Adhyaya 42
Kashi KhandaPurva ArdhaAdhyaya 42

Adhyaya 42

本章以教诲式对话展开:阿伽斯提耶请问库玛罗(斯甘达),如何辨知死亡之时(kāla)将近,具身众生会显现哪些征兆(cihnāni)。库玛罗依次说明生理与感知的种种标记——尤重鼻孔中气息流动的模式、异常的感官体验、身体干枯与肤色变异、影子或镜像的紊乱,以及不祥梦境的主题——并常将每一征兆与大致所余寿命相联系,从数日到数月不等。 随后论述由“诊察”转向伦理与神学的劝诫:时间不可被“智巧胜过”,故当以纪律修习瑜伽,或归依迦尸(Kāśī),以毗湿维湿伐罗(Viśveśvara)为决定性的庇护。后半更彰显迦尸的圣德(Kāśī-māhātmya):居住于婆罗那西(Vārāṇasī)、礼拜并亲近毗湿维湿伐罗,以及此城的救度地位,被说为能超越对迦利、时光、衰老与罪业的寻常恐惧。章末反思衰老(jarā)之不可避免,视其为衰败的主要标记,并务实劝人趁未羸弱之前先求往迦尸,以免病弱限制宗教行持。

Shlokas

Verse 1

अगस्तिरुवाच । कथं निकटतः कालो ज्ञायते हरनंदन । तानि चिह्नानि कतिचिद्ब्रूहि मे परिपृच्छतः

阿伽斯提耶说道:“哈罗之子啊,如何得知时辰(死亡)已近?请为我说出其中若干征兆,我今特来请问。”

Verse 2

कुमार उवाच । वदामि कालचिह्नानि जायंते यानि देहिनाम् । मृत्यौ निकटमापन्ने मुने तानि निशामय

鸠摩罗(军荼天子、斯迦陀)说道:“我将宣说时间之相,如何在有身众生中显现。死亡临近之时,圣仙啊,当细察这些征兆。”

Verse 3

याम्यनासापुटे यस्य वायुर्वाति दिवानिशम् । अखंडमेव तस्यायुः क्षयत्यब्दत्रयेण हि

若一人之气息昼夜不断地由南鼻孔(右鼻孔)流行,则其余寿命将持续消减;确然在三年之内便告耗尽。

Verse 4

अहोरात्रं त्र्यहोरात्रं रविर्वहति संततम् । अब्दमेकं च तस्येह जीवनावधिरुच्यते

若“太阳之流”(右鼻孔之气流)连续不断地运行一昼一夜,或连续三昼三夜,则此人在世间之寿限,据说仅余一年。

Verse 5

वहेन्नासापुटयुगे दशाहानि निरंतरम् । वातश्चेत्सह संक्रांतिस्तया जीवेद्दिनत्रयम्

若气息连续十日不绝地由两鼻孔同流,而又伴随风流之“转变”,则以此征兆而言,只再存活三日。

Verse 6

नासावर्त्म द्वयं हित्वा मातरिश्वा मुखाद्वहेत् । शंसेद्दिनद्वयादर्वाक्प्रयाणं तस्य चाध्वनि

若舍离两鼻道,而生命之风由口而出,应宣告此人将于两日之内踏上终途,迎来离世之时。

Verse 7

अकस्मादेवयत्काले मृत्युः सन्निहितो भवेत् । चिंतनीयः प्रयत्नेन स कालो मृत्युभीरुणा

当死亡忽然逼近之时,畏惧死亡者应当以勤勉之力细细省思那一刻,好使行持如法,不至于措手不及。

Verse 8

सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे । पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत्

当太阳位于第七宫位,而月亮落在出生宿(本命星宿)之时,此时称为“Pauṣṇa”,应当加以观照,尤以“太阳之息”由南侧(右鼻孔)流行之际为要。

Verse 9

अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिंगलम् । तस्मिन्नेव क्षणेऽरूपं स जीवेद्वत्सरद्वयम्

