合,将兴起子嗣与世系。

Verse 26

नवमस्य कुलस्यात्र समर्यादस्य भूतले । श्रावणे कृष्णपक्षे तु संप्राप्ते पंचमीदिने

在此大地之上,第九世系——安立于正法之界限者——当施罗伐那月(Śrāvaṇa)黑半月之第五日到来时,将至其命定之时。

Verse 27

संप्राप्स्यति परां पूजां पृथिव्यां नवमं कुलम् । अद्यप्रभृति तत्तोयं नागतीर्थमिति स्मृतम्

第九世系将在大地之上获得至高的尊荣。从今日起,那水被称念为“那伽圣渡”(Nāga-tīrtha)。

Verse 28

ख्यातिं यास्यति भूपृष्ठे सर्वपातकनाशनम् । येऽत्र स्नानं करिष्यंति संप्राप्ते पंचमीदिने

此圣地将在大地之上声名远播,被称为能灭除一切罪业之所。凡于般遮弥日到来之时在此沐浴者,皆得其清净功德。

Verse 29

न तेषां वत्सरंयावद्भविष्यत्यहिजं भयम् । विषार्द्दितस्तु यो मर्त्यस्तत्र स्नानं करिष्यति

对他们而言,整整一年之内将无由蛇类而起的恐惧。凡被毒所侵的凡人,若在彼处沐浴……

Verse 31

करिष्यति तथा स्नानं फलहस्ता प्रभक्तितः । भविष्यति च सा शीघ्रं वंध्याऽपि च सुपुत्रिणी

若她亦在彼处沐浴,双手捧持果品,以真诚的奉爱(bhakti)而行,则纵是久不孕者,也将迅速蒙福,得贤良之子。

Verse 32

सूत उवाच । एवं प्रवदतस्तस्य ब्रह्मणोऽव्यक्तजन्मनः । अन्ये नागाः समायातास्तत्र यज्ञे निमंत्रिताः

苏多说道:当那位出自无显之源的梵天如此宣说之时,受邀前来参加彼处祭祀(yajña)的其他那伽也都到来。

Verse 33

वासुकिस्तक्षकश्चैव पुण्डरीकः कृशोदरः । कम्बलाश्वतरौ नागौ शेषः कालिय एव च

有婆苏吉与多叉迦,奔陀利迦与克利绍达罗;那伽甘婆罗与阿湿伐多罗;以及舍沙与迦利耶。

Verse 34

ते प्रणम्य वचः प्रोचुः प्रोच्चैर्देवं पितामहम् । तवादेशाद्वयं प्राप्ता यज्ञेऽत्र प्रपितामह

他们顶礼后,高声对神圣的祖父神梵天说道:“奉汝圣命,我等已来到此处的祭祀,噢伟大的曾祖。”

Verse 35

साहाय्यार्थं तदादेशो दीयतां प्रपितामह । येन कुर्मो वयं शीघ्रं नागराज्ये ह्यधिष्ठिताः

为求助力,愿赐下那道训令,噢伟大的曾祖;凭此,我们得以安立于那伽之王权中,迅速履行职责。

Verse 36

ब्रह्मोवाच साहाय्यमेतदस्माकं भवदीयं महोरगाः । गत्वानेन समं शीघ्रं नागराजेन तिष्ठत

梵天说道:“噢诸大蛇神,你们的援助是为我等之事。速与他同往,并与那伽王一同守立护卫。”

Verse 37

नागतीर्थे ततः स्थेयं सर्वैस्तत्र समास्थितैः

“其后,你们凡在彼处集结者,皆当驻守于那伽圣渡(Nāgatīrtha)。”

Verse 38

यः कश्चिन्मम यज्ञेऽत्र दुष्टभावं समाश्रितः । समागच्छति विघ्नाय रक्षणीयः स सत्वरम्

“凡怀恶意而来,欲在此破坏我之祭祀者——当即制止,并严加防护以拒之。”

