
本章以神学对话为骨架,内嵌一份迦尸(Kāśī)圣所名录。天军(gaṇa)所建立的诸多林伽由斯甘达逐一列举,并以相对方位标示其处所,如在毗湿维湿(Viśveśa)之北、计达罗(Kedāra)之南、近俱毗罗(Kubera)之侧,或在内宅北门等;又为“瞻礼”(darśana)与“供奉礼拜”(arcana)配以 phalaśruti 式功德果报。 经文点名并说明诸坛:Piṅgalākheśa;Vīrabhadreśvara 赐“勇士成就”(vīra-siddhi)并护佑战阵;Kirāteśa 令行者无畏;Caturmukheśvara 赐天界荣誉;Nikuṃbheśvara 近俱毗罗而助事业成办与升显;Pañcākṣeśa 赐 jati-smṛti(忆念前生);Lāṅgalīśvara 除病增福;Virādheśvara 缓解过失;Sumukheśa 解罪并赐吉祥之见;Āṣāḍhīśvara 以特定时令朝圣之记而净除罪垢。 后半转为湿婆的沉思独白:迦尸被描绘为负荷轮回(saṃsāra)者的决定性归依,是以 pañcakrośī 量度的“城之身”;甚至仅闻或称念“瓦拉纳西/迦尸/鲁陀罗之居(Rudrāvāsa)”,亦能对治阎摩(Yama)的威胁。最终,大自在天(Mahādeva)命甘尼沙(Gaṇeśa)率随从前往迦尸,确保功业不断、诸事无碍,再次确立迦尸为恒久的仪轨与神学中心。
Verse 1
स्कंद उवाच । अन्येपि ये गणास्तत्र काश्यां लिंगानि चक्रिरे । तांश्च ते कथयिष्यामि कुंभयोने निशामय
斯坎达说道:“在迦尸(Kāśī)那里,亦有其他众伽那建立了林伽。我也将为你叙说他们——噢‘壶生者’(Kumbhayoni),请谛听。”
Verse 2
गणेन पिंगलाख्येन पिंगलाख्येशसंज्ञितम् । लिंगं प्रतिष्ठितं शंभोः कपर्दीशादुदग्दिशि
由名为“平伽罗”(Piṅgala)的伽那所立,奉安了商婆(Śambhu)之林伽,名闻为“平伽罗称主”(Piṅgalākhyeśa),在迦波尔底湿(Kapardīśa)之北方。
Verse 3
तस्य दर्शनमात्रेण पापानां जायते क्षयः । वीरभद्रो महाप्रीतो देवदेवस्य शूलिनः
唯以一见,诸罪便得消灭。毗罗跋陀罗(Vīrabhadra)大为欢喜于诸天之天、持三叉戟之主——修林(Śūlin)。
Verse 4
वीरभद्रेश्वरं लिंगं ध्यायेदद्यापि निश्चलः । तस्य दर्शनमात्रेण वीरसिद्धिः प्रजायते
即使在今日,也当心志不动,观想毗罗跋陀罗主(Vīrabhadreśvara)之林伽;唯以一见,便生勇武成就。
Verse 5
अविमुक्तेश्वरात्पश्चाद्वीरभद्रेश्वरं नरः । समर्च्य न रणे भंगं कदाचिदपि चाप्नुयात्
礼敬阿毗穆克提湿伐罗(Avimukteśvara)之后,世人当如法再礼敬毗罗跋陀罗主(Vīrabhadreśvara);他在战阵之中,永不遭败。
Verse 6
वीरभद्रः स्वयं साक्षाद्वीरमूर्तिधरो मुने । संहरेद्विप्रसंघातमविमुक्तनिवासिनाम
圣者啊,毗罗跋陀罗(Vīrabhadra)亲自现前,具勇士之相,必摧灭那攻击住于阿毗穆克多(Avimukta)之婆罗门的来犯众军。
Verse 7
भद्रया भद्रकाल्या च भार्यया शुभया युतम् । वीरभद्रं नरोभ्यर्च्य काशीवासफलं लभेत्
若礼拜与吉祥眷属婆陀罗(Bhadrā)与婆陀罗迦梨(Bhadrakālī)同在的毗罗跋陀罗(Vīrabhadra),便得居住迦尸(Kāśī)之功德果报。
Verse 8
किरातेन किरातेशं लिंगं काश्यां प्रतिष्ठितम् । केदाराद्दक्षिणे भागे भक्तानामभयप्रदम्
在迦尸(Kāśī),基罗多(Kirāta)安立名为基罗提湿(Kirāteśa)的林伽;其位于计陀罗(Kedāra)之南,赐予信众无畏。
