Adhyaya 18
Nagara KhandaTirtha MahatmyaAdhyaya 18

Adhyaya 18

本章分为相连的两段。其一,国王毗度罗他在艰难的森林中因饥渴而疲惫不堪,遇见三位形貌可怖的饿鬼(preta)。在有条理的问答中,饿鬼以业报之名自称(Māṃsāda、Vidaivata、Kṛtaghna),并说明自己因长期行不善、怠慢礼拜、忘恩负义及诸多违背伦理之举而堕入此境。 随后,论述扩展为家居祭仪伦理的实用教诲:列举饿鬼被说会“吞食”供品或食物的情形,如 śrāddha 时机不当、dakṣiṇā 不足、家宅缺少吉祥、忽略 vaiśvadeva、不敬宾客、食物不净或受污染等。又列出导致饿鬼身的行为:染指他人妻(paradāra)、盗窃、诽谤、背叛、滥用他人财物、阻挠施与婆罗门、遗弃无过之妻等;并对照护持之德:视他人妻如母、慷慨布施、心平等、怜悯众生、趋向 yajña 与 tīrtha,以及修井筑池等利众之业。三饿鬼恳求以伽耶祭祖(Gayā-śrāddha)作为决定性的救济法。 其二,国王北行,见湖畔清净的修行林(āśrama),拜见圣贤阇弥尼(Jaimini)与诸苦行者,受赐清水与果实,陈述自身困厄,并参与傍晚仪轨。夜色的描写转为寓意化的警策,提示黑夜之险与守持正法之要。

Shlokas

Verse 1

। सूत उवाच । ततः सोऽपि महीपालः क्षुत्पिपामासमाकुलः । पपात धरणीपृष्ठे पद्भ्यां गत्वा वनांतरम्

苏塔说道:那时,那位大地守护者深受饥渴折磨,徒步走进森林深处,倒在了地上。

Verse 2

अथाऽपश्यद्वियत्स्थानात्स त्रीन्प्रेतान्सु दारुणान् । ऊर्ध्वकेशान्सुरक्ताक्षान्कृष्णदन्तान्कृशोदरान्

接着,他看见从空中出现了三个极其可怕的饿鬼——头发竖立,双眼血红,牙齿漆黑,腹部干瘪。

Verse 3

तान्दृष्ट्वा भयसंत्रस्तो विशेषेण स भूपतिः । निराशो जीविते कृच्छ्रादिदं वचनमब्रवीत्

看到它们,国王感到格外恐惧;在那困境中对生命感到绝望,他说出了这番话。

Verse 4

के यूयं विकृताकारा मया दृष्टा न कर्हिचित् । एवंविधा नृलोकेऽत्र भ्रमता प्राग्विभीषणाः

“你们是谁,为何形态如此扭曲?我从未见过像你们这样的众生。如此可怕的生灵怎会在人世间游荡?”

Verse 5

विदूरथो नरेन्द्रोऽहं क्षुत्पिपासातिपीडितः । मृगलिप्सुरिह प्राप्तो वने जन्तुविवर्जिते

“我是维杜拉塔国王,深受饥渴之苦。为了寻找猎物,我来到了这片没有生灵的森林。”

Verse 6

ततस्तेषां तु यो ज्येष्ठो मांसादः प्रत्युवाच तम् । कृतांजलिपुटो भूत्वा विनयावनतः स्थितः

随后,他们中年长者——食肉者——合掌恭敬,谦卑俯身而立,答复于他。

Verse 7

वयं प्रेता महाराज निवसामोऽत्र कानने । स्वकर्मजनिताद्दोषाद्दुःखेन महता वृताः

“大王啊,我们是饿鬼(preta),居住在这片林中。因自作之业所生的过失,我们被无边大苦所笼罩。”

Verse 8

अहं मांसादकोनाम द्वितीयोऽयं विदैवतः । कृतघ्नश्च तृतीयस्तु त्रयाणामेष पापकृत्

“我名为Māṃsāda。此第二者名Vidaivata。第三名Kṛtaghna;我们三者皆为造罪之人。”

Verse 9

राजोवाच । सर्वेषां देहि नां नाम जायते पितृमातृजम् । किमेतत्कारणं येन सर्वे यूयं स्वनामकाः

国王说道:“一切有身众生,其名皆由父母而生。为何你们众人却都持自取之名?”