然而若有人忽然见到一位肤色黧黑而带赭黄之人,则自那一刹那起——虽其征兆幽微无形——便说其寿命仅余两年。

Verse 10

यस्य बीजं मलं मूत्रं क्षुतं मूत्रं मलं तु वा । इहैकदा पतेद्यस्य अब्दं तस्यायुरिष्यते

若一人之精液、粪便、尿液,乃至喷嚏(并伴随尿或粪)在此处哪怕一次不由自主地泄落,则其余寿被认为仅有一年。

Verse 12

व्यभ्रेह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम् । फूत्कृत्याश्विंद्रचापं न पश्येत्षण्मासजीवितः

在无云之日,若口含满水,背向太阳,吹喷之后仍不见虹霓,则此人被说仅余六个月之寿。

Verse 13

अरुंधतीं ध्रुवं चैव विष्णोस्त्रीणिपदानि च । आसन्नमृत्युर्नोपश्येच्चतुर्थं मातृमंडलम्

凡死期将近之人,不能见阿伦达蒂(Arundhatī),亦不能见北极星德鲁瓦(Dhruva),也不能见毗湿奴(Viṣṇu)的三步;并且连第四者——诸母神之轮(Mātṛ-maṇḍala)亦不得瞻见。

Verse 14

अरुंधती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । विष्णोः पदानि भ्रूमध्ये नेत्रयोर्मातृमंडलम्

若人的舌相显如阿伦达蒂(Arundhatī),鼻尖被称为德鲁瓦(Dhruva);若在两眉之间见到毗湿奴(Viṣṇu)的足迹,又在双眼之内见诸母神之轮(Mātṛs),此皆为凶兆,示死期将至。

Verse 15

वेत्ति नीलादिवर्णस्य कटम्लादिरसस्यहि । अकस्मादन्यथाभावं षण्मासेन स मृत्युभाक्

若人觉知蓝色等诸色,以及苦酸等诸味,忽然无故变异,则此人于六个月内必趋于死。

Verse 16

षण्मासमृत्योर्मर्त्यस्य कंठोष्ठरसना रदाः । शुष्यंति सततं तद्वद्विच्छायास्तालुपंचमाः

将于六个月内死亡之人,其咽喉、唇、舌与齿恒常干枯;同样,腭为第五,亦失其光泽与本来之色。

Verse 17

रेतः करजनेत्रांता नीलिमानं भजंति चेत् । तर्हि कीनाशनगरीं षष्ठेमासि व्रजेन्नरः

若精液、指甲与眼角呈现青蓝之色,则此人于第六个月将往阎摩(Yama)之城——死王之所。

Verse 19

द्रुतमारुह्यशरठस्त्रिवर्णो यस्य मस्तके । प्रयाति याति तस्यायुः षण्मासेन परिक्षयम्

若有一只行动迅疾、三色之蜥蜴爬上人的头顶,旋即离去,则其寿命之量于六个月内耗尽。

Verse 20

सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति । चरणौ च करौ वापि त्रिमासं तस्य जीवितम्

即便已沐浴洁净,若其心胸之处忽然干枯,且双足或双手亦随之干燥,则其生命仅余三个月。

Verse 21

प्रतिबिंबं भवेद्यस्य पदखंडपदाकृति । पांसौ वा कर्दमे वापि पंचमासान्स जीवति

若其倒影显现如同双足断裂或畸形——无论在尘土中,或甚至在泥泞里——此人仅能再活五个月。

Verse 22

छाया प्रकंपते यस्य देहबंधेपि निश्चले । कृतांतदूता बध्नंति चतुर्थे मासि तं नरम्

若其身躯静止而影子却颤动不已,则至第四个月,阎摩之使者——克利坦塔(死神)之使——将缚此人。

Verse 23

निजस्य प्रतिबिंबस्य नीराज्यमुकुरादिषु । उत्तमांगं न यः पश्येत्समासेन विनश्यति

若在洁净无瑕的镜子等处,竟看不见自己倒影的上部——头部——则此人于一月之内亡逝。

Verse 24

मतिर्भ्रश्येत्स्खलेद्वाणी धनुरैद्रं निरक्षितै । रात्रौ चंद्रद्वयं चापि दिवा द्वौ च दिवाकरौ

