
本章叙述摩图罗婆罗门Śivaśarmā在解脱之城(muktipurī)沐浴后命终上升,趋向毗湿奴的境界。途中他见到一处光辉吉祥的世界而发问;两位伽那侍从解释:七圣仙(Saptarṣi)——摩利支(Marīci)、阿特里(Atri)、普罗诃(Pulaha)、普罗悉底耶(Pulastya)、克罗图(Kratu)、安吉罗娑(Aṅgiras)、婆悉吒(Vasiṣṭha)——奉造物主之命住于迦尸(Kāśī),以繁衍众生,并列举其妻为“世界之母”。 诸仙决意修苦行(tapas),前往阿毗穆克多(Avimukta),此地被称为有“知田者”居住的圣域(kṣetra),为求普遍解脱。他们安立以各自名号命名的林伽(liṅga),以苦行之力维系三界。经文并给出圣地索引:阿特里湿伐罗(Atriśvara)在瞿羯那湿伐罗(Gokarṇeśa)水域旁;摩利支之池(kuṇḍa)与摩利支湿伐罗(Marīcīśvara);普罗诃与普罗悉底耶在天门(Svargadvāra)附近;安吉罗娑湿伐罗(Aṅgiraseśvara)在哈利计舍婆林(Harikeśava-vana);婆悉吒摩湿伐罗(Vāsisṭhameśvara)与克罗图湿伐罗(Kratvīśvara)在伐楼那河(Varuṇā)岸——各处皆与获得tejas与升至善界等功德相应。 章末以伦理与神学的赞颂推尊阿伦达蒂(Arundhatī)为无与伦比的贞顺妻(pativratā),宣称仅忆念其名亦得如沐恒河(Gaṅgā)之功德,并将她安置为圣境叙述中的规范典范。
Verse 1
अगस्तिरुवाच । इति शृण्वन्कथां रम्यां शिवशर्माऽथ माथुरः । मुक्तिपुर्यां सुसंस्नातो मायापुर्यां गतासुकः
阿伽斯提耶说道:如是聆听这动人故事的摩图罗人湿婆舍摩,在解脱之城沐浴清净之后,欢喜地前往幻力之城(摩耶城)。
Verse 2
नेत्रयोः प्राघुणी चक्रे ततः सप्तर्षिमंडलम् । व्रजन्स वैष्णवं लोकमंते विष्णुपुरीक्षणात्
在他眼前,七圣仙之轮(七仙宿)赫然显现;继而他继续前行,凭借得见毗湿奴之城的圣观,终于抵达毗湿奴的世界。
Verse 3
उवाच च प्रसन्नात्मा स्तुतश्चारणमागधैः । प्रार्थितो देवकन्याभिस्तिष्ठ तिष्ठेति चक्षणम्
他心神澄明而开口说话——受迦罗那与摩伽陀众所赞颂;诸天女一再恳求道:“请住、请住”,哪怕片刻。
Verse 4
स्थिता सुतासु निःश्वसस्य मंदभाग्या वयं त्विति । गतः पुण्यतमांल्लोकानसौ यत्पुण्यवत्तमः
她们站在同伴之中叹息道:“我们实在薄福。”因为那位功德最胜者,已前往至圣的诸世界。
Verse 5
इति शृणवन्मुखात्तासां वचनानि विमानगः । देवौ कस्यायमतुलो लोकस्तेजोमयः शुभः
他从她们口中听到这些话,那乘天车而行者便问道:“诸神啊,这无比吉祥、通体光明的世界,属于谁?”