Verse 10

तच्छ्रुत्वा प्राह मांसादः कर्मनामानि पार्थिव । मिथः कृतानि संज्ञार्थमस्माभिः स्वयमेव हि

听罢,Māṃsāda说道:“大王啊,这些是由业行而生的名字;为表明我们的行径,我们彼此自取其号。”

Verse 11

शृणुष्वाऽवहितो भूत्वा सर्वेषां नः पृथक्पृथक् । कर्मणा येन संजातं प्रेतत्वमिह भूमिप

大地之主啊,请专心聆听;我将逐一述说,使我们各自于此堕为饿鬼(preta)之身的业行。

Verse 12

वयं हि ब्राह्मणा जात्या वैदिशाख्ये पुरे नृप । देवरातस्य विप्रस्य गृहे जाता महात्मनः

大王啊,我们本为婆罗门之种姓,生于名为毗底舍(Vidiśā)的城中,出自大德婆罗门提婆罗多(Devarāta)之家。

Verse 13

नास्तिका भिन्नमर्यादाः परदाररताः सदा । पाप कर्मरतास्तत्र शुभकर्मविवर्जिताः

在那里,我们竟成不信之徒,破坏正当的法度;常恋他人妻,沉溺罪业,远离一切吉祥善行。

Verse 14

जिह्वालौल्यप्रसंगेन मया भुक्तं सदाऽमिषम् । तेन मे कर्मजं नाम मांसादाख्यं व्यवस्थितम्

因舌欲贪著,我常常食肉;因此,我由业所生之名便被定为“摩ṃ萨达”(Māṃsāda,食肉者)。

Verse 15

द्वितीयोऽयं महाराज यस्तिष्ठति तवाऽग्रतः । अनेनाऽन्नं सदा भुक्तमकृत्वा देवतार्चनम्

大王啊,这第二位立于你前者,常常进食,却从不先行礼拜诸天神明。

Verse 16

तेन कर्मविपाकेन प्रेतयोनिं समाश्रितः । विदैवत इति ख्यातो द्वितीयोऽयं सुपापकृत्

由于那业果的成熟,他堕入了饿鬼(Preta)的胎中。因此他被称为‘Vidaivata’;这第二个是大罪人。

Verse 17

सदैवाऽनुष्ठिताऽनेन सुपापेन कृतघ्नता । कृतघ्नः प्रोच्यते तेन कर्मणा नृपसत्तम

这大罪人不断地行忘恩负义之事。因此,国王啊,由于那行为,他被称为‘Kṛtaghna’(忘恩负义者)。

Verse 18

राजोवाच । आहारेण नृलोकेऽस्मिन्सर्वे जीवन्ति जन्तवः । युष्माकं कतमो योऽत्र प्रोच्यतां मे सविस्तरम्

国王说:‘在这个人世间,所有生物都靠食物生存。请详细告诉我——你们当中谁在这里得到供养,又是通过什么方式?’

Verse 19

मांसाद उवाच । भोज्यकाले गृहे यत्र स्त्रीणां युद्धं प्रवर्तते । अपि मन्त्रौषधीप्रायं प्रेता भुंजति तत्र हि

Māṃsāda说:‘在那家中,如果在进食之时妇女之间发生争吵,那么饿鬼(Preta)确实会享用那里的食物,即使那是用咒语和草药准备的。’

Verse 20

भुज्यते यत्र भूपाल वेंश्वदेवं विना नरैः । पाकस्याग्रमदत्त्वा च प्रेता भुंजति तत्र च

国王啊,如果人们在进食前不进行Vaiśvadeva祭祀,也不布施煮熟食物的第一份,那么饿鬼(Preta)也会在那里进食。

Verse 21

रात्रौ यत्क्रियते श्राद्धं दानं वा पर्ववर्जितम् । तत्सर्वं नृपशार्दूल प्रेतानां भोजनं भवेत्

凡在夜间所行的施食祭(śrāddha)或布施,或不依正当圣期(parvan)而作的,一切皆然;噫,王中之虎啊,尽都化为饿鬼(preta)之食。

Verse 22

यस्मिन्नो मार्जनं हर्म्ये क्रियते नोपलेपनम् । न मांगल्यं च सत्कारः प्रेता भुंजति तत्र हि