Verse 9
चतुर्मुखो गणः श्रीमान्वृद्धकालेश सन्निधौ । चतुर्मुखेश्वरं लिंगं ध्यायेदद्यापि निश्चलः
名为四面(Caturmukha)的尊贵伽那,在弗利陀迦罗湿(Vṛddhakāleśa)之前,至今仍不动摇地观想名为四面湿伐罗(Caturmukheśvara)的林伽。
Verse 10
भक्ताश्चतुर्मुखेशस्य चतुराननवद्दिवि । पूज्यंते सुरसंघातैः सर्वभोगसमन्विताः
在天界,四面湿(Caturmukheśa)的信众如同四面者(梵天)般受尊崇;为诸天众所礼敬,并具足一切受用。
Verse 11
निकुंभेश्वरमालोक्य निकुंभगणपूजितम् । पूजयित्वा व्रजन्ग्रामं कार्यसिद्धिमवाप्नुयात् । कुबेरेश समीपेतु शिवलोके महीयते
瞻礼为尼俱婆伽那所供奉的尼俱婆湿伐罗(Nikuṃbheśvara),并加以供养礼拜;归返本村时,诸事皆得成就。又在俱毗罗湿(Kubereśa)近旁,于湿婆界中受尊荣。
Verse 12
पंचाक्षेशं महालिंगं महादेवस्य दक्षिणे । समभ्यर्च्य नरः काश्यां जातिस्मृतिमवाप्नुयात्
在迦尸(Kāśī),若如法礼敬位于大天(Mahādeva)之南的伟大林伽“般遮阿克谢沙”(Pañcākṣeśa),此人便得忆念前世之记忆。
Verse 13
भारभूतेश्वरं लिंगं भारभूतगणार्चितम् । अंतर्गृहोत्तरद्वारि ध्यात्वा शिवपुरे वसेत्
于内殿之北门处,观想由婆罗布多(Bhārabhūta)之众伽那所礼敬的林伽“婆罗布提湿伐罗”(Bhārabhūteśvara),便得居于湿婆之城(Śivapura)。
Verse 14
भारभूतेश्वरं लिंगं यैः काश्यां न विलोकितम् । भारभूताः पृथिव्यास्तेऽवकेशिन इव द्रुमाः
凡在迦尸未曾瞻礼林伽“婆罗布提湿伐罗”(Bhārabhūteśvara)者,乃大地之重负,犹如中空无用之树。
Verse 15
गणेन त्र्यक्षसंज्ञेन लिंगं त्र्यक्षेश्वरं परम् । त्रिलोचनपुरोभागे शील्येताद्यापि कुंभज
由名为“特里亚克沙”(Tryakṣa)的一位伽那安立了至上林伽“特里亚克谢湿伐罗”(Tryakṣeśvara)。它至今仍在三目者(Trilocana)之前庭受人恭敬礼拜,噢,壶生者(Kumbhaja,阿伽斯提耶)。
Verse 16
तस्य लिंगस्य ये भक्तास्ते तु देहावसानतः । त्र्यक्षा एव प्रजायंते नात्र कार्या विचारणा
凡为彼林伽之 भक्त者,身终之后,确实转生为特里亚克沙(Tryakṣa);对此不必起疑。
Verse 17
क्षेमको नाम गणपः काश्यां मूर्तिधरः स्वयम् । विश्वेश्वरं सर्वगतं ध्यायेदद्यापि निश्चलः
名为克谢摩迦(Kṣemaka)的一位伽那,自身在迦尸(Kāśī)现身成形,至今仍安住不动,观想遍在之主毗湿维湿伐罗(Viśveśvara)。
Verse 18
क्षेमकं पूजयेद्यस्तु वाराणस्यां महागणम् । विघ्नास्तस्य प्रलीयंते क्षेमं स्याच्च पदेपदे
凡在婆罗那西(Vārāṇasī)礼敬克谢摩迦(Kṣemaka)这位大伽那者,其诸障皆消,吉祥安稳步步随行。
Verse 19
देशांतरं गतो यस्तु तस्यागमनकाम्यया । क्षेमकं पूजनीयोत्र क्षेमेणाशु स आव्रजेत्
若有人远赴他乡而思归,则当在此礼敬克谢摩迦(Kṣemaka);凭其吉祥护佑,便能迅速而安稳地归来。
Verse 20