若心神错乱、言语失措,又见无雨而虹现;若夜见双月、昼见双日——此皆为大凶之兆,预示死期将近。

Verse 25

दिवा च तारकाचक्रं रात्रौ व्योमवितारकम् । युगपच्च चतुर्दिक्षु शाक्रं कोदंडमंडलम्

若白昼见群星成轮,或夜间见星罗满天而非其常;又或四方同时显现因陀罗之弓的圆弧——此等皆被视为不祥之兆。

Verse 26

भूरुहे भूधराग्रे च गंधर्वनगरालयम् । दिवापिशाच नृत्यं च एते पंचत्वहेतवः

若见“乾闼婆之城”般的海市蜃楼,仿佛栖于树上或立于山巅;又见毗舍遮在白昼起舞——此等皆为导向死亡之因与征兆。

Verse 27

सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते । तदा मासावधिं मृत्युः प्रतीक्षेत न चाधिकम्

在这一切征兆之中,若人哪怕见到其中之一,则据说死亡至多只等待一月,不会更久。

Verse 28

करावरुद्ध श्रवणः शृणोति न यदा ध्वनिम् । स्थूलः कृशः कृशस्थूलस्तदामासान्निवर्तते

当人以双手掩耳仍听不见任何声响;又当身形或肥或瘦,或忽瘦忽肥、反复无常——则生命将在数月之内退去。

Verse 29

यः पश्येदात्मनश्छायां दक्षिणाशा समाश्रिताम् । दिनानि पंच जीवित्वा पंचत्वमुपयाति सः

若有人见自身之影倾向南方之方位,则仅再活五日,便归于死亡。

Verse 30

प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः । भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरसूकरैः

若见其被拖拽而去,乃至被啖食——为毗舍遮、阿修罗与乌鸦,及诸部多、饿鬼,又为犬、鹫、豺、驴与野猪——此等所见,乃大凶之兆。

Verse 31

रासभैः करभैः कीशैः श्वेनैरश्वतरैर्बकैः । स्वप्ने स जीवितं त्यक्त्वा वर्षांते यममीक्षते

若于梦中为驴、骆驼、猴、犬、骡与鹤所扰所围,则其既舍此身命,至岁终必得见阎摩。

Verse 32

गंधपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः । यः पश्येत्स्वप्नसमये सोऽष्टौ मासाननित्यहो

若于梦时见自身之躯以赤色香料、花鬘与衣裳庄严,呜呼!其身无常,仅余八月。

Verse 33

पांसुराशि च वल्मीकं यूपदंडमथापि वा । योधिरोहति वै स्वप्ने स षष्ठे मासि नश्यति

若于梦中登上尘土之堆、蚁丘,或甚至祭柱之上,则至第六个月必亡。

Verse 34

रासभारूढमात्मानं तैलाभ्यक्तं च मुंडितम् । नीयमानं यमाशां यः स्वप्ने पश्येत्स्वपूर्वजान्

若人在梦中见自己骑驴,身被涂油而剃发,被牵引向阎摩之方,并又见到已逝的祖先,此乃大凶之兆,示死亡迫近。

Verse 35

स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः । तृणानि शुष्ककाष्ठानि षष्ठे मासि न तिष्ठति

若人梦中见草与枯木落在自己头上或身上,则不能活至第六个月;此示六个月内将有死亡。

Verse 36

लोहदंडधरं कृष्णं पुरुषं कृष्णवाससम् । स्वयं योग्रे स्थितं पश्येत्स त्रीन्मासान्न लंघयेत्