凡宅中但有扫除而无涂抹修葺之净治,又无吉祥仪轨,亦不敬待宾客者——彼处实为饿鬼(preta)所食之地。

Verse 23

भिन्नभाण्डपरित्यागो यत्र न क्रियते गृहे । न च वेदध्वनिर्यत्र प्रेता भुञ्जंति तत्र हि

凡家中不弃破损器皿,且不闻吠陀诵声之处——彼处实为饿鬼(preta)所享。

Verse 24

यच्छ्राद्धं दक्षिणाहीनं क्रियाहीनं च वा नृप । तथा रजस्वलादृष्टं तदस्माकं प्रजायते

大王啊,凡不施达克希那(dakṣiṇā)而行的施食祭(śrāddha),或仪轨不备者;又凡因见经期妇女而染污之施食祭——皆归于我等饿鬼(preta)。

Verse 25

हीनांगा ह्यधिकांगा वा यस्मिञ्च्छ्राद्धे द्विजातयः । भुंजते वृषलीनाथास्तदस्माकं प्रजायते

凡施食祭(śrāddha)中,二次生者(dvija)以肢体残缺或多余而于仪法不净仍来受食,且与不正系属相连者同食——此等施食祭皆归我等饿鬼(preta)。

Verse 26

अतिथिर्यत्र संप्राप्तः श्राद्धकाल उपस्थिते । अपूजितो गृहाद्याति तच्छ्राद्धं प्रेततृप्तिदम्

当祭祖仪式(Śrāddha)进行时,若有不速之客到来,却未受礼遇而离开,那么这场祭祀将只能取悦饿鬼(Preta),而非祖先。

Verse 27

किं वा ते बहुनोक्तेन शृणु संक्षेपतो नृप । अस्माकं भोजनं नित्यं यत्त्वं श्रुत्वा विगर्हसि

多说何益?大王啊,请听我简述:我们的食物总是那些当你听闻之后,便会加以谴责和厌恶的东西。

Verse 28

यदन्नं केशसूत्रास्थिश्लेष्मादिभिरुपप्लुतम् । हीनजात्यैश्च संस्पृष्टं तदस्माकं प्रजायते

凡是被毛发、线头、骨头、粘液等玷污的食物,以及被出身卑微者触碰过的食物,确实都会变成我们的食物。

Verse 29

राजोवाच । केन कर्मविपाकेन प्रेतत्वं जायते नृणाम् । एतन्मे सर्वमाचक्ष्व मांसाद मम पृच्छतः

国王问道:“是因为什么样的业报成熟,人类才会变成饿鬼?食肉者啊,既然我问你,就请你毫无保留地告诉我这一切。”

Verse 32

परदाररतश्चैव परवित्तापहारकः । परापवादसंतुष्टः स प्रेतो जायते नरः

贪恋他人妻子、窃取他人财物、并以诽谤他人为乐的人——这样的人将会转生为饿鬼。

Verse 33

कन्यां यच्छति वृद्धाय नीचाय धनलिप्सया । कुरूपाय कुशीलाय स प्रेतो जायते नरः

若有人因贪恋财物,将女儿嫁与老者、卑劣者、丑陋者及品行恶劣者——此人将转生为饿鬼(preta)。

Verse 34

कुले जातां विनीतां च धर्मपत्नीं सुखोच्छ्रिताम् । यस्त्यजेद्दोषनिर्मुक्तां स प्रेतो जायते नरः

若有人遗弃其正妻——出身良族、端庄柔顺、安享家业,且无过失——此人将转生为饿鬼(preta)。

Verse 35

देवस्त्रीगुरुवित्तानि यो गृहीत्वा न यच्छति । विशेषाद्ब्राह्मणस्वं च स प्रेतो जायते नरः

若有人取走属于神祇、妇女或上师(guru)的财物而不归还——尤其是婆罗门之财——此人将转生为饿鬼(preta)。

Verse 36

परव्यसनसंतुष्टः कृतघ्नो गुरुतल्पगः । दूषको देवविप्राणां स प्रेतो जायते नरः

凡以他人灾厄为乐者、忘恩负义者、犯师床者,并诋毁诸神与婆罗门者——此人将转生为饿鬼(preta)。

Verse 37

दीयमानस्य वित्तस्य ब्राह्मणेभ्यः सुपापकृत् । विघ्नमारभते यस्तु स प्रेतो जायते नरः

