Adhyaya 12
Kashi KhandaPurva ArdhaAdhyaya 12

Adhyaya 12

本章先述奈利ṛ陀(Nairṛta)方位及其世界众生,强调即便出身被轻视者,只要依循圣传与法典(śruti-smṛti),奉行不害、真实、克制,并敬重二生者(dvija),亦可称为随顺福德之人。经文并明言劝止自伤自害,指出其对灵性修行有大损。 继而以事例阐明业果:林野首领平伽眼(Piṅgākṣa,pallīpati)被描绘为护持行旅的猎者,遵守有节制的“狩猎之法”(mṛgayā-dharma),常施援助与庇护。其贪婪亲族的暴行与平伽眼临终之意,成为说明因果报应的关键,终使其得奈利ṛ陀界之主位。 随后转入伐楼那(Varuṇa)之界,列举利济大众的布施:凿井、建池、施水、设荫凉休憩堂、渡人过河、除怖安众,皆为积德与得安稳之因。末段叙述伐楼那之缘起:圣者之子舒吉斯曼(Śuciṣmān)为水中生类所掳,赖湿婆(Śiva)慈悲介入与虔敬之力而复归;其后在婆罗那西(Vārāṇasī)修苦行,蒙湿婆赐福得统御诸水,并于迦尸(Kāśī)建立伐楼那主神林伽(Varuṇeśa-liṅga),令礼敬者免于水患之怖与相关病苦。

Shlokas

Verse 1

शिवशर्मोवाच । नैरृतादीन् क्रमाल्लोकानाख्यातं पुरुषोत्तमौ । पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ

湿婆沙尔曼说道:“至善之人啊,你已依次讲述自奈利利塔界起的诸世界;你的发鬟仿佛蒙着至上人格(Purushottama)莲华足下的花粉。”

Verse 2

गणावूचतुः । आकर्णय महाभाग संयमिन्याः पुरीं पराम् । दिक्पतेर्निरृतस्यासौ पुण्यापुण्यजनोषिता

众伽那说道:“大福德者啊,请听那至上之城三耶弥尼(Saṃyaminī)——它属于方位之主奈利利塔(Nirṛta);城中居住着善人与不善之人。”

Verse 3

राक्षसानिवसंत्यस्यामपरद्रोहिणः सदा । जातिमात्रेण रक्षांसि वृत्तैः पुण्यजना इमे

在那座城中住着罗刹(Rākṣasa),他们恒常不加害于人。虽仅以出生称为罗刹,然以其行持,实为真正的善人。

Verse 4

स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि । नाद्रियंतेऽन्नपानानामस्मृत्युक्तं कदाचन

他们遵循《忆传》(Smṛti)与《闻传》(Śruti)所示之道,纵使生于卑下阶序;且从不受用任何不合传统法则所许可的饮食。

Verse 5

परदार परद्रव्य परद्रोहपराङ्मुखाः । जाताजातौ निकृष्टायामपिपुण्यानुसारिणः

他们远离他人之妻、他人之财,并背弃加害于人的行径;即便生于最卑贱的境遇,仍随顺功德之道而行。

Verse 6

द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयंति ये । सदा संकुचितांगाश्च द्विजसंभाषणादिषु

凡以对二次生者(婆罗门等)的虔敬所获之资养身者,常怀谦抑,举止收敛;尤在与二次生者交谈往来之时更为谨慎。

Verse 7

आहूता वस्त्रवदना वदंति द्विजसंनिधौ । जयजीवभगोनाथ स्वामिन्निति हि वादिनः

被召唤时,他们在婆罗门前以谦恭之态、掩面而语,口称:“胜利!生命与福德之主啊,师尊啊!”——他们以此等恭敬之辞而闻名。

Verse 8

तीर्थस्नानपरानित्यं नित्यं देवपरायणाः । द्विजेषु नित्यं प्रणताः स्वनामाख्यानपूर्वकम्