若梦中见一黑暗之人,身着黑衣,手持铁杖,立于轭旁似欲擒拿,则不能越过三个月;此示三个月内将死。

Verse 37

काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः । स मासेन समीक्षेत नगरींशमनोषिताम्

若梦中有一黑色处女、宛如迦梨,以绳索缚其双臂,则一月之内便将见到阎摩(Śamana)所居之城;即抵达阎摩之界。

Verse 38

नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन् । दिनैः स पंचभिरेव पश्येत्संयमिनीं पुरीम्

若人梦中骑猴向东方而行,则仅五日便见到三摩耶弥尼(Saṃyaminī),那“制御之城”——阎摩之城。

Verse 39

कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि । प्रकृतेर्विकृतिश्चेत्स्यात्तदा पंचत्वमृच्छति

若吝者亦能慷慨,或慷慨者反成吝啬——若自性之常态发生扭曲变异——则趋于“pañcatva”,归入五大之解散(死亡)。

Verse 40

एतानि कालचिह्नानि संत्यन्यानि बहून्यपि । ज्ञात्वाभ्यसेन्नरो योगमथवाकाशिकां श्रयेत्

此等乃时轮之征兆、死亡之预相,此外尚有许多。既知其然,男子当修习瑜伽;或当归依迦尸迦(迦尸)。

Verse 41

न कालवंचनोपायं मुनेन्यमवयाम्यहम् । विना मृत्युजयं काशीनाथं गर्भावरोधकम्

噢牟尼,我不宣说任何欺瞒、胜过时轮之法——唯有迦尸那他,迦尸之主,号“摩利提云阇耶”(胜死者),能阻断入胎之路(止息再生)。

Verse 42

तावद्गर्जंति पापानि तावद्गर्जेद्यमो नृपः । यावद्विश्वेशशरणं नरो न निरतो व्रजेत्

诸罪之咆哮唯至此为止,阎摩王之咆哮亦唯至此为止——只要此人尚未专心归依毗湿维沙(毗湿维湿伐罗)。

Verse 43

प्राप्तविश्वेश्वरावासः पीतोत्तरवहापयाः । स्पृष्ट विश्वेशसल्लिंगः कश्च याति न वंद्यताम्

有谁能不堪受敬?——既已抵达毗湿维湿伐罗之居处,饮过北流(Uttaravāhinī)恒河之水,又触及毗湿维沙吉祥之林伽者。

Verse 44

करिष्येत्कुपितःकालः किंकाशीवासिनां नृणाम् । काले शिवः स्वयं कर्णे यत्र मंत्रोपदेशकः

愤怒的时辰(死亡)又能对居住在迦尸的众人做什么呢——在那里,于最后一刻,湿婆亲自向耳中授予真言的教诲。

Verse 45

यथा प्रयाति शिशुता कौमारं च यथा गतम् । सत्वरं गत्वरं तद्वद्यौवनं चापि वार्धकम

正如婴幼之期迅速走向童年,而童年也很快逝去;同样地,青春匆匆而过,老年紧随其后。

Verse 46

यावन्नहि जराक्रांतिर्यावन्नेंद्रियवैक्लवम् । तावत्सर्वं फल्गुरूपं हित्वा काशीं श्रयेत्सुधीः

只要尚未被衰老所侵,只要诸根尚未羸弱;在此之前,智者应舍弃一切琐末之事,而归依迦尸。

Verse 47

अन्यानि काललक्ष्माणि तिष्ठंतु कलशोद्भव । जरैव प्रथमं लक्ष्म चित्रं तत्रापि भीर्नहि

让其他时光的征兆都暂且停留吧,噢壶生者;唯有衰老才是最先、最主要的标记。奇异的是,即便如此,人们仍不生畏惧。

Verse 48

पराभूतो हि जरया सर्वैश्च परिभूयते । हृततारुण्यमाणिक्यो धनहीनः पुमानिव

诚然,被衰老所压倒的人为众人所轻慢;如同失却青春宝珠之人,仿佛一无所有、贫乏无财。

Verse 49

सुतावाक्यं न कुर्वंति पत्नी प्रेमापि मुंचति । बांधवा नैव मन्यंते जरसाश्लेषितं नरम्