那大罪人若在施财供养婆罗门之时横加阻碍——此人将转生为饿鬼(preta)。

Verse 38

शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि । स प्रेतो जायते राजन्यद्यपि स्यात्षडंगवित्

国王啊,如果婆罗门腹中尚存首陀罗之食而死,即使他精通六吠陀支,也会变成饿鬼。

Verse 39

कुलदेशोचितं धर्मं यस्त्यक्त्वाऽन्यत्समाचरेत् । कामाद्वा यदि वा लोभात्स प्रेतो जायते नरः

任何人若因欲望或贪婪,背弃适合其家族与地域的正法而奉行他法,此人必生为饿鬼。

Verse 40

एतत्ते सर्वमाख्यातं मया पार्थिवसत्तम । येन कर्मविपाकेन प्रेतः संजायते नरः

众王之首啊,我已经完整地告诉你,人类是如何因业报成熟而生为饿鬼的。

Verse 41

राजोवाच । कृतेन कर्मणा येन न प्रेतो जायते नरः । तन्मे कीर्तय मांसाद विस्तरेण विशेषतः

国王问道:“做过什么样的行为,人就不会变成饿鬼?请详细、明确地告诉我,曼萨达啊。”

Verse 42

मांसाद उवाच । मातृवत्परदारान्यः परद्रव्याणि लोष्टवत् । यः पश्यत्यात्मवज्जंतून्न प्रेतो जायते नरः

曼萨达说:“视他人之妻如母,视他人之财如土块,视众生如己身者,此人不会生为饿鬼。”

Verse 43

अन्नदानपरो नित्यं विशेषेणातिथिप्रियः । स्वाध्यायव्रतशीलो यो न प्रेतो जायते नरः

恒常乐行施食之德,尤喜敬奉宾客,并以自修诵习(svādhyāya)与誓戒(vrata)自持之人——此人不生为饿鬼(preta)。

Verse 44

समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः । समो मानापमानेषु न प्रेतो जायते नरः

对敌与友皆能平等安然,视土块、石头与黄金为同一,荣辱不动如一之人——此人不生为饿鬼(preta)。

Verse 46

यूकामत्कुणदंशादीन्सर्वसत्त्वानि यो नरः । पुत्रवत्पालयेन्नित्यं न प्रेतो जायते नरः

恒常护持一切众生,乃至虱、虫与叮咬之类,也如护己子者——此人不生为饿鬼(preta)。

Verse 47

सदा यज्ञक्रियोपेतः सदा तीर्थपरायणः । शास्त्रश्रवणसंयुक्तो न प्रेतो जायते नरः

常行祭祀与诸般圣仪,恒依止诸圣地(tīrtha),并勤于聆听圣典(śāstra)者——此人不生为饿鬼(preta)。

Verse 48

वापीकूपतडागानामारामाणां विशे षतः । आरोपकः प्रपाणां च न प्रेतो जायते नरः

使人开凿井、阶井与池塘,尤能营建园林并设立施水之处者——此人不生为饿鬼(preta)。

Verse 49

दानधर्मप्रवृत्तानां धर्ममार्गा नुयायिनाम् । प्रोत्साहं वर्धयेद्यस्तु न प्रेतो जायते नरः

凡能增长行布施与奉持正法者之热忱与鼓励,并随顺义路者——此人不再堕生为饿鬼(preta)。

Verse 50

गत्वा गयाशिरः पुण्यमेकैकस्य पृथक्पृथक् । श्राद्धं देहि महीपाल त्रयाणामपि सादरम्

大地的守护者啊,既至圣地伽耶顶(Gayāśiras),当为每一位分别行施“施罗陀”(śrāddha)祭仪,并以恭敬之心为三者尽行。

Verse 51

प्रेतत्वं याति येनेदं त्वत्प्र सादात्सुदारुणम् । नाऽन्यथा मुक्तिरस्माकं भविष्यति कथंचन

蒙你恩泽,此极其可怖之境竟转为饿鬼(preta)之身。除此之外,我等绝无任何途径得解脱(mokṣa)。

Verse 52

राजोवाच । ईदृग्जातिस्मृतिर्यस्यां प्रेतयोनौ च खे गतिः । धर्माधर्मपरिज्ञानं तच्च कस्मात्प्रनिंदसि

国王说道:“在饿鬼(preta)之境,尚有宿生之忆,能行于虚空,并能辨别正法与非法(dharma 与 adharma)——为何你却贬斥它?”