他们恒常专注于在圣地渡口(tīrtha)沐浴,恒常归依诸神;并且常向婆罗门顶礼,先以合宜之法报上自己的名号。

Verse 9

दम दान दया क्षांति शौचेंद्रिय विनिग्रहाः । अस्तेय सत्याहिंसाश्च सर्वेषां धर्महेतवः

自制、布施、慈悲、忍耐、清净与调御诸根;并具不盗、真实与不害——此诸德行,乃一切众生之法(dharma)得以成立之因。

Verse 10

आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् । सर्वभोगसमृद्धास्ते वसंत्यत्र पुरोत्तमे

凡于应尽之事恒常精勤者,不论生于何处,皆得具足诸乐之丰饶,并居于此至上殊胜之城。

Verse 11

म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः । विहाय काशीं निर्वाण विश्राणांतेऽत्र भोगिनः

即便是外族之人,若在殊胜的圣渡处(tīrtha)命终——但非自尽者——离开迦尸(Kāśī)之后,也将在此先享其福业之果,而后蒙赐解脱(mokṣa)。

Verse 12

अंधं तमो विशेयुस्ते ये चैवात्महनो जनाः । भुक्त्वा निरयसाहस्रं ते च स्युर्ग्रामसूकराः

然而自杀之人将坠入令人失明的黑暗;经历千般地狱之苦后,他们复生为村落之猪。

Verse 13

आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता । इहापि च परत्रापि न शुभान्यात्मघातिनाम्

因此,智者无论何处都不应行自我毁灭;自杀者无有吉祥——此世与彼世皆然。

Verse 14

यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः । प्रयागे सर्वतीर्थानां राज्ञिसर्वाभिलाषदे

有些自称洞见真理者谈论“随意而终”;并指向普罗耶伽(Prayāga)——诸圣渡处(tīrtha)之王,能赐一切所愿成就者。

Verse 15

अंत्यजा अपि ये केचिद्दयाधर्मानुसारिणः । परोपकृतिनिष्ठास्ते वसंत्यत्र तु सत्तमाः

即便出身卑下之人,若遵循慈悲之法(dharma),坚住于利他之行,也能在此安住,成为善人中最胜者。

Verse 17

पल्लीपतिरभूदुग्रः पिंगाक्ष इति विश्रुतः । निर्विंध्यायास्तटे शूरः क्रूरकर्मपराङ्मुखः

有一位林野聚落的勇猛首领,名闻为“平伽克沙”(Piṅgākṣa);在尼尔温迪亚河岸,他是英雄,背离残酷之业。

Verse 18

घातयेद्दूरसंस्थोपि यः पांथपरिपंथिनः । व्याघ्रादीन् दुष्टसत्त्वांश्च स हिनस्ति प्रयत्नतः

即使远在他处,他也竭力诛除伏击行人的拦路者——虎等凶恶之兽——以审慎之力守护道路。

Verse 19

जीवेन्मृगयु धर्मेण तत्रापि करुणापरः । न विश्वस्तान्पक्षिमृगान्न सुप्तान्न व्यवायिनः

猎人当依其本业而循法度而生,亦当常怀慈悲:不可杀信任之鸟兽,不可杀熟睡者,亦不可杀交配者。

Verse 20

न तोयगृध्नून्न शिशून्नांतर्वर्त्नित्वलक्षणान् । स घातयति धर्मज्ञो जातिधर्मपराङ्मुखः

他通晓法度,不杀渴水迫切者,不杀幼小者,不杀有孕相者;他远离那等卑下、拘于物种本性的残忍。

Verse 21

श्रमातुरेभ्यः पांथेभ्यः स विश्रामं प्रयच्छति । हरेत्क्षुधा क्षुधार्तानामुपानद्दोऽनुपानहे

对因劳顿而困乏的行旅,他赐予歇息;对饥饿者,他解除其饥——并施与鞋履给赤足之人。

Verse 22

मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति । अनुव्रजति कांतारे प्रांतरे पथिकान्पथि

他将极其柔软的鹿皮施与无衣之人,并随行护送旅人走在道路上——穿越幽深森林与荒寂边地。

Verse 23

न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति । आविंध्याटवि मे नाम ग्राह्यं दुष्टभयापहम्