लांगलीश्वरमालोक्य लिंगं लांगलिनार्चितम् । विश्वेशादुत्तरेभागे न नरो रोगभाग्भवेत्
瞻礼名为“犁主”(Lāṃgalīśvara)的林伽——为持犁者(Lāṃgalin)所供奉,位于毗湿维舍(Viśveśa)之北——则人不为疾病所分得其份。
Verse 21
लांगलीशं सकृत्पूज्य पंचलांगलदानजम् । फलं प्राप्नोत्यविकलं सर्वसंपत्करं परम्
只要一次礼敬拉姆伽利沙(Lāṃgalīśa),便得由布施五犁所生之圆满无缺之果报——至上殊胜,能成就一切福财。
Verse 22
विराधेश्वरमाराध्य विराधगणपूजितम् । सर्वापराधयुक्तोपि नापराध्यति कुत्रचित्
礼敬毗罗陀主(Virādheśvara)——为名为毗罗陀的伽那所奉祀——纵使背负一切罪愆者,亦不复于任何处再犯过失。
Verse 23
दिनेदिनेपराधो यः क्रियते काशिवासिभिः । स याति संक्षयं क्षिप्रं विराधेश समर्चनात्
迦尸(Kāśī)住民日日所作之过失,因如法供奉毗罗陀主(Virādheśa)而迅速消灭。
Verse 24
नैरृते दंढपाणस्तु विराधेशं प्रयत्नतः । नत्वा सर्वापराधेभ्यो मुच्यते नात्र संशयः
在西南方,持杖者檀陀波尼(Daṇḍapāṇi)竭诚礼拜毗罗陀主(Virādheśa);由此人得解脱一切罪愆,此中无疑。
Verse 25
सुमुखेशं महालिंगं सुमुखाख्यगणार्चितम् । पश्चिमाभिमुखं लिंगं दृष्ट्वा पापैः प्रमुच्यते
瞻礼名为善面主(Sumukheśa)之大灵伽——为名为善面的伽那所奉祀——此西向灵伽能令众生脱离诸罪。
Verse 26
स्नात्वा पिलिपिला तीर्थे सुमुखेशं विलोक्य च । सदैव सुमुखं पश्येद्धर्मराजं न दुर्मुखम्
于毗利毗罗(Pilipilā)圣渡沐浴,并瞻仰善面主(Sumukheśa)之后,众生恒见法王(Dharmarāja)面容慈和,绝不见其凶厉之相。
Verse 27
आषाढिनार्चितं लिंगमाषाढीश्वरसंज्ञकम् । दृष्ट्वाषाढयां नरो भक्त्या सर्वैः पापैः प्रमुच्यते
在阿沙陀月(Āṣāḍha),若有人以虔敬瞻礼名为“阿沙陀伊湿伐罗”(Āṣāḍhīśvara)、为Āṣāḍhin所供奉之林伽,便能解脱一切罪业。
Verse 28
उदीच्यां भारभूतेशादाषाढीशं समर्चयन् । आषाढ्यां पंचदश्यां वै न पापैः परितप्यते
在北方方位,自Bhārabhūteśa起而礼拜Āṣāḍhīśa,于阿沙陀月第十五日(满月日)行供奉者,不为罪业所苦。
Verse 29
शुचिशुक्लचतुर्दश्यां पंचदश्यामथापि वा । कृत्वा सांवत्सरीं यात्रामनेना जायते नरः
在Śuci月明半第十四日,或第十五日,若有人完成此一年一度的朝圣之行,便由此获得所许的灵性果报。
Verse 30
स्कंद उवाच । मुने गणेषु चैतेषु वाराणस्यां स्थितेष्विति । स्वनाम्ना स्थाप्य लिंगानि विश्वेशपरितुष्टये
斯甘达说道:圣者啊,当这些侍从众(湿婆之眷属)如此住于婆罗那西(Vārāṇasī)时,便以各自之名建立林伽,以令毗湿维湿伐罗(Viśveśa)圆满欢喜。
Verse 31
विश्वेशश्चिंतयां चक्रे पुनः काशीप्रवृत्तये । कं वा हितं प्रहित्याद्य निर्वृतिं परमां भजे
毗湿维湿伐罗(Viśveśa)复又沉思,意在重振迦尸(Kāśī)圣法之流转:“我当利益谁、遣谁前往于今,使我得享至上的寂静安乐?”