儿女不再听从他的话语;连妻子也放下爱恋;亲族亦不再敬重那被老迈所拥抱的人。

Verse 50

आश्लिष्टं जरया दृष्ट्वा परयोषिद्विशंकिता । भवेत्पराङ्मुखी नित्यं प्रणयिन्यपि कामिनी

见到男子被老迈所拥抱,即便是多情而炽热的女子——心怀惧疑——也常常转面背离,远远避开。

Verse 51

न जरा सदृशो व्याधिर्न दुःखं जरया समम् । कारयित्र्यपमानस्य जरैव मरणं नृणाम्

无有疾病可比老迈,无有忧苦可等老迈;它正是屈辱的造作者,而对世人而言,老迈本身即是死亡。

Verse 52

न जीयते तथा कालस्तपसा योगयुक्तिभिः । यथा चिरेणकालेन काशीवासाद्विजीयते

时光并非凭苦行或瑜伽法门便能如此战胜;而是在应有的时日里,藉由居住于圣地迦尸(Kāśī)而得以超越。

Verse 53

विनायज्ञैर्विनादानैर्विना व्रतजपादिभिः । विनातिपुण्यसंभारैः कः काशीं प्राप्तुमीहते

若无祭祀(yajña),若无布施(dāna),若无誓戒、持咒(japa)等修行——若无丰厚福德资粮——谁又能希求抵达迦尸(Kāśī)?

Verse 54

काशीप्राप्तिरयं योगःकाथीप्राप्तिरिदं तपः । काशीप्राप्तिरिदं दानं काशीप्राप्तिः शिवैकता

此瑜伽导向得至迦尸(Kāśī);此苦行导向得至迦尸;此布施导向得至迦尸——而与湿婆(Śiva)合一,正是迦尸之真正成就。

Verse 55

कः कलिकोथवा कालः का जरा किं च दुष्कृतम् । का रुजः केंतराया वा श्रिता वाराणसी यदि

若已归依婆罗那西(Vārāṇasī),迦梨(Kali)又有何力,乃至时间又能如何?那时何谓衰老,何谓罪业?若迦尸真为归宿,疾病与障碍又算什么?

Verse 56

कलिस्तानेव बाधेत कालस्तांश्च जिघांसति

迦梨(Kali)只扰害那些身在他处者,而时间亦欲击倒正是那些人。

Verse 57

एनांसि तांश्च बाधंते ये न काशीं समाश्रिताः । काशीसमाश्रिता यैश्च यैश्च विश्वेश्वरोर्चितः । तारकं ज्ञानमासाद्य ते मुक्ताः कर्मपाशतः

罪业折磨未归依迦尸(Kāśī)之人;而居于迦尸、礼敬毗湿韦湿伐罗(Viśveśvara)者,得证解脱之“多罗迦”(Tāraka)智慧,便从业力之缚中解脱。

Verse 58

धनिनो न तथा सौख्यं प्राप्नुवंति नराः क्वचित् । यथा निधनतः काश्यां लभते सुखमव्ययम्

富贵之人亦难在任何处得此等安乐;唯有在迦尸(Kāśī)迎受死亡,方得不坏之极乐。

Verse 59

वरं काशीसमावासी नासीनो द्युसदां पदम् । दुःखांतं लभते पूर्वः सुखांतं लभते परः

居住于迦尸(Kāśī)者,胜过端坐于诸天之位者。前者得离苦之终;后者仅得乐尽之终。

Verse 60

स्थितोपि भगवनीशो मंदरं चारुकंदरम् । काशीं विना रतिं नाऽप दिवोदासनृपोषिताम्

即使圣主居于洞府秀美的曼陀罗山(Mandara),若无迦尸(Kāśī)亦不生欢喜——纵然当时迦尸由天授王迪沃达萨(Divodāsa)护持。