他并不想从他们那里夺取财物,反而赐予无畏,说:“我的名号是Āviṃdhyāṭavī——当铭记此名;它能除去对恶人的恐惧。”

Verse 24

नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति । तेपि च प्रतितीर्थं हि तमाशीर्वादयं ति वै

他每日与其子一同照拂一切贫困困苦之人;而他们在每一处圣洁渡口,确实都为他祝福。

Verse 25

इति तिष्ठति पिंगाक्षे साटवी नगरायिता । अध्वनीने ऽध्वगान्कोपि न रुणद्धि ससाध्वसः

于是,噢Piṅgākṣa,那片森林宛如一座城邑。在那条大道上,无人阻拦行旅,也无人仍怀恐惧。

Verse 27

लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः । स रुरोध तमध्वानमग्रे गत्वाऽतिगूढवत्

一个卑劣的猎人贪恋那财物,意欲置他于死地;他先行一步,封堵道路,潜伏埋伏,仿佛藏得极深。

Verse 28

तदा युप्यस्यशेषेण पिंगाक्षो मृगयां गतः । तस्मिन्नरण्ये तन्मार्गं निकषाध्युषितो निशि

于是,平眼者(Piṅgākṣa)带着仅剩的一点给养与器具出外狩猎。在那片森林里,那条道路夜间被人占据,伏者严密窥伺。

Verse 29

परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः । विश्वं कुशलितेनैतद्विश्वेशपरिरक्षितम्

凡伤害他人性命之人,其所愿终不成就。此整个世界得以安泰,皆由毗湿维沙(Viśveśa,迦尸之主)护持守护。

Verse 30

न चिंतयेदनिष्टानि तस्मात्कृष्टिः कदाचन । विधिदृष्टं यतो भावि कलुषंभावि केवलम्

因此不应反复忧思不幸,因为这般烦恼从无益处。凡命运所见所定者必将发生——无论染污或清净,终究都会到来。

Verse 31

तस्मादात्मसुखंप्रेप्सु रिष्टानिष्टं न चिंतयेत् । चिंतयेच्चेत्तदाचिंत्यो मोक्षोपायो न चेतरः

因此,求自性之乐者,不应执著于吉凶祸福。若必思惟,当观想那不可思议者——至上者;唯此为解脱之道,别无他途。

Verse 32

व्युष्टायामथयामिन्यामभूत्कोलाहलो महान् । घातयध्वं पातयध्वं नग्नयध्वं द्रुतं भटाः

随后,夜尽天明之际,忽起大喧哗:“杀了他们!推倒他们!剥去他们的衣物——快,士兵们!”

Verse 33

मा मारयध्वं त्रायध्वं भटाः कार्पटिका वयम् । अनायासं लुंठयध्वं नयध्वं च यदस्ति नः

不要杀我们——请护佑我们,士兵们!我们只是贫苦的行脚乞士。你们尽可不费力地掠取我们所有之物,并将其带走。

Verse 34

वयं पांथा अनाथाः स्मो विश्वनाथपरायणाः । सनाथास्ते न दूरं सनाथतां पथिकोऽपरः

我们是行旅之人,无人依靠,却一心归向毗湿瓦那他(Viśvanātha)。有护持者便不远离安稳;另一位旅人也同得庇护。

Verse 35

वयं पिंगाक्षविश्वासादस्मिन्मार्गेऽकुतोभयाः । यातायातं सदा कुर्मः स च दूर इतो वनात्

因信赖平伽克沙(Piṅgākṣa),我们在此路上无所畏惧。我们常常往返行走,而他离这片森林并不远。

Verse 36

इति श्रुत्वाऽथ पिंगाक्षो भटः कार्पटिकेरितम । दूरान्मा भैष्ट माभैष्ट ब्रुवन्निति समागतः

听到这些行脚乞士的话,士兵平伽克沙(Piṅgākṣa)自远处赶来,口中说道:“莫怕,莫怕。”