Verse 32
योगिन्यस्तिग्मगुर्वेधाः शंकुकर्णमुखागणाः । व्यावृत्त्यनागताः काश्याः सिंधुगा इव सिंधवः
诸瑜伽女与诸众神侍从——提格玛古尔韦达以及以商库卡尔纳为首的诸众——皆回转而不再归返迦尸,犹如众河入海而不复回流。
Verse 33
धुवं काश्यां प्रविष्टा ये ते प्रविष्टा ममोदरे । तेषां विनिर्गमो नास्ति दीप्तेग्नौ हविषामिव
诚然,凡入迦尸者,即入我之腹中;彼等再无出离之路,如供物投入炽燃之火。
Verse 34
येषां हि संस्थितिः काश्यां लिंगार्चनरतात्मनाम् । त एव मम लिंगानि जंगमानि न संशयः
实则,凡安住于迦尸、心乐礼敬林伽者,彼等即是我之行走林伽;对此毫无疑惑。
Verse 35
स्थावरा जंगमाः काश्यामचेतनसचेतनाः । सर्वे ममैव लिंगानि तेभ्यो द्रुह्यंति दुर्धियः
在迦尸,不动与能动、无情与有情,皆实为我之林伽;心智邪恶者,反而冒犯于彼。
Verse 36
वाचि वाराणसी येषां श्रुतौ वैश्वेश्वरी कथा । त एव काशी लिंगानि वराण्यर्च्यान्यहं यथा
凡口诵“婆罗那西”、耳闻毗湿维湿瓦罗之圣传者,彼等即是迦尸之吉祥林伽,堪受礼敬,如同于我。
Verse 37
वाराणसीति काशीति रुद्रावास इति स्फुटम् । मुखाद्विनिर्गतं येषां तेषां न प्रभवेद्यमः
凡口中清晰诵出“瓦拉纳西”“迦尸”“鲁陀罗之居处”者,阎摩不能胜过他们。
Verse 38
आनंदकाननं प्राप्य ये निरानंदभूमिकाम् । अन्यां हृदापि वांछंति निरानंदाः सदात्र ते
纵已到达阿难陀迦那那(迦尸,喜乐之林),若心中仍贪恋别处那无喜之地,此人实则恒常在此失却安乐。
Verse 39
अद्यैव वास्तुमरणं बहुकालांतरेपि वा । कलिकाल भिया पुंसां काशी त्याज्या न कर्हिचित्
无论死亡就在今日,或在久远之后;因畏惧迦梨时代之祸,人都不应在任何时候舍弃迦尸。
Verse 40
अवश्यंभाविनो भावा भविष्यंति पदेपदे । सलक्ष्मीनिलयां काशीं ते त्यजंति कुतो धियः
不可避免之事步步皆生;智者怎会舍弃迦尸——吉祥的拉克什弥所居之处?
Verse 41
वरं विघ्नसहस्राणि सोढव्यानि पदेपदे । काश्यां नान्यत्र निर्विघ्नं वांछेद्राज्यमपि क्वचित्
宁可在迦尸步步忍受千般障碍,也不应在他处希求一个无碍的王国。
Verse 42
कियन्निमेषसंभोग्याः संति लक्ष्म्याः पदेपदे । परं निरंतरसुखाऽमुत्राप्यत्रापि का शिका
有多少富贵,只能在一瞬眨眼间、步步之间短暂受用?而迦尸迦(Kāśikā)赐予不断绝的安乐——此世与彼世皆然。
Verse 43
विश्वनाथो ह्यहं नाथः काशिकामुक्तिकाशिका । सुधातरंगा स्वर्गंगा त्रय्येषा किन्न यच्छति
我乃毗湿瓦那他(Viśvanātha),主宰;迦尸迦(Kāśikā)是赐解脱者。此天界恒河,波涛如甘露——这三者合一,又有何不赐?