Verse 53

मांसाद उवाच । प्रेतयोनिरियं राजन्नवमी देवसंज्ञिता । गुणत्रयसमायुक्ता शेषैर्दोषैः समंततः

摩ṃ萨达说道:“大王啊,此饿鬼(preta)之境名为‘第九’,甚至被称作‘神圣’。它具足三德(guṇa),却又在四面八方为诸多过失所围绕。”

Verse 54

एका जातिस्मृतिः सम्यगस्यामेवप्रजायते । खेचरत्वं तथैवान्यद्धर्माधर्मविनिश्चयः

就在此种境地中,会生起三种殊胜资具:真实忆念前世,能于虚空中往来,以及清明判别正法(dharma)与非法(adharma)。

Verse 55

एतद्गुणत्रयं प्रोक्तं प्रेतयोनौ नृपोत्तम । दोषानपि च ते वच्मि ताञ्च्छृणुष्व समाहितः

大王之最胜者,此三种德相已就饿鬼(preta)之境而说。如今我亦将述其过患——请摄心谛听。

Verse 56

यदि तावद्वनादस्माद्यामोन्यत्र वयं नृप । अदृष्टमुद्गराघातैर्नूनं हन्यामहे ततः

大王,若我们欲离此林而往他处,必定在彼处遭无形铁杵之击而被打倒。

Verse 57

तथा धर्मक्रियाः सर्वा मानुषाणामुदाहृताः । न प्रेतानां न देवानां नान्येषां मानुषं विना

同样,一切法行皆宣说唯属人身:非为饿鬼(preta),非为诸天,亦非他类——唯有人身是修行正法之田地。

Verse 58

पश्यामो दूरतो राजञ्जलपूर्णाञ्जला शयान् । पिपासाकुलिताः श्रांता भास्करे वृषसंस्थिते

大王,我们从远处看见他者卧倒,双手合拢如捧器而盛满清水;却为渴爱所逼、疲惫不堪——当太阳驻于金牛宫之时。

Verse 59

गच्छामः संनिधौ तेषां यदि पार्थिवसतम । अदृष्टमुद्गराघातैर्वयं हन्यामहे ततः

噢,至上的君王,若我们走近他们,即便在那里,我们也会被无形的钉锤之击所击倒。

Verse 60

तथा रसवती सिद्धाः पश्यामो दूरसंस्थिताः । क्षुधाविष्टा गृहस्थानां गृहेषु विविधा नृप

同样地,噢,大王,我们从远处看见居士诸家备下丰盛甘美的饮食,然而我们仍以种种方式为饥饿所缠。

Verse 61

तथा सुफलिनो वृक्षान्कलपक्षिभिरावृतान् । स्निग्धान्सच्छाययोपेतान्सेवितुं न लभामहे

同样地,我们也无缘在果实累累之树旁歇息——群鸟覆绕,青润鲜新,具足怡人的清凉树荫。

Verse 62

किंवा ते बहुनोक्तेन यद्यत्कर्म विगर्हितम् । क्लेशदं च तदस्माकं स्वयमेवोपतिष्ठते

然而多言何益?凡可讥可责、并招致苦恼之业,唯有那般之事自然而然临到我们。

Verse 63

न च्छिद्रेण विनाऽस्माकं प्राणयात्रा प्रजायते । न जलानि न च च्छाया न यानं न च वाहनम्

若无一线“空隙”或依凭,我们连生命的延续也无法进行。我们既无水,亦无荫凉,无车乘,亦无坐骑。

Verse 64

एतस्मात्कारणान्नित्यं भ्रमामश्छिद्रहेतवे । प्राप्ते रात्रिमुखे राजन्न प्रातर्न च वासरे

因此我们不停漂泊,寻求一处“缝隙”(得以解脱或依止之处)。当夜幕将临,哦大王,对我们而言没有清晨——也没有白昼。

Verse 65

यत्त्वं शंससि चाऽस्माकं खेचरत्वं महीपते । व्यर्थं तदपि न श्रेयः शृणु तत्रापि कारणम्

至于你称赞我们的“行于虚空”之性,哦大地之主——即便如此也终归徒然,并非真正的善益。也请听其缘由。

Verse 66

क्रियते खेचरत्वेन किंकिं धर्मं विनिश्चयैः । यतो न सिध्यते मोक्षो जाति स्मृत्यादिकं तथा