Verse 37

तत्कर्मसूत्रैराकृष्टो भिल्लःकार्पटिकप्रियः । तूर्णं तदायुष्यमिव तत्रोपस्थितवान् क्षणात्

被自身业力之线牵引,那比拉族人(Bhilla)——喜好侵扰行脚乞士者——顷刻间迅疾现身其处,仿佛被他自身的寿命所召唤。

Verse 38

कोयंकोयं दुराचारः पिंगाक्षे मयि जीवति । उल्लुलुंठयिषुः पांथान्प्राणलिंगसमान्मम

“只要我还活着,是谁这般邪恶,竟敢企图掠夺那些视如我生命与林伽般珍贵的旅人?”

Verse 39

इति तद्वाक्यमाकर्ण्य ताराक्षस्तत्पितृव्यकः । धनलोभेन पिंगाक्षे पापं पापो व्यचिंतयत्

听闻此言,他的叔父塔拉克沙(Tārākṣa)因贪图钱财而心生恶念,哦平加克沙(Piṅgākṣa),那个罪人开始策划罪恶的勾当。

Verse 40

कुलधर्मं व्यपास्यैष वर्तते कुलपांसनः । चिरं चिंतितमद्यामुं घातयिष्याम्यसंशयम्

“这家族的败类抛弃了家族的正法(Dharma),肆意妄为。毫无疑问,今天我要杀了他——这是我早已盘算已久的事。”

Verse 41

विचार्येति स दुष्टात्मा भृत्यानाज्ञापयत्क्रुधा । आदावेनं घातयंतु ततः कार्पटिकानिमान्

下定决心后,那个灵魂邪恶的人愤怒地命令他的仆人:“先杀了这个人,然后再把这些苦行僧也杀了。”

Verse 42

ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः । यथाकथंचित्ताननयत्स च स्वावसथांतिकम्

随后,那些品行恶劣的人与那孤身一人搏斗;然而,不知何故,他竟将他们全都引到了自己的住所附近。

Verse 43

आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः । असूदयिष्यमेतांस्तदभविष्यं यदीश्वरः

“我的弓与箭已被夺去;我的甲胄也被他们的箭矢斩裂成碎。我本可诛灭他们——若非主宰另有旨意。”

Verse 44

अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः । तेपि कार्पटिकाः प्राप्तास्तत्पल्लीं गतसाध्वसाः

说罢,他为他人之故舍弃了生命。那些行乞的出家人也抵达了那村落,心中恐惧尽皆消散。

Verse 45

या मतिस्त्वंतकाले स्याद्गतिस्तदनुरूपतः । दिगीशत्वमतः प्राप्तो निरृत्यां नैरृतेश्वरः

临终之际心念如何,来世之途便随之而定。因此他得到了方位之主的尊位——成为奈尔利塔(Nairṛta)方的统御者,居于尼尔利提(Nirṛti)之境。

Verse 46

इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम् । एतस्योत्तरतो लोको वरुणस्यायमद्भुतः

如此,我们已向你说明了他的真实境况。在此之北,有伐楼那(Varuṇa)那奇妙的世界。

Verse 47

कूपवापीतडागानां कर्तारो निर्मलैर्धनैः । इह लोके महीयंते वारुणे वरुणप्रभाः

凡以清净正当之财修建水井、池塘与蓄水之所者,在此世即受尊崇;在伐楼那(Varuṇa)之界,更以伐楼那的光辉而灿然显耀。

Verse 48

निर्जले जलदातारः परसंतापहारिणः । अर्थिभ्यो ये प्रयच्छंति चित्रच्छत्रकमंडलून्

凡在无水之处施水、解除他人苦恼者,并向求乞之人布施精美伞盖与行旅用水罐(甘露瓶)者——

Verse 49

पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः । दद्युर्धर्मघटांश्चापि सुगंधोदकपूरितान्

应当设立施饮水的歇息处,备具诸般所需;并且为求法义而布施“法罐”——盛满芬芳之水的水罐。

Verse 50

अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः । विश्रामशालाकर्तारः श्रांतसंतापनोदकाः