Verse 6
इति द्विजवचः श्रुत्वा प्रोचतुर्गणसत्तमौ । शिवशर्मञ्छिवमते सदा सप्तर्षयोमलाः
听了婆罗门之言,那两位最胜的神侍答道:“噢,湿婆舍摩——依湿婆之教——无垢的七圣仙恒常住于此。”
Verse 7
वसंतीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा । मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः
居住于此、奉众生之主之命以繁衍众生者是:摩利支、阿底利、普罗诃、普罗私底耶、克罗图与安吉罗。
Verse 8
वसिष्ठश्च महाभागो ब्रह्मणो मानसाः सुताः । सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः
而大福德的婆悉吒(Vasiṣṭha)等,乃梵天(Brahmā)意生之子。在诸《往世书》(Purāṇa)中,他们被确然称为“七梵天”。
Verse 9
संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः । स्मृतिरूर्जा क्रमादेषां पत्न्यो लोकस्य मातरः
娑ṃbhūti、阿那苏雅(Anasūyā)、刹摩(Kṣamā)、普利提(Prīti)、善那提(Sannati)、忆念(Smṛti)与乌尔迦(Ūrjā)——依次为其妻,敬奉为世间之母。
Verse 10
एतेषां तपसा चैतद्धार्यते भुवनत्रयम् । उत्पाद्य ब्रह्मणा पूर्वमेते प्रोक्ता महर्षयः
凭借这些伟者的苦行(tapas),三界得以维系。往昔梵天创造他们之后,宣说他们为大圣仙(mahāṛṣi)。
Verse 11
प्रजाः सृजत रे पुत्रा नानारूपाः प्रयत्नतः । ततः प्रणम्य ब्रह्माणं तपसे कृतनिश्चयाः
“诸子啊,当勤勉用功,创造种种形相的众生。”于是他们礼拜梵天,坚定决意修行苦行(tapas)。
Verse 12
अविमुक्तं समासाद्य क्षेत्रंक्षेत्रज्ञधिष्ठितम् । मुक्तये सर्वजंतूनामविमुक्तं शिवेन यत्
他们抵达阿毗穆克多(Avimukta)——由“知田者”(Kṣetrajña)所主宰的神圣道场;此阿毗穆克多乃湿婆(Śiva)为一切众生之解脱而安立。
Verse 13
प्रतिष्ठाप्य च लिंगानि ते स्वनाम्नांकितानि च । शिवेति परया भक्त्या तेपुरुग्रं तपो भृशम
他们安立诸林伽,并刻上各自之名;以至上虔敬高呼“湿婆!”而行极其严峻的苦行。
Verse 15
प्राजापत्येऽत्र ते लोके वसंत्युज्ज्वलतेजसः । गोकर्णेशस्य सरसः प्रत्यक्तीरे प्रतिष्ठितम्
在此普罗阇波提亚之境,那些光辉炽盛者居住。此圣地安立于戈迦耳涅湿伐罗之湖的西岸。
Verse 16
लिंगमत्रीश्वरं दृष्ट्वा ब्रह्मतेजोभिवर्धते । कर्कोट वाप्या ईशाने मरीचेः कुंडमुत्तमम्
瞻礼名为阿特利湿伐罗的林伽,梵之光辉便增长。其东北有迦尔科塔阶井,以及殊胜的摩利支池。
Verse 17
तत्र स्नात्वा नरो भक्त्त्या भ्राजते भास्करो यथा । मरीचीश्वर संज्ञं तु तत्र लिंगं प्रतिष्ठितम्
若在彼处以虔敬沐浴,男子便如太阳般光耀。彼处安立一林伽,名曰摩利支湿伐罗。
Verse 18
तल्लिंगदर्शनाद्विप्र मारीचं लोकमाप्नुयात् । कांत्या मरीचिमालीव शोभते पुरुषर्षभः
婆罗门啊,由瞻礼此林伽,便可得至摩利支世界。人中雄者以光辉庄严,宛如以万道光线为鬘。
Verse 19
पुलहेश पुलस्त्येशौ स्वर्गद्वारस्य पश्चिमे । तौ दृष्ट्वा मनुजो लोके प्राजापत्ये महीयते
普拉诃伊沙与普拉斯提耶伊沙位于天门(Svargadvāra)之西。见到这二位者,于普罗阇波提亚界(Prājāpatya)得受尊荣。