仅凭“行于虚空”,又能成就哪一种经由确证而定的法(dharma)呢?因为凭此既不能得解脱(moksha),连忆念自身出生等事也不能成就。

Verse 67

तस्माद्दोषादिमे राजन्गुणा यद्यपि कीर्तिताः । प्रेतानां यान्समाश्रित्य काचित्सिद्धिर्न जायते

因此,哦大王,即使这些“德相”被人称说,由于那过失,凡依凭其上的饿鬼(preta)也不会生起任何真实的成就。

Verse 68

विषादो जायते भूयो गुणैरेतैर्नराधिप । अशक्ताः प्रेतयोगाद्वै सर्वस्य शुभकर्मणः

反而,哦人中王,这些所谓“优势”只令忧苦更增;因为被系缚于饿鬼(preta)之境,我们确实无力行一切吉祥善业。

Verse 69

राजोवाच यदि यास्यामि भूयोऽहं गृहमस्मान्महावनात् । तत्करिष्यामि सर्वेषां गयाश्राद्धमसंशयम्

国王说道:若我能再度从这片大森林回到家中,我必定毫无疑问为他们所有人举行伽耶施罗陀(Gayā-śrāddha)祭仪。

Verse 70

तारयिष्यामि सर्वांश्च सर्वपापैः प्रयत्नतः । अप्यात्मदेहदानेन सत्येनात्मानमालभे

我将竭力使他们众人脱离一切罪垢。纵然要奉献我自己的身体,我也以真理为证,誓将此愿系于自身。

Verse 71

यस्माद्धृद्गतशंका मे हृता युष्माभिरद्य वै । येन तत्प्राप्य युष्माकमुपकारं करोम्यहम्

既然今日你们确已除去我心中盘踞的疑惧,那么如今我既得其门径,便当回报你们的恩德,以奉事相酬。

Verse 72

मांसाद उवाच । इतः स्थानान्महाराज नातिदूरे जलाशयः । अस्ति नानाद्रुमोपेतश्चित्ताह्लादकरः परः

玛ṃ萨达说道:“大王,从此处不远有一处水泽,周围繁树万种,景象殊胜,令人心神欢悦。”

Verse 73

तस्मादुदङ्मुखो गच्छ यत्र ते जलपक्षिणः । दृश्यंते व्योममार्गेण प्रगच्छतः समंततः

因此你当面向北方而行,去那能见到水鸟之处;它们循着天空的路径飞翔,四面回旋。

Verse 74

सूत उवाच । अथासौ नृपशार्दूलः समुत्थाय शनैःशनैः । सौम्यां दिशं समुद्दिश्य प्रतस्थे स तु दुःखितः

苏多说道:于是那位诸王之虎缓缓起身,面向温和的北方而启程;然而他心中仍满怀忧伤。

Verse 76

एवं प्रगच्छता तेन क्षुत्पिपासाकुलेन च । अदूरादेव संदृष्टं नीलं द्रुमकदंबकम् । भ्रममाणैर्बकैर्हंसैः सारसैर्मद्गुभिस्तथा

他如此前行,饥渴交迫;不远处他看见一片深蓝色的林丛,周围有鹤、天鹅、娑罗娑鸟以及madgu鸟盘旋飞舞。

Verse 77

अथाऽपश्यन्मनोहारि सौम्यसत्त्वनिषेवितम् । आश्रमं ह्रदतीरस्थं तापसैः सर्वतो वृतम्

随后他看见一处令人心悦的隐修院,常有温良之众来往;它坐落在湖畔,四面皆为苦行仙人所环绕。

Verse 78

पुष्पितैः फलितैर्वृक्षैः समंतात्परिवेष्टितम् । विचित्रैर्मधुरारावैर्नादितं विहगोत्तमैः