凡为行人之利而在路旁浇灌阿湿婆他树者,凡建造歇息之所者,凡施与能消除疲惫与热恼之水者——此等之人,方行真实的济世之善。

Verse 51

ग्रीष्मोष्प्रहंति मायूरपिच्छादि रचितान्यपि । चित्राणि तालवृंतानि वितरंति तपागमे

当炎热之季来临,他们分施色彩斑斓的棕榈叶扇;有的还以孔雀翎等装饰,能驱却夏日灼热。

Verse 52

रसवंति सुगंधीनि हिमवंति तपर्तुषु । विश्राणयंति वा तृप्ति पानकानि प्रयत्नतः

在炎热时节,他们殷勤奉施令人满足的饮品:滋味醇美、芬芳馥郁、清凉沁心,使人得安适与欢喜。

Verse 53

इक्षुक्षेत्राणि संकल्प्य ब्राह्मणेभ्यो ददत्यपि । तथा नानाप्रकारांश्च विकारानैक्षवान्बहून्

他们立下庄严的布施之愿,甚至将甘蔗田供施给婆罗门;同样也奉献许多由甘蔗制成的种种食品与制品。

Verse 54

गोरसानां प्रदातारस्तथा गोमहिषीप्रदाः । धारामंडपकर्तारश्छायामंडपकारिणः

施与乳品者、布施牛与水牛者、建造供水亭者、营造遮荫亭者——此等施主以其正法之行而受赞颂。

Verse 55

देवालयेषु ये दद्युर्बहुधारागलंतिकाः । तीर्थे वा करहर्तारस्तीर्थमार्गावनेजका

在神庙中供置能分流倾注之水器者,以及在圣地(tīrtha)清除秽物、洗净朝圣道路者——他们也被尊为奉事正法之人。

Verse 56

अभयं ये प्रयच्छंति भयार्तोद्यत पाणयः । निर्भया वारुणे लोके ते वसंति लसंति च

凡赐予无畏者——向惊惧困苦之人伸出援手——得以无惧安住于伐楼那(Varuṇa)之界,并在彼处以荣光而辉耀。

Verse 57

विपाशयंति ये पुण्या दुर्वृतैः कंठपाशितान् । ते पाशपाणे लोकेस्मिन्निवसंत्यकुतोभयाः

贤善之人解开被恶徒以绳索缚喉者之套索,便于四方无畏;他们安住于持索者(Pāśapāṇi)之境界,毫无恐惧。

Verse 58

नौकाद्युपायैर्न द्यादौ पांथान्ये तारयंत्यपि । तारयंत्यपि दुःखाब्धेस्तत्र नागरिका द्विज

婆罗门啊,那些城中之人以舟船等方便渡人过河等水域——他们也同样助众生越过苦海。

Verse 59

घट्टान्पुण्यतटिन्यादेर्बंधयंति शिलादिभिः । तोयार्थिसुखसिद्ध्यर्थं ये नरास्तेत्र भोगिनः

凡以石等建造圣河及诸圣水浴阶(ghāṭa)者,为求水之人得安乐并遂其愿——此等之人于彼福境中得享富乐。

Verse 60

वितर्पयंति ये पुण्यास्तृषिताञ्शीतलैर्जलैः । तेऽत्र वै वारुणे लोके सुखसंततिभागिनः

以清凉之水解渴者,乃为善人;他们确实在伐楼那之界分得绵延不绝的安乐。

Verse 61

जलाशयानां सर्वेषामयमेकतमः पतिः । प्रचेता यादसांनाथः साक्षी सर्वेषुकर्मसु

在一切水域与水藏之中,他是最上之主——普罗切塔(伐楼那),水族之王,亦为诸行之见证。

Verse 62

अस्योत्पत्तिं शृणु पतेर्वरुणस्यमहात्मनः । आसीन्मुनिरमेयात्मा कर्दमस्य प्रजापतेः

且听那大魂之主伐楼那的起源:曾有一位灵性无量的牟尼,出自迦尔达摩·般若波提。

Verse 63

शुचिष्मानिति विख्यातस्तनयो विनयोचितः । स्थैर्य माधुर्य धैर्याद्यैर्गुणैरुपचितोहितः