Verse 39

राक्षसो वा पिशाचो वा भूतो वा मानुषोऽपि वा । एतत्कृत्यतमं नागा मम यज्ञस्य रक्षणम्

无论是罗刹、毗舍遮、鬼灵(bhūta),乃至人类——噢诸那伽,你们最首要的职责,就是护持我的祭祀(yajña)。

Verse 40

तथा यूयमपि प्राप्ते मासि भाद्रपदे तथा । पंचम्यां कृष्णपक्षस्य तत्र पूजामवाप्स्यथ

同样地,当跋陀罗钵陀月(Bhādrapada)到来之时,在黑半月(kṛṣṇa-pakṣa)的第五日,你们也将在那里受人供奉礼拜。

Verse 41

सूत उवाच । बाढमित्येव ते प्रोच्य प्रणिपत्य पितामहम् । सनातनसुतोपेता नागतीर्थं समाश्रिताः

苏多说道:他们答道“善哉,如此”,遂向毗多摩诃(梵天 Brahmā)顶礼。并与萨那檀那之子同在,归依于那伽圣渡(Nāgatīrtha)。

Verse 42

ततःप्रभृति तत्तीर्थं नागतीर्थ मिति स्मृतम् । कामप्रदं च भक्तानां नराणां स्नानकारिणाम्

自那时起,那处圣渡便被称为“那伽圣渡”(Nāgatīrtha),并成为赐予所愿之福的所在,凡虔信之人于彼沐浴者皆得其利。

Verse 43

यस्तत्र कुरुते स्नानं सकृद्भक्त्या समन्वितः । नान्वयेऽपि भयं तस्य जाय ते सर्पसंभवम्

凡于彼处以虔敬之心沐浴,纵仅一次——由蛇类所生之恐惧,亦不复于其身上生起,乃至其族系之中亦然。

Verse 44

तत्र यच्छति मिष्टान्नं द्विजानां सज्जनैः सह । पूजयित्वा तु नागेंद्रान्सनातनपुरःसरान्

在那里,应与贤善之人同在,向二次出生者(婆罗门)供奉甘美饮食;随后礼敬诸那伽之主,以常住者(Sanātana)为首。

Verse 45

सप्तजन्मांतरं यावन्न स दौःस्थ्यमवाप्नुयात् । भूतप्रेतपिशाचानां शाकिनीनां विशेषतः । न च्छिद्रं न च रोगाश्च नाधयो न रिपोर्भयम्

长达七世,他都不会陷入困厄。尤其不会遭受部多、饿鬼、毗舍阇或沙吉尼等的侵扰;无灾厄、无疾病、无心忧苦,亦无惧于仇敌。

Verse 46

यश्चैतच्छृणुयाद्भक्त्या वाच्यमानं द्विजोत्तमाः । सोऽपि संवत्सरं यावत्पन्नगैर्न च पीड्यते

噢,最胜的二次出生者啊,凡以虔敬之心聆听此功德被诵读者,他亦在一年之内不为蛇类所害。

Verse 47

सर्पदष्टस्य यस्यैतत्पुरतः पठ्यते भृशम् । नागतीर्थस्य माहात्म्यं काल दष्टोऽपि जीवति

若在被蛇咬者面前,大声诵读这《那伽圣地》的宏大功德,即便死亡已加其身,他亦得以存活。

Verse 48

पुस्तके लिखितं चैतन्नागतीर्थसमुद्भवम् । माहात्म्यं तिष्ठते यत्र न सर्पस्तत्र तिष्ठति

并且,凡此源自那伽圣地的《功德赞》被书写成册并存放之处,蛇类便不在彼处停留。

Verse 183

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागतीर्थोत्पत्तिमाहात्म्यवर्णनंनाम त्र्यशीत्युत्तरशततमोऽध्यायः

如是,在尊贵的《斯甘达摩诃往世书》中,于八万一千颂之集成之《三摩希多》内,在第六部《那伽罗分部》(Nāgara-khaṇḍa)中,于赞颂哈塔凯湿伐罗(Hāṭakeśvara)圣域之章,题为《那伽圣渡(Nāga-tīrtha)起源之威德描述》的第一百八十三章至此圆满。