那隐修院四周环绕着开花结果的树木,并回响着群鸟清妙多样的甜美鸣声。

Verse 79

तत्रापश्यन्नगाधस्तात्तपस्विगणसेवितम् । शिवधर्मपरं शांतं जैमिनिं मुनिसत्तमम्

在那里,他看见阇弥尼仙人——诸牟尼中最胜者:寂静安然,专奉湿婆之法,且有众多苦行者侍从左右,亲爱的啊。

Verse 80

अथ गत्वा स राजेंद्रः प्रणिपत्य मुनीश्वरम् । तथान्यानपि तच्छिष्यान्निपपात धरातले

于是那位威严的国王前往拜见;他顶礼于诸牟尼之主的大圣者,又俯伏于地,恭敬礼拜那位圣者的其他弟子。

Verse 81

ते दृष्ट्वाऽदृष्टपूर्वं तं राजलक्षणलक्षितम् । धूलिधूसरितांगं च भस्मावृतमिवाचलम्

他们见到他——从未见过的人——却具足王者之相;其肢体为尘土所染而灰白,宛如被灰烬覆盖的山岳,于是众人注目而观。

Verse 82

मन्यमाना महीपालं विस्मयोत्फुल्ललोचनाः । प्रोचुश्च मधुरैर्वाक्यैराशीर्वादपुरःसरैः

他们以为他是国王,惊异得双目圆睁;便以甘美之语对这位护世者开口,先以祝福为前导。

Verse 84

पार्थिवस्येव लिंगानि दृश्यंते तव भूरिशः । न विद्मो निश्चयं तस्माद्वदागमनकारणम्

噢,大力者,你身上分明显现君王之相;然我等尚不能确知,因此请告知你来此之因。

Verse 85

अथोवाच नृपः कृच्छ्रात्पिपासा मां प्रबाधते । तस्माद्वदत पानीयं यत्पीत्वा कीर्तयाम्यहम्

于是国王困苦地说道:“口渴折磨着我。因此请告知那水在何处;我饮之之后,必宣扬其功德与荣耀。”

Verse 86

ततस्तैर्दर्शितं तोयं समीपे यन्महीपतेः । सोऽपि पीत्वाऽवगाह्याथ वितृष्णः समपद्यत

随后他们指给国王近旁的清水。国王亦饮之并入水沐浴,于是渴意尽除。

Verse 87

ततः फलानि पक्वानि तरूणां पतितान्यधः । सुमृष्टानि समादाय भक्षयामास वांछया

随后他拾起树下落下的熟果,细细拭净,随心而食。

Verse 88

ततस्तृप्तिं परां प्राप्य गत्वा जैमिनिसंनिधौ । उपविष्टः प्रणम्योच्चैस्तथान्यांश्च मुनीन्क्रमात्

继而他得大满足,前往圣者阇弥尼座前;恭敬顶礼后就座,并依次礼敬诸位牟尼。

Verse 89

उवाच च निजां वार्तां कृतांजलिपुटः स्थितः । स पृष्टस्तापसैः सर्वैः सुविस्मयसमन्वितैः

他合掌恭立,述说自身经历;因诸苦行者皆怀大惊异而发问,他便如是陈述。

Verse 90

विदूरथो महीपोऽहं माहिष्मत्यां कृतास्पदः । मृगलिप्सुर्वने घोरे प्रविष्टः सैनिकैः सह

“我乃毗度罗他王,居于摩醯湿摩底。因欲猎取禽兽,我与军士一同进入那可怖之林。”

Verse 91

ततो मे भ्रममाणस्य प्रणष्टाः सर्वसैनिकाः । गुल्मैरंतरिताश्चाऽन्ये न जानेऽहं कथं स्थिताः

随后我在林中徘徊时,我的众军士尽皆失散;另一些又被密丛荆棘隔断——我不知他们境况如何。

Verse 92

आसीद्धयो ममाऽधस्ताज्जात्यः सर्वगुणान्वितः । सोऽपि कर्मविपाकेन पञ्चत्वं समुपस्थितः ।ा

我身下曾有我的骏马——良种出身,具足诸般美德。然而即便是它,也因业报成熟而至于终尽,复归五大。

Verse 93

कुतस्त्वमनुसंप्राप्तो वनेऽस्मिञ्जनवर्जिते । एकाकी सुकुमारांगः पदातिः श्रमविह्वलः

你从何处来到这片人迹罕至的森林?孤身一人,肢体柔弱,徒步而行,似被疲惫所压。

Verse 94

ततस्ते तापसाः प्रोचुर्विद्महे न वयं पुरीम् । त्वां च देशं च ते राजन्कोऽयं देशश्च कीर्त्यते

于是那些苦行仙人说道:“我们不识城邑。大王啊,我们既不识你,也不识你的国土——此地是何国,又以何名而著称?”