一子诞生,名闻为“Śuciṣmān”,谦恭守礼、行止端正;以坚稳、柔和、勇毅等德行滋养,恒常趋向于有益之事。

Verse 64

अच्छोदे सरसि स्नातुं स गतो बालकैः सह । जलक्रीडनसंसक्तं शिशुमारो हरच्च तम्

他与众童子同往阿阇陀(Acchoda)湖沐浴。正沉迷于水中嬉戏时,一只名为śiśumāra的水中兽(似鳄之类)攫住他,将他拖走。

Verse 65

ततस्तस्मिन्मुनिसुते हृतेऽत्याहितशंसिभिः । तैः समागत्य शिशुभिः कथितं तत्पितुः पुरः

于是,那位牟尼之子被夺去,祸变骇人;众童子聚集而来,在其父面前禀告了此事。

Verse 66

हरार्चनोपविष्टस्य समाधौ निश्चलात्मनः । श्रुतबालविपत्तेश्च चचाल न मनोहरात्

他端坐于对哈罗(湿婆)的礼拜中,安住三摩地,心神不动;纵闻孩童遭难,他的心亦不离那摄人心魄的主宰。

Verse 67

अधिकं शीलयामास स सर्वज्ञं त्रिलोचनम् । पश्यञ्शंभोः समीपे स भुवनानि चतुर्दश

他愈加修持于全知的三眼主。并在商婆(Śambhu)近旁,得见十四世界。

Verse 68

नाना भूतानि भूतानि ब्रह्मांडांतर्गतानि च । चंद्रसूर्यर्क्षताराश्च पर्वतान्सरितो द्रुमान्

他见到无量众生——尽在宇宙之卵中——又见月与日、诸星宿与群星,以及群山、江河与林木。

Verse 69

समुद्रानंतरीयाणि ह्यरण्यानीस्सरांसि च । नाना देवनिकायांश्च बह्वीर्दिविषदां पुरीः

他又见大海广袤之间的森林与湖泊,并见诸天众神的种种会众,以及无数天界神城。

Verse 70

वापीकूपतडागानि कुल्याः पुष्करिणीर्बहु । एकस्मिन्क्वापि सरसि जलक्रीडापरायणान्

他见井、阶井、池塘、沟渠与许多莲池;又在某一湖中,见众生全然沉浸于水中嬉戏。

Verse 71

बहून्मुनिकुमारांश्च मज्जनोन्मज्जनादिभिः । करयंत्रविनिर्मुक्ततोयधाराभिषेचनैः

他见许多少年牟尼,时而潜入、时而浮出;又被手动器具放出的水流洒灌,如同沐浴灌顶。

Verse 72

करताडितपानीयशब्ददिङ्मुखनादिभिः । जलखेलनकैरित्थं संसक्तान्बहुबालकान्

手拍水面之声四方回响;他见许多孩童就这样沉醉其间,尽情嬉戏于水。

Verse 73

तेषां मध्ये ददर्शाथ समाधिस्थः स कर्दमः । स्वं शिशुं शिशुमारेण नीयमानं सुविह्वलम्

于是,迦尔达摩虽安住于三摩地之中,却在众人之间看见自己的幼子被鳄鱼拖拽而去,惊惶痛苦至极。

Verse 74

कयाचिज्जलदेव्याथ तस्माच्चक्रूरयादसः । प्रसह्य नीत्वोदधये दृष्टवांस्तं समर्पितम्

他又看见那孩子被那残酷的水中凶兽强行掳去,并由某位水女神交付给大海。

Verse 75

निर्भर्त्स्य सरितांनाथं केनचिद्रुद्ररूपिणा । त्रिशूलपाणिनेत्युक्तं क्रोधताम्राननेनच

随后,有人现出如鲁陀罗般的形相,严厉斥责诸河之主;那人怒容赤红,喝道:“执三叉戟者啊!”