Verse 44
पंचक्रोश्यापरिमिता तनुरेषा पुरी मम । अविच्छिन्नप्रमाणर्धिर्भक्तनिर्वाणकारणम्
此我之城——以“潘恰克罗希”(Pañcakrośī)为度——即是我的身躯;其神圣疆界绵延不断,成为信众得解脱之因。
Verse 45
संसारभारखिन्नानां यातायातकृतां सदा । एकैव मे पुरी काशी ध्रुवं विश्रामभृमिका
对被轮回(saṃsāra)重担所困、恒常奔波往来的众生而言,唯有迦尸(Kāśī)——我的城——确是安稳的歇息之地。
Verse 46
मंडपः कल्पवल्लीनां मनोरथफलैरलम् । फलितः काशिकाख्योयं संसाराध्वजुषां सदा
此迦尸迦(Kāśikā)恒为行走轮回之路者,如同由如意藤蔓结成的亭阁,累累丰硕,满载心愿之果。
Verse 47
चक्रवर्तेरियं छत्रं विचित्रं सर्वतापहृत् । काशीनिर्वाणराजस्य ममशूलोच्च दंडवत्
这位转轮圣王的奇妙华盖,能除尽一切苦恼;对“解脱之王”迦尸而言,它如高举之杖般挺立,宛如我的三叉戟。
Verse 48
निर्वाणलक्ष्मीं ये पुण्याः परिवांछंति लीलया । निरंतरसुखप्राप्त्यै काशी त्याज्या न तै नृभिः
那些有福之人,仿佛嬉游般向往解脱之福(涅槃之吉祥),为得无间之乐,绝不可舍离迦尸。
Verse 49
ममानंदवने ये वै निरं तर वनौकसः । मोक्षलक्ष्मीफलान्यत्र सुस्वादूनि लभंति ते
凡恒常居于我之阿难陀林者,便在彼处得享解脱恩泽之甘美果实,亦即摩克沙之福。
Verse 50
निर्ममं चापि निर्मोहं या मामपि विमोहयेत् । कैर्न संस्मरणीया सा काशी विश्वविमोहिनी
她竟能迷醉无我无惑之人——甚至迷醉我;如此迷惑全世界的迦尸,怎会无人忆念?
Verse 51
नामापि मधुरं यस्याः परानंदप्रकाशकम् । काश्याः काशीति काशीति सा कैः पुण्यैर्न जप्यते
迦尸之名亦自甘美,照耀至上安乐。凭何功德,竟有人不诵念她的圣名——“迦尸,迦尸”?
Verse 52
काशीनामसुधापानं ये कुर्वंति निरंतरम् । तेषां वर्त्म भवत्येव सुधाम वसुधामयम्
凡恒常“饮”迦尸圣名甘露(amṛta)者,其所行之道亦如以甘露铺成,使大地本身化为甜美清净之境。
Verse 53
ममतारहितस्यापि मम सर्वात्मनो ध्रुवम् । त एव मामका लोके ये काशीनाम जापकाः
虽我离于占有之念,且为一切众生之自性真我;然此事决定无疑:世间凡诵念迦尸圣名者,实为“我之所亲”,真属我者。
Verse 54
रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः । सब्रह्मयोगिनी ब्रध्रैः स्थितं तत्रैव नान्यथा
知此为神圣秘奥,婆罗那西之众伽那主宰,与梵天及诸长老瑜伽女神同在,唯安住于彼处,别无他方。
Verse 55
अन्यथा ताश्च योगिन्यः सरविः सपितामहः । ते गणा मां परित्यज्य कथं तिष्ठेयुरन्यतः
若非如此,那些瑜伽女神,乃至日神与祖父梵天,以及诸伽那,怎能舍我而住于他处?
Verse 56
अतीव भद्रं संजातं काश्यां तिष्ठत्सु तेषु हि । एकोपि भेद प्रभवेद्राज्ये राज्यांतरं विना
当他们安住迦尸之时,极大吉祥由此而生;因为哪怕一丝分裂,也能在一国之中生出“另一国度”。
Verse 57
लब्धप्रवेशास्तावंतस्ते सर्वे मत्स्वरूपिणः । यतिष्यंति यतोवश्यं मदागमनहेतवे
既已得以进入彼处,他们众人——无论多少——皆具我之形;并将竭尽一切可能,促成我之降临。
Verse 58
अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः । ये ते तत्र स्थिताः श्रेष्ठा अपिगंतास्म्यहं ततः
“我也将再派他人——在我近侍随从中往来者。至于那些已驻守于彼处的卓越者——其后,我亦将亲自前往那里。”
Verse 59
विचार्येति महादेवः समाहूय गजाननम् । प्राहिणोत्कथयित्वेति गच्छ काशीमितः सुत
如此思量之后,摩诃提婆召来象面者伽阇阿难那,遣他前往,说道:“从此处去迦尸吧,我的儿子,将此事传达。”
Verse 60
तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः । निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर
“即便驻留彼处,也要与诸伽那同心用力,以成就此事。使我等之业无有障碍——而对那位国王,则令障碍生起。”
Verse 61
आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः । प्रतस्थे त्वरितः काशीं स्थितिज्ञः स्थितिहेतवे
将杜尔阇提之命恭奉于顶,伽那之主便迅疾启程赴迦尸——明知正法之序,为了确立并护持那秩序。