Verse 95

नरेन्द्रैर्नैव नः कार्यं न दिशैर्न पुरैर्नृप । वनेचरा वयं नित्यं शिवाराधनतत्पराः

大王啊,我们与诸王无涉,也不系念方隅疆土,更不问城邑。我们恒居林中,一心奉修礼敬湿婆(Śiva)。

Verse 96

सर्वे शीर्णानि वृक्षाणां पुष्पाणि च फलानि च । भक्षयामोऽथ पत्राणि शरी रस्थितिहेतुना

我们只食取从树上自然坠落之物——花与果;继而亦食叶片,唯为维持此身而已。

Verse 97

मानुषैः सह संसर्गं संभाषं च नराधिप । न कुर्मो न च पश्यामो गच्छामोऽन्यत्र दूरतः

噫,人中之主啊,我们既不与凡人交往,亦不与之言谈;甚至不以目相视——宁可远避他处。

Verse 98

एकैकस्य तरोर्मूले दिवसं वा दिनद्वयम् । तिष्ठामो न भवेद्येन ममत्वं तत्समुद्भवम्

在每一棵树根下,我们住一日,至多两日;为使因久住而不生“此为我有”的执著。

Verse 99

कारणात्तव राजेंद्र निशामेतां वनस्पतौ । नेष्यामोऽन्यत्र यास्यामः प्रभा तेऽन्यत्र कानने

然为汝故,噫万王之王,我们今夜将宿于此树旁。及至黎明,便往他处;而汝之光辉,将在另一片林野中照耀。

Verse 101

एकाकी पार्थिवेन्द्रोऽयं नेष्यति च कथं निशाम् । वनेऽस्मिन्मंत्रयित्वैवं ततोऽत्रैव व्यवस्थिताः

“此王中之王孤身一人,如何在此林中度过长夜?”他们在林间如此商议,遂决定就地停留。

Verse 102

तस्मादत्रैव नेष्यामः समेताः शर्वरीमिमाम् । गंतव्यं प्रातरुत्थाय ततः सर्वैर्यदृच्छया

因此,我们众人就在此同住,共度今夜。明晨起身之后,各人便可随其因缘命数而行。

Verse 103

एवं संवदतां तेषां भगवांस्तीक्ष्णदीधितिः । अस्ताचलमनुप्राप्तः कुंकुमक्षोदसंनिभः

他们如此交谈之时,具锐利光芒的圣者——太阳神——已至落日之山,色泽宛如研细的藏红花粉。

Verse 104

अथ तास्तापसान्राजा प्रोवाच प्रणतः स्थितः । संध्याकालः समायातः सांप्रतं मुनिसत्तमाः । तस्मात्संध्याविधिः कार्यः सर्वैरेव यथोचितः

于是国王恭敬谦卑地立于一旁,对诸苦行者说道:“诸位最胜牟尼啊,如今已至三时交会的沙暮耶(Sandhyā)之刻。故当由众人依其仪轨,如法修行沙暮耶之礼。”

Verse 105

अथ ते मुनयः सर्वे स च राजा तथा द्विजाः । चक्रुः सायंतनं कर्म यथोद्दिष्टं पुरातनैः

随后,诸牟尼与国王及诸“再生者”(婆罗门等)一同,依古圣所示,如法完成傍晚的修持仪轨。

Verse 106

कामिभिः कामिनीलोकैः प्रियोक्तैरभिवां छिता । असत्स्त्रीभिर्विशेषेण संप्राप्ता रजनी ततः

于是夜幕降临——为纵欲之人所渴盼,为放荡女子之群所喜求;因其甜蜜诱惑之语而被追逐,尤为失德之女所趋向。

Verse 107

पीयूषार्णववेलेव विषवृक्षलतेव च । उलूकैश्चक्रवाकैश्च युगपद्या विलोक्यते

它同时呈现出两种相反的景象:一如甘露之海的岸边,一如缠绕在毒树上的藤蔓;猫头鹰与查克拉瓦卡鸟亦在同一刻如此观见。

Verse 108

उलूका राक्षसाश्चौराः कामिनः कुलटांऽगनाः । यां वांछंति सदा सोत्काः सुवृष्टिमिव कर्षुकाः

猫头鹰、罗刹、盗贼、纵欲之男与放荡之女,总是急切渴求那(黑)夜——正如农夫盼望甘霖。