Verse 76

कुतो जलानामधिप शिवभक्तस्य बालकः । प्रजापतेः कर्दमस्य महाभागस्य धीमतः

“湿婆的虔信者、伟大而睿智的生主迦尔达摩之子,怎会遭此祸害?水之主啊!”

Verse 77

अज्ञात्वा शिवसामर्थ्यं भवताचिरमासितः । भयत्रस्तेन तद्वाक्यश्रवणात्तमुदन्वता

“你不知湿婆之威力,才如此行事已久。”听到这番话,大海因恐惧而震颤动摇。

Verse 78

बालं रत्नैरलंकृत्य बद्ध्वा तं शिशुमारकम् । समर्पितं समानीय शंभुपादाब्जसंनिधौ

他们以珠宝装饰那孩子,又将那鳄形水兽捆缚,随即带回,呈于商布(湿婆)莲花足前。

Verse 79

नत्वा विज्ञापयत्तं च नापराध्याम्यहं विभो । अनाथनाथविश्वेश भक्तापत्तिविनाशन

他俯首顶礼而启白道:“大主啊,我并无过犯。毗湿韦湿(Viśveśa)啊,无依者之依,灭除信众灾厄者!”

Verse 80

भक्तकल्पतरो शंभोऽनेनायं दुष्टयादसा । अनायिन मया नाथ भवद्भक्तजनार्भकः

“商布啊,信众如意宝树!这恶毒的海中生灵掳走了这孩子——你信徒之幼子,纯真无辜——大主啊。”

Verse 81

गणेन तेन विज्ञाय शंभोरथ मनोगतम् । पाशेन बद्ध्वा तद्यादः शिशुहस्ते समर्पितम्

随后那位伽那明了商布之意,以绳索套缚那水中生灵,并将其置于孩子手中。

Verse 82

गृहाणेमं स्वतनयं पार्षदे शंकराज्ञया । याहि स्वभवनं वत्स ब्रुवतीति स कर्दमः

“侍从啊,奉商羯罗之命,领回这你自己的儿子。去吧,亲爱的孩子,回到你的家中。”——迦尔达摩如是说道。

Verse 83

समाधिसमये सर्वमिति शृण्वन्नुदारधीः । उन्मील्य नयने यावत्प्रणिधानं विसृज्य च

在三摩地之时,他听闻此言,心怀高贵者睁开双眼,片刻间放松了坚固的专注。

Verse 84

संपश्यते शिशुं तावत्पुरतः समवैक्षत । गृहीतशिशुमारं च पार्श्वेऽलंकृतकर्णिकम्

随即他看见那孩子在面前;其旁有被擒的似鳄之物,耳饰华美装点。

Verse 85

तोयार्द्रकाकपक्षाग्रं कषायनयनांचलम् । किंचिद्विरूक्षं त्वक्क्षोभं संभ्रमापन्नमानसम्

他发梢湿润如乌鸦之翼,眼角晦暗;形容略显凌乱,肌肤悸动,心神因惊惧而摇荡。

Verse 86

कृतप्रणाममालिंग्य जिघ्रंस्तन्मुखपंकजम् । पुनर्जातमिवामंस्त पश्यंश्चापि मुहुर्मुहुः

孩子行礼后,他将其拥入怀中,嗅闻那如莲华般的面容;仿佛见其再生一般,仍一再凝望。

Verse 87

शतानिपंचवर्षाणि प्रणिधानस्थितस्य हि । कर्दमस्य व्यतीतानि शंभुमर्चयतस्तदा

对住于不动观想的迦尔达摩而言,当时在礼敬商婆(Śambhu)之中,五百年已然流逝。

Verse 88

कर्दमोपि च तत्कालमज्ञासीत्क्षणसंगतम् । यतो न प्रभवेत्कालो महाकालस्य संनिधौ

迦尔达摩甚至未觉那段时日——仿佛只是一瞬——因为在大时主摩诃迦罗面前,时间本身亦无能为力。

Verse 89

ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च । जगाम तूर्णं तपसे श्रीमद्वाराणसीं पुरीम्