Verse 20
हरिकेशवने रम्ये दृष्ट्वैवांगिरसेश्वरम् । इह लोके वसेद्विप्र तेजसापरिबृंहितः
在清妙的哈利克沙瓦林(Harikeśava)中,只要瞻礼阿恩吉拉塞湿伐罗(Aṅgiraseśvara),婆罗门便于此世安住,具足并增益灵光威德(tejas)。
Verse 21
वरणायास्तटे रम्ये दृष्ट्वा वासिष्ठमीश्वम् । क्रत्वीश्वरं च तत्रैव लभते वसतिं त्विह
在瓦拉那河(Varaṇā)秀美的河岸,瞻礼婆悉吒伊湿伐罗(Vāsiṣṭheśvara),并于彼处亦礼克拉特维伊湿伐罗(Kratvīśvara),便能在此世获得安居与安泰。
Verse 22
काश्यामेतानि लिंगानि सेवितानि शुभैषिभिः । मनोभिवांछितं दद्युरिह लोके परत्र च
在迦尸(Kāśī),这些林伽(liṅga)为求吉祥者所奉事礼敬;它们赐予心中所愿,今世与来世皆然。
Verse 23
गणावूचतुः । शिवशर्मन्महाभाग तिष्ठते सात्र सुंदरी । अरुंधती महापुण्या पतिव्रतपरायणा
众伽那(gaṇa)说道:“大福德的湿婆舍尔曼(Śivaśarman)啊,那位美丽的阿伦达蒂(Arundhatī)住在此处;她功德深厚,专一守持对夫贞顺之誓。”
Verse 24
यस्याः स्मरणमात्रेण गंगास्नान फलं लभेत् । अंतःपुरचरैर्द्वित्रैः पवित्रैः सहितो विभुः
仅仅忆念她,便能获得沐浴圣恒河(Gaṅgā)之功德。那位大能者由内廷中少数清净侍从随侍左右。
Verse 25
सदा नारायणो देवो यस्याश्चक्रे कथां मुदा । कमलायाः पुरोभागे पातिव्रत्य सुतोषितः
那罗延(Nārāyaṇa)本尊常怀欢喜,因她的贞顺守夫之德(pātivratya)而极为满足;他在莲华女神迦摩罗(Kamalā/Lakṣmī)之前、居首之处,欣然讲述她的事迹。
Verse 26
पतिव्रतास्वरुंधत्याः कमले विमलाशयः । यथास्ति न तथाऽन्यस्याः कस्याश्चित्कापि भामिनि
美丽的女子啊,在坚守贞顺守夫之德(pātivratya)的阿伦达蒂(Arundhatī)身上,有着无垢清净之心,此等纯净,世间任何女子皆不可得。
Verse 27
न तद्रूपं न तच्छीलं न तत्कौलीन्यमेव च । न तत्कलासुकौशल्यं पत्युः शुश्रूषणं न तत्
既无那般容貌,也无那般品德,亦无那般高贵门第;更无那般精妙艺业之巧,亦无那般对夫君的恭敬奉事。
Verse 28
न माधुर्यं न गांभीर्यं न चार्यपरितोषणम् । अरुंधत्या यथा देवि तथाऽन्यासां क्वचित्प्रिये
既无那般甘美,也无那般深沉庄重,亦无那般令贤贵欢悦之力。女神啊,爱者啊——如阿伦达蒂(Arundhatī)这般者,余女处处皆无。
Verse 29
धन्यास्ता योषितो लोके सभाग्याः शुद्धबुद्धयः । अरुंधत्याः प्रसंगे या नामापि परिगृह्णते
世间那些女子真是有福——福德具足、心念清净——凡在谈及阿伦达蒂(Arundhatī)时,连她的圣名也能受持并称念者。
Verse 30
यदा पतिव्रतानां तु कथास्मद्भवने भवेत् । तदा प्राथमिकीं रेखामेषाऽलंकुरुते सती
每当在我家诵说贞顺持戒之妻(pativratā)的圣传之时,这位贤淑的妇人便在当下装点那最初的吉祥之线,正合贞洁之德。
Verse 31
ब्रुवतोरिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम् । ध्रुवलोकौपागतस्ततो नयनातिथ्यमतथ्यवर्जितः
当那两位毗湿奴信众的侍从继续讲述那令人欢喜的故事时,他随即见到一位已至达鲁瓦之界(Dhruva-loka)者——如同为双眼而来的贵客,毫无虚妄与瑕疵。