于是其子询问父亲,复又顶礼叩拜,便迅速前往光辉的瓦拉纳西城,为修苦行而去。

Verse 90

तत्र तप्त्वा तपो घोरं लिंगं संस्थाप्य शांभवम् । पंचवर्षसहस्राणि स्थितः पाषाणनिश्चलः

在那里他修行极严厉的苦行;又安立湿婆之灵伽,五千年间端坐不动,宛如磐石。

Verse 91

आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः । उवाच कार्दमे ब्रूहि कं ददामि वरोत्तमम्

随后大天显现,因其苦行而欢喜,对迦尔达摩说道:“说吧——我当赐你何等最上之愿?”

Verse 92

कार्दमिरुवाच । यदि नाथ प्रसन्नोसि भक्तानामनुकंपक । सर्वासामाधिपत्यं मे देह्यपां यादसामपि

迦尔达摩说道:“若汝欢喜,主啊,怜悯诸 भक्त者,请赐我统御一切水域之权,并及水中诸生灵。”

Verse 93

इति श्रुत्वा महेशानः सर्वचिंतितदः प्रभुः । अभ्यषिंचत तं तत्र वारुणे परमे पदे

听闻此言,摩诃伊舍那——赐予一切所愿之主——就在彼处为他灌顶,授予至上的伐楼那尊位。

Verse 94

रत्नानामब्धिजातानामब्धीनां सरितामपि । सरसां पल्वलानां च वाप्यंबु स्रोतसा पुनः

统摄海中所生诸宝,亦统摄诸海与诸河;又统摄湖泊、池沼、水库,并再统摄奔流之水——

Verse 95

जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः । अधीश्वरः पाशपाणिर्भव सर्वामरप्रियः

“汝当为一切水藏之主;亦当为西方之护持者——手执羂索,为诸天所爱。”

Verse 96

ददामि वरमन्यं च सर्वेषां हितकारकम् । त्वयैतत्स्थापितं लिंगं तव नाम्ना भविष्यति

“我再赐一愿,利益众生:汝所建立之林伽,将以汝之名而闻名。”

Verse 97

वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम् । मणिकर्णेश लिंगस्य नैरृत्यां दिशि संस्थितम्

在婆罗那西,它将以“伐楼那伊舍”(Varuṇeśa)之名著称,赐予殊胜成就;其处在摩尼迦耳涅舍林伽之西南方。

Verse 98

आराधितं सदा पुंसां सर्वजाड्यविनाशकृत् । वरुणेशस्य ये भक्ता न तेषामब्भयं क्वचित्

此神常为众人礼敬,能摧破一切迟钝与懈怠。凡为伐楼尼沙(Varuṇeśa)之 भक्त者,任何时候都不畏水患。

Verse 99

न संतापभयं तेषां नापायमरणं क्वचित् । जलोदरभयं नैव न भयं वै तृषः क्वचित्

于彼等而言,无灼苦之惧,亦无非时之死于任何时处;不惧水肿之患,亦永无口渴之怖。

Verse 100

नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः । सरसानि भविष्यंति नात्र कार्या विचारणा

忆念伐楼尼湿伐罗(Varuṇeśvara)之力,纵使寡味之食与饮亦化为甘美;对此无须疑虑与思量。

Verse 102

इदं वरुणलोकस्य स्वरूपं ते निरूपितम् । यच्छ्रुत्वा न नरः क्वापि दुरपायैः प्रबाध्यते

伐楼那之界的本相已为汝宣说。闻此之后,人无论身在何处,皆不为沉重厄难所侵扰。

Verse 205

कदाचित्तत्पितृव्येण समीप ग्रामवासिना । श्रुतः कार्पटिकानां हि सार्थः सार्थो महास्वनः

有一次,他那住在近村的叔父听见一支队伍的巨大喧声——确是一整队行旅的迦尔帕提迦(kārpaṭika)苦